पूर्वतनः कश्चन कालः। तदा बोधिसत्वः काशीराज्ये एकस्मिन् ग्रामे कृषिकपुत्ररूपेण जन्म प्राप्तवान्। तस्य नाम आसीत् कमलाकरः। तस्य पिता गणेशः। माता पार्वती। बाल्यतः आरभ्य कमलाकरस्य बुद्धिः तीक्ष्णा। बाल्ये एव सः बहून् गम्भीरविचारान् प्रतिपादयति स्म। मातापित्रोः अपेक्षया पितामहस्य विषये कमलाकरस्य प्रीतिः अधिका आसीत्।
पितामहः वयसा वृद्धः। गृहे किमपि कार्यं कर्तुं न शक्नोति स्म। गृहसदस्यैः सर्वैः तस्य सेवा करणिया आसीत्। अतः कमलाकरस्य माता सर्वदा स्वकीयम् असमधानां प्रकटयति स्म। एकदा पार्वती पतिम् उक्तवती भवतः पितुः सेवया एव मम प्राणाः प्रायः निर्गच्छन्ति। समग्रं दिनम् एतदर्थम् एव यापितं भवति। गृहे अस्माकम् अन्यानि कार्याणि न सन्ति वा? कियत्पर्यन्तम् एवं सेवा करणीया?
कृषिकः गणेशः कोपमिश्रितस्वरेण उक्तवान् यावत् सः जीवति तावत् तस्य सेवा अस्माकं धर्मः। सेवा कष्टम् इति कृत्वा तं वयं किं मारयेम? यदि मारयामः तत्र कः दोषः? तस्य जीवनेन किमपि प्रयोजनं तु नास्ति। प्रतिदिनं सः अपि कष्टम् अनुभवति। एतदपेक्षया एकवारम् एव प्राणत्यागः उचितः। गणेस्शस्य वचनस्य अपेक्षया पार्वत्याः वचनम् उच्चस्वरेण आसीत्।
प्रथमं गणेशाय पार्वत्याः वचनानि न रोचन्ते स्म। पितुः विषये अगौरवं पापकरम् इति सः चिन्तयति स्म। किन्तु क्रमशः पत्न्याः वचनेन प्रभावितः सः तस्याः अभिप्रायम् अङ्गीकर्तुम् आरब्धवान्। इदानीं तस्य मनसि विचारः स्फुरति स्म यत् पितुः मारणे कोऽपि दोषः नास्ति। एतेन पिता वार्धक्यजनितशरीरकपीडातः मुक्तः भविष्यति इति। अतः पितुः मारणार्थं सः एकां योजनाम् उपकल्पितवान्।
एकस्मिन् दिने गणेशः पितरम् उक्तवान् अहं क्षेत्रे एकं कूपं खातुम् इच्छामि। एतदर्थं पार्श्वग्रामस्य भूस्वामितः ऋणं स्वीकरोमि। व्यवहारपत्रे भवतः हस्ताक्षरम् अपेक्षितम् इति भूस्वामी वदति। अतः भवान् मया सह पार्श्वग्रामम् आगच्छतु इति। पिता गाणेशेन सह प्रस्थितः। कमलाकरः अपि स्वपितामहम् अनुसृतवान्।
मार्गे एकम् अरण्यम् आसीत्। गणेशः अरण्यमध्ये शकटं स्थगितवान्। सः एकं कुद्दालं स्वीकृत्य अवतरन् पितरम् उक्तवान् तात! भवान् कमलाकरेण असह अत्र एव तिष्ठतु। अहम् इदानीम् आगच्छामि इति। एवम् उक्त्वा सः अरण्यं प्रविष्टवान् च। गणेशस्य गमनानन्तरं कमलाकरः अपि एकं कुद्दालं स्वीकृत्य पितामहम् उक्तवान् तात! भवान् अत्र एव तिष्ठतु! अहम् इदानीम् आगच्छामि इति। गणेशः यस्यां दिशि गतवान् ताम् एव दिशम् उद्दिश्य कमलाकरः अपि गतवान्।
किञ्चिद्दूरं गत्वा गणेशः एकं गर्तं खनन् आसीत्। तत्समीपे एव कमलाकरः अपि गर्तं खातुम् प्रवृत्तः। समीपे एव खननशब्दं श्रुत्वा गणेशः स्वकार्यं स्थगितवान्। सः शब्दम् अनुसृत्य गतवान्। तत्र स्वपुत्रं दृष्ट्वा आश्चर्यचकितः सः पृष्टवान् अरे! कमलाकर! भवान् अत्र किमर्थं गर्तं खनति इति। तदा कमलाकरः उक्तवान् येन कारणेन भवान् गर्तं खनति तेन एव कारणेन अहम् अपि गर्तं खनामि इति।
पुत्रस्य वचनं श्रुत्वा गणेशस्य वज्रघातः जातः इव। तथापि धैर्यं धरन् सः पृष्टवान् अहं किमर्थं गर्तं खनन् अस्मि इति भवान् जानाति वा? कारणं किम् इति अहं न जानामि। किन्तु एवं खनने कारणं तु भवति एव किल? अहं भवतः अनुकरणं करोमि चेत् कः दोषः इति मुग्धस्वरेण पृष्टवान् कमलाकरः।
रहस्यं निग्रहीतुम् असमर्थः गणेशाः पुत्रम् उक्तवान् वृद्धः मम पिता कदा मरणं गच्छति इति अहं न जानामि। तस्य मरणानन्तरं अन्तिमसंस्कारस्य दायित्वं मम एव अस्ति। पितामहः इदानीम् अपि जीवति किल? कः कदा मरणं प्राप्नोति इति केन वा वक्तुं शक्यते? तत्रापि सः अतीव वृद्धः। कस्यापि जीवनं शास्वतं न किल? भवतः मरणानन्तरम् अन्तिमसंस्कारस्य दायित्वं मम एव किल? यतः अहं भवतः पुत्रः अस्मि।
पुत्रस्य वचनं श्रुत्वा गणेशः दिग्भ्रान्तः। तं कश्चित् आकाशात् पातितवान् इव। पुत्रकारणतः गणेशे ज्ञाजोदयः जातः। आत्मना क्रियमाणं कर्म कियत् नीचतमम् इति सः ज्ञातवान्। अनन्तरं सः पितापुत्राभ्याम् सह स्वगृहम् आगतवान्।
गृहे तस्य पत्नी पार्वती अतीव सन्तोषेण आसीत्। सा विशेषभोजनं सज्जीकृत्य पत्युः प्रतीक्षायाम् आसीत्। किन्तु शकटतः अवतरन्तं श्वशुरं दृष्ट्वा तस्याः प्रसन्नता निराशारूपेण परिवर्तिता। गणेशः पत्न्यौ अरण्ये प्रवृत्तं सर्वं वृत्तान्तं निवेदितवान्।
तदा पार्वती आश्चर्यं प्रकटयन्ती उक्तवती। किम् एतत्! कीदृशं युगम् आगतम्? कियत्या प्रीत्या वयं पुत्रस्य पालनपोषणादिकं कृतवन्तः! किन्तु सः एव पुत्रः जीवतः पितुः अन्तिमसंस्कारार्थं गर्तं खनति! एतादृशपुत्रस्य मुखदर्शनम् अपि पापकरम् इति।
पत्नीं विशेषदृष्ट्या पश्यन् गणेशः उक्तवान् किन्तु अहम् अपि तदेव कार्यं कर्तुं गतवान् किल? मम पिता वाल्ये मां प्रीत्या न पालितवान् वा? न पोषितवान् वा? तद्दिनात् आरभ्य पार्वती श्वशुस्य विषये कदापि अनादरं न प्रकटितवती।