Sanskrit Learners Club

Where we Learn from Each Other

Realization

Source - Sanskrit Chandamama |

| October |

| 1984

Purandra was ruling representative of Udayagiri city. He was happy about the steps taken to curb looting in the city. The king was happy and respects him for his achievements. Once, he arranged for a meeting to ascertain the happenings in the city. Some citizens submitted that looters surfaced again and in day time itself they are looting. Purandra’s friend Nagaraj advised him to examine the submissions of citizens. What happened next is the story.

विवेकोदयः

पुलिन्दराज्ये उदयगिरिनामकं नगरं वहुप्रसिद्धम्। तस्स्य नगरास्य शासकप्रितिनिधिः पुरन्दरः। उदयगिरिनगरस्य शासनं दृष्ट्वा राजा बहु सन्तुष्टः। अतः राजा पुरन्द्रस्य उपरि महान्तं विश्वासम् स्थापयति। एकदा पुरन्दरः नगरव्यवस्थायाः विषये विचारविमर्शार्थं स्वसहायकानां सभाम् आयोजितवान्। तस्यां सभायां केचन नागरिकाः आगत्य उक्तवन्तः प्रभो! नगरे अपराधः प्रवर्धमानः अस्ति। चोराणां लुण्टाकानां च पीडा दिने दिने वर्धते। नागरिकाणां प्राणाः अपायपरिस्थितौ सन्ति। कृपया नगरे योग्यां रक्षणव्यवस्थां परिकल्पयतु इति।

नागरिकाणां वचनं श्रुत्वा पुरन्दरः कुपितः। सः उक्तवान् मम आगमनतः पूर्वं नगरे कीदृशी व्यवस्था आसीत् इति भवन्तः जानन्ति एव। मम आगमनानन्तरं अपराधिनः सर्वे कारागारे स्थापिताः। नगरस्य कोणे कोणे योग्या रक्षणव्यवस्था कल्पिता। अपराधानां सङ्ख्या अतीव विरला जाता। किन्तु विशालम् एतन्नगरं बहवः आगच्छन्ति गच्छन्ति च। तादृशानां कारणतः कदाचित् अपराधः सम्भवेत् अपि। तदपि विरलतया। भवन्तः तु तिलमात्रम् एव पर्वतीकृत्य वदन्ति इति।

प्रभो! भवतः आगमनानन्तरं नगरे शान्तिः सुव्यस्था च स्थापिता इति तु निर्विवादः। अपराधानां सङ्ख्या अपि न्यूना आसीत्। किन्तु एषु दिनेषु अपराधः गणनीयप्रमाणेन प्रवृद्धः। इदानीं लुण्टाकाः दिने एव जनानां धनादिकम् अपहरन्ति। आपणेस्थितानि अमूल्यानि वस्तूनि अपहरन्ति। रात्रौ सुरापानं यथेच्छम् प्रचलति। नगरे कोऽपि निश्चिन्ततया निद्रां न करोति इति वदन्तः नागरिकाः पुनः अपि पुरन्द्रस्य मनसि विषयगाम्भीर्यं प्रतिबिम्बयितुं प्रयत्नं कृतवन्तः।

एतेन पूर्वापेक्षया अधिकं कुपितः पुरन्दरः उक्तवान् भवतां वचनेषु मम विश्वासः सर्वथा नास्ति। भवन्तः मम विरोधितया किमपि उक्त्वा वातावरणम् कलुषयन्ति वा इति मम संशयः। पुरन्दरस्य वचनेन नागरिकाः निराशाः। पुनरपि वदामः चेत् पुरन्दरः इतोऽपि कुपितः भवति इति चिन्तयित्वा नागरिकाः प्रतिनिवृत्ताः।

पुरन्दरस्य आत्मीयेषु एकः नागराजः पार्श्वे उपविष्टः आसीत्। सः शान्तमनस्कः भूत्वा नागरिकाणां वचनं श्रुतवान् आसीत्। नागरिकाणां गमनानन्तरं सः पुरन्दरम् उक्तवान् नागरिकाणां वचने अपेक्षा न उचिता। शान्तमनस्कतया एतद्विषये विचारः करणीयः। तेषां वचनेषु सत्यम् अस्ति इति भाति। यदि दुष्प्रचारः एव तेषाम् उद्देशः तर्हि ते अस्माकं पुरतः किमर्थम् आगच्छेयुः?

अस्माभिः नगरे सुव्यवस्था स्थापिता सफलता च प्राप्ता इति तु सत्यम्। कालप्रभावतः इदानीम् अधिकारिषु कर्तव्यविषये उदासीनता उत्पन्ना स्यात्। प्रायः लुण्टाकाः एतस्य अवकाशस्य दुरुपयोगं स्वीकुर्वन्तः सन्ति। अतः अस्माभिः जागरूकैः भाव्यम्। परिस्थितेः सम्पूर्णविवेचनं करणियम् इति।

पुरन्दरः तु सफलताप्राप्त्या गर्वितः आसीत्। अतः नागराजस्य वचनौः तस्मिन् किमपि परिवर्तनं न अभवत्। पुरन्दरः नागराजविषये अपि कोपं प्रदर्शयन् उक्तवान् भवन्तः सर्वे मां भ्रान्तं चिन्तयन्ति वा? भ्रान्तः अहं न भवन्तः एव भ्रान्ताः। प्रत्यक्षप्रमाणैः विना अहं कमपि विषयं न अङ्गीकरोमि इति। नागराजः तूष्णीं स्थितवान्।

एकसप्ताहानन्तरं एकदा नगरस्य प्रसिद्धः धनिकः पुरन्दरं भोजनार्थम् आहूतवान्। अर्धरात्रपर्यन्तं भोजनसमारम्भः प्रवृत्तः। भोजनं स्वादुकरं आसीत् इति कृत्वा पुरन्दरः अधिकम् एव भुक्तवान्। अतः सः सहचरान् उक्तवान् पद्भ्याम् एव गृहं गच्छामः। तेन भोजनायासः किञ्चित् इव परिहृतः भविष्यति इति।

पुरन्द्रः नागराजेन सह पद्भ्याम् एव गृहं गन्तुं प्रवृत्तः। रक्षकप्रमुखः तयोः अनुसरणम् कृतवान्। मार्गः निर्जनः आसीत्। ते किञ्चिद्दूरम् यदा गतवन्तः तदा केचन लुण्टाकाः पुरन्दरस्य उपरि आक्रमणं कृतवन्तः। द्वयोः पक्षयोः मध्ये युद्धं प्रवृत्तम्। अनन्तरं लुण्टाकाः पलायितवन्तः। तावति काले पुरन्दरः ज्ञातवान् यत् कण्ठे विद्यमानः अमूल्यः कण्ठहारः इदानीं न दृश्यते इति।

पुरन्दरः नागराजं रक्षकप्रमुखं च चोरान् आनुसर्तुम् उक्तवान्। अनन्तरम् स्वयम् अपि चोरान् अनुसृत्य धावितवान्। पुरन्दरः किञ्चिद्दूरं धावितवान्। तावति काले पार्श्वमार्गतः कश्चित् नागरिकः भयेन कम्पमानः पुरन्दरस्य पुरतः आगतवान्। तस्य कण्ठे एकः रत्नहारः आसीत्। पुरन्दरं दृष्ट्वा सः नागरिकः तत्र एव स्थितवान्। तं कोपेन पश्यन् पुरन्दरः गर्जितवान् प्रथमां तं रत्नहारम् अत्र आनयतु इति। सः नागरिकः रत्नहारं पुरन्दरस्य हस्ते दत्त्वा ततः वेगेन पलायितवान्।

नागराजः एतत् दृष्ट्वा पुरन्दरम् उक्तवान् श्रीमन्! भवान् एव अस्य नगरस्य न्यायरक्षकः। भवता एव अन्यस्य रत्नहारः बलात्कारेण स्वीक्रियते चेत् कः वा न्यायरक्षणं कुर्यात्? एषा वार्ता नगरे प्रसृता भविष्यति चेत् भवतः गौरवस्य का गतिः इति। पुरन्दरः उक्तवान् किमर्थम्? चोरतः मदीयं हारं प्रतिस्वीकरोमि चेत् अत्र कः दोषः? अस्माभिः यस्य अन्वेषणं क्रियते स्म सः एव चोरः दैववशात् प्राप्तः।

नागराजः पुरन्दरं स्मारितवान् अद्य भवान् सभारम्भार्थम् आगमनसमये रत्नहारं न धृतवान् आसीत्। मणयः केचन शिथिलाः इति कृत्वा मम पुरतः एव भवान् रत्नहारं स्वर्णकारस्य हस्ते दत्तवान्। रक्षणप्रमुखः अपि एतत् सत्यम् इति उक्तवान्। यतः सः एव स्वयं गत्वा स्वर्णकारम् आनीतवान् आसीत्। अतः सः रक्षणप्रमुखः अपि पुरन्दरस्य व्यवहारं दृष्ट्वा आश्चर्यं प्रकटितवान्।

पुरन्दरः एतत् स्मृत्वा मनसि एव खेदम् अनुभूतवान्। सः पुरुषः कः? किमर्थं रत्नहारं मौनं दत्त्वा पलायितवान् इति तस्य मनसि जिज्ञासा उत्पन्ना। तदा नागराजः उक्तवान् श्रीमन्! सः पुरुषः नगरे प्रसिद्धः एकः धनिकः। नगरे प्रसृतया चौर्यवार्तया पूर्वम् एव सः भीतः आसीत्। अस्मान् चोरान् मन्यमानः सः भीत्या एव रत्नहारं दत्त्वा पलायितवान्।

चोरविषयकेण भयेन नगरे सर्वेऽपि अन्यं शङ्कादृष्ट्या एव पश्यन्ति। अतः भवान् अपि एकं सज्जनं चोरः इति चिन्तितवान्। चोराणां भयतः भवतः मानसिकी स्थितिः एव एवं भवति चेत् नागरिकाणां परिस्थितिः का स्यात् इति। नागराजस्य वचनानि श्रुत्वा पुरन्दरस्य अज्ञानं दूरं गतम्।

पुरन्दरः अपरस्मिन् दिने प्रयत्नेन तं सज्जनम् आहूय रत्नहारं प्रत्यर्पितवान्। सुव्यवस्थास्थापनार्थं दृढं पदानि स्थापितवान्। अल्पे एव काले नगरे शान्तिः सुव्यवस्था च पुनः स्थापिता। सर्वे नागरिकाः पुनः अपि पुरन्दरस्य गुणगानं कर्तुम् आरब्धवन्तः।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.