Sanskrit Learners Club

Where we Learn from Each Other

Cowardice

Source - Sanskrit Chandamama |

| October |

| 1984

Badariprasad was living in a village of Malava kingdom. He had a peculiar and special characteristics. Whomsoever he touches, they became coward. The matter was informed to Minister by a landlord and minister confirmed it by his own eyes. The minister informed this to the King. The king ordered to kill him because he may make the entire country coward. What the minister did and how he was saved is the story.

भीरुः

बदरीप्रसादः मालवदेशस्य एकस्मिन् ग्रामे निवसति स्म। तस्य बाल्ये एव मातापितरौ दिवङ्गतौ। अतः पितामही एव तं पोषयति स्म। बदरीप्रसादः द्रष्टुं सुदृढः युवकः। किन्तु स्वभावतः सः अतीव भीरुः। स्वकीयां छायाम् दृष्ट्वा अपि सः भीत्या कम्पते स्म। एकदा सायङ्काले कश्चित् सन्यासी तस्य गृहम् आतगवान्। बदरीप्रसादस्य पितामही साधुसन्यासिनां विषये श्रद्धालुः आसीत्। अतः सा भक्त्या सन्यासिनः सेवा कृतवती।

सन्यासी यदा भोजनं कर्तुम् उपविष्टः तदा बदरीप्रसादः समीपे एव उपविश्य सन्यासिनं कुतूहलदृष्ट्या पश्यन् आसीत्। तदा पाकशालातः एकः मूषिकः आगतः। वदरीप्रसादस्य पार्श्वे उपविष्टः मार्जारः एतत् दृष्ट्वा भीत्या म्यांव् म्यांव् इति वदन् बहिः पलायितः।

विना आक्रमणं पलायमानं मार्जारम् एनं दृष्ट्वा सन्यासी आश्चर्यचकितः। पितामही बदरीप्रसादम् उक्तवती मूषकपीडां निवारयितुम् इच्छन् भवान् मार्जारं पालितवान्। किन्तु सः अपि भवान् इव भीरुः सञ्जातः। इदानीं सः मूषकं दृष्ट्वा पलायनं करोति! भवतः हस्तस्पर्शेन सर्वेऽपि जन्तवः भीरवः भविष्यन्ति इति।

एतत् श्रुत्वा सन्यासिनः कुतूहलः उत्पन्नः। भोजनानन्तरं सः सन्यासी बदरीप्रसादस्य हस्ते विद्यमानाः रेखाः आसक्त्या दृष्टवान्। मनसि एव सङ्कलनव्यवकलनादिकं कृतवान्। अनन्तरं पितामहीम् एकान्ते आहूय उक्तवान् भवत्याः पौत्रस्य हस्तरेखा विचित्रा अस्ति। एषः भीरुः इति उक्त्वा पदे पदे न निन्दतु इति।

स्वामिन्! अहं किं वा करोमि? एतस्य व्यवहारं दृष्ट्वा अनिच्छन्त्याः अपि मम कोपः आगच्छति। भवतः अनुग्रहेण यदि अस्य भीरुता निवारिता स्यात् तर्हि अहम् आजीवनं कृतज्ञा भविष्यामि इति खेदेन उक्तवती पितामही। सन्यासी तां सान्त्वयन् उक्तवान् एतस्य भीरुता औषधेन न दूरं गच्छति। अस्य हस्ते विचित्राः रेखाः सन्ति इति मया उक्तं किल? भिरुताकारणात् एव किमपि कल्याणकारि कार्यं प्रचलिष्यति।

एतस्स्याः घटनायाः अनन्तरं बदरीप्रसादः कदाचित् ग्रामस्य भूस्वामिनः भवनस्य पुरतः गच्छन् आसीत्। तत्र भूस्वामिना पालितः शुनकः तेन दृष्टः। शुनकः अतीव सुन्दरः आसीत्। बदरीप्रसादः तम् उन्नीय प्रीत्या आलिङ्गितवान्। भूस्वामी एतत् दृष्टवान्। कुपितः सः बदरीप्रसादं तर्जयित्वा प्रेषितवान्।

दौर्भाग्येण तद्दिने रात्रौ केचन चोराः भूस्वामिनः गृहं प्रविष्टवन्तः। किन्तु आश्चर्यस्य विषयः यत् शुनकः चोरान् दृष्ट्वा पलायिताः। शुनकस्य विचित्रम् एतं व्यवहारं दृष्ट्वा भूस्वामी चकितः। बदरीप्रसादः एव अत्र कारणम् इति भूस्वामी निश्चितवान्। तद्दिने एव न्यायालयं गत्वा बदरीप्रसादस्य उपरि अपराधम् आरोपितवान्।

न्यायाधीशः भूस्वामिनः सर्वाणि वचनानि श्रुतवान्। अहं यत् वदामि तत् सत्यम् एव वदामि इति वदतु इति वदन् बदरीप्रसादस्य हस्ते भगवद्गीतां दत्तवान्। सत्यप्रतिज्ञां स्वीकृत्य बदरीप्रसादः यदा गीतापुस्तकं प्रत्यर्पयितुं प्रवृत्तः तदा अकस्मात् न्यायाधीशस्य हस्तः तेन स्पृष्टः। एतेन न्यायाधीशस्य स्वभावे एव परिवर्तनं जातम्। तस्य मनसि अपि भीरुता प्रविष्टा।

इतः पूर्वम् एषः न्यायाधीशः निर्भीकः इति प्रसिद्धः आसीत्। अपराधिनः दण्डने सः अतीव निष्ठुरः। एतादृशः न्यायाधीशः बदरीप्रसादस्य हस्तस्पर्शमहिम्ना भीत्या उक्तवान् यदि अहं निर्णयं वदामि तर्हि पक्षीयः विपक्षीयः वा यः कोऽपि कुपितः भवत्येव। अतः अहं निर्णयम् अनुक्त्वा एव अद्यतनं व्यवहारं समापयामि इति।

एवम् उक्त्वा सः उत्थाय गतवान् एव। भूस्वामी एतत् दृष्ट्वा आश्चर्यचकितः। बदरीप्रसादः कीदृशः अद्भुतः पुरुषः स्यात् इति सः मनसि एव चिन्तितवान्। तस्य राज्यस्य मन्त्री सुगुणवर्मा भूस्वामिनः परिचितः आसीत्। अतः भूस्वामी मन्त्रिणे बदरीप्रसादस्य समग्रं वृत्तान्तं निवेदितवान्। बदरीप्रसादस्य हस्तस्पर्शस्य प्रभावः मार्जारस्य शुनकस्य न्यायाधीशस्य उपरि समानः आसीत्। अतः तस्य हस्तस्पर्शे एव विशेषप्रभावः अस्ति इति मन्त्री निश्चितवान्। अतः भूस्वामिनम् उक्तवान् अद्य एव बदरीप्रसादं राजधानीं प्रेषयतु इति।

यदा बदरीप्रसादः मन्त्रिणं द्रष्टुम् आगतवान् तदा मन्त्री प्रसिद्धमल्लेन एकेन सह वार्तालापं कुर्वन् आसीत्। मन्त्री मल्लाय बदरीप्रसादस्य परिचयं कारितवान्। बदरीप्रसादः मल्लं सविनयं नमस्कृत्य हस्तान्दोलनं कृतवान्। किम् आश्चर्यम्! सुप्रसिद्धः मल्लः यश्च मल्लाग्रेसरान् अपि सलीलं जितवान् आसीत् मुखम् अवनमय्य ततः पलायितवान्। मन्त्री सैनिकान् सम्प्रेष्य तं मल्लं पुनः स्वसमीपम् आनायितवान्। तथा पलायने किं कारणम् इति पृष्टवान्।

लज्जितः मल्लः कम्पमानेन स्वरेण उक्तवान् किं कारणम् इति न जानामि मम मनसि इदानीं महती भीतिः उत्पन्ना। कश्चित् मां पराजयेत् इति आशङ्का मां प्रबलं बाधते इति। एतेन प्रयोगेण मन्त्रिणः निष्कर्षः दृढः जातः यत् बदरीप्रसादस्य हस्तस्पर्शे कश्चन विशेषप्रभावः अस्ति। एतत्कारणतः यः कोऽपि जन्तुः भीरुः भविष्यति इति।

बदरीप्रसादसम्बन्धिनीम् एताम् आश्चर्यजनकवार्तां मन्त्री महाराजाय निवेदितवान्। राजा एतत् श्रुत्वा कुपितः। सः क्रोधतप्तः एव आदेशं दत्तवान् एषः निश्चयेन शापग्रस्तः अस्ति। शापग्रस्तेन स्वहस्तस्पर्शेन एषः समग्रं राज्यम् एव भीरुपूर्णं कुर्यात्। अतः प्रथमम् एषः शूले आरोपणीयः इति। बदरीप्रसादस्य मरणदन्डनं श्रुत्वा तस्य पितामही अत्यन्तं रुदितवती। सा मन्त्रिणः पादयोः पतित्वा पौत्रस्य प्राणभिक्षां प्रार्थितवती।

मन्त्री सुगुणवर्मा ताम् उक्तवान् आर्ये भवती निश्चिन्ता भवतु। तस्य शूलारोपणं निवारयितुं कमपि उपायं चिन्तयामः इति। अनन्तरं सः राजानं निवेदितवान् महाराज! त्वरया कोऽपि निर्णयः न स्वीकरणीयः। एकमासानन्तरम् एतः शूलम् आरोपयामः। तावत्पर्यन्तं यथा अस्य दुष्टप्रभावः अन्येषाम् उपरि न भवेत् तथा वन्धने स्थापयामः इति। राजा मन्त्रिणः सूचनाम् अङ्गीकृतवान्। मन्त्री बदरीप्रसादस्य कृते सुसज्जिते एकस्मिन् भवने वसतिव्यवस्थाम् उपकल्पितान्।

दशपञ्चदशदिनानाम् अनन्तराम् एका वार्ता महाराजेन प्राप्ता। कलिङ्गराजः महत्या सेनया सह आक्रमणार्थम् आगतः अस्ति। सः मालवराज्यस्य सीमाप्रान्तं प्राप्तवान् च इति। मालवम् एकं लघु राज्यम्। कलिङ्गराज्येन सह युद्धं कर्तुं तस्य शक्तिः नास्ति। अतः राजा मन्त्रिणम् आहूय समस्याम् उपस्थापितवान्। मन्त्री महाराजाय धैर्यवचनानि उक्तवान् राजन्! भीतिः मास्तु। कलिङ्गराजः कथं निवारणीयः इति मया चिन्तितम्। अल्पे एव काले सन्तोषजनिकां वार्तां भवान् शृणोति। तावत्पर्यन्तं धैर्येण तिष्ठतु इति।

अनन्तरं मन्त्री कलिङ्गराजाय लिखितम् एकं पत्रं बदरीप्रसादस्य हस्ते दत्वा उक्तवान् भवान् इतः साक्षात् कलिङ्गराजस्य शिबिरं गत्वा तत्र राज्ञः हस्ते एव एतत् पत्रं ददातु इति। बदरीप्रसादेन सह केचन सैनिकाः अपि प्रेषिताः। बदरीप्रसादः कलिङ्गराजस्य शिबिरं गत्वा राज्ञः हस्ते पत्रं दत्तवान्। कलिङ्गराजः चिन्तितवान् अस्मिन् पत्रे सान्धिप्रस्तावः कृतः स्यात्। यतः मालयं नाम लुघुराज्यम्। मम आक्रमणं सम्मुखीकर्तुं तत् न शक्नोति एव इति। किन्तु पत्रे एतद्विपरीततया निन्दावाक्यानि लिखितानि आसन्। पत्रं पठित्वा कलिङ्गराजः कोपेन ज्वलितः। क्रोधेन सः उक्तवान् गर्वितस्य एतस्य शिरच्छेदं कुर्वन्तु।

एताम् आज्ञां श्रुत्वा बदरीप्रसादः भयेन कम्पितः। अञ्जलिं बद्धा सः दीनस्वरेण राजानं प्रार्थितवान् महाप्रभो! अस्मिन् पत्रे किम् आसीत् इति अहं न जानामि एव। मन्त्रिणः आदेशानुसारम् अहं पत्रम् आनीय दत्तवान् तावदेव इति। एवम् उक्त्वा सः कलिङ्गराजस्य पादयोः पतितवान्। अहो! आश्चर्यकरं परिवर्तनम्! पञनिमेषभ्यः पूर्वं यः सिंहः इव गर्जनं करोति स्म सः इदानीं मार्जारः इव बिभेति! कलिङ्गराजः बदरीप्रसादम् उक्तवान् अहम् अविचार्य मालवदेशस्य उपरि आक्रमणम् कृतवान्। भवतः राजानं सूचयतु यत् अहम् इदानीम् एव सेनां स्वीकृत्य प्रतिगच्छामि इति। एवमेव यत् प्रवृत्तं तद्विषये क्षमां प्रार्थये इति।

तद्दिने एव कलिङ्गराजः स्वसेनाशिबिरं निष्कास्य स्वराज्यं प्रतिगतवान्। बदरीप्रसादः अजानन् एव राज्यस्य उपरि आपतितां विपत्तिं दूरीकृतवान् आसीत्। एतेन सह तस्य भीरुता तथा भीरुताजनकशक्तिः उभयम् अपि दूरं गतम्। मन्त्री एतम् स्वसेनायां नियोजितवान्।

मालवराजः मन्त्रिणं सुगुणवर्माणं बहुधा प्रशंसितवान्। राजोचितेन सम्मानेन तं पुरस्कृतवान् च।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.