धनगुप्तः नाम एकः वणिक्। सः कदाचित् अन्यनगरेभ्यः वस्तूनाम् आनयने सहायकं कञ्चित् स्वीकर्तुम् इष्टवान्। एतां वार्तां सः स्वमित्रस्य समीपे उक्तवान्। सः स्नेहितः गिरिनाथः अमरनाथः इति नामकं जनद्वयं धनगुप्तस्य समीपं प्रेषितवान्।
उभौ अपि आगत्य आगमनकारणं निवेदितवन्तौ। धनगुप्तः तौ तत्र एव स्थातुम् उक्त्वा अन्तः गतवान्। एकघण्टानन्तरं त्वरया बहिः आगत्य उक्तवान् क्षम्यताम् त्वरितकार्यनिमित्तं मया अद्य वीरेन्द्रपुरं गन्तव्यम्। आगमनसमये रात्रिः भवेत्। अतः भवन्तौ श्वः पुनः पश्यामि। भवतोः अन्यतरं कर्मकरत्वेन स्वीकरिष्यामि च इति।
एवम् कथनसमये धनगुप्तः स्ववस्त्रेषु धनस्यूतम् एकं सुदृढं स्थापयितुं प्रयत्नं कुर्वन् आसीत्। एतत् दृष्ट्वा गिरिनाथः उक्तवान् महाशय! वीरेन्द्रपुरे चोराणां भीतिः अधिका। निमेषमात्रेण ते चोराः धनं चोरयितुं समर्थाः। एतावति काले अहं चतुर्वारम् तैः चोरैः वञ्चितः। अतः एव वदामि बहु जागरूकता आवश्यकी इति।
तदा धनगुप्तः पृष्टवान् एवं वा? तत्र वसतिव्यवस्था वसतिगृहेषु अन्नपानादीनां व्यवस्था च कथम् अस्ति? भवान् बहुवारं तत्र गतवान् किल इति। तत्र वसतिगृहेषु अन्नपानादीनां व्यवस्था सर्वथा अप्रयोजिका। अहं यदा यदा गतवान् तदा सर्वदा ज्वरपीडाम् अनुभूतवान् इति उक्तवान् गिरिनाथः।
एतदनन्तरं धनगुप्तः अमरनाथं पृष्टवान् भवता अपि बहुवारं वीरेन्द्रपुरं गतं स्यात् एव किल? भवतः अनुभवः कः इति। तदा अमरनाथः उक्तवान् गिरिनाथस्य वचनं तु सत्यम् एव। ममापि धनं एकवारं चोरैः चोरितम्। ततः परम् अहं जागरूकताम् आश्रितवान्। अतः पुनः कदापि चौर्यं न जातम्। आहारविषये अपि तथैव। एकवारम् अहम् अस्वस्थः आसम्। अनन्तरकाले सर्वदा अहं मया सह औषधं नीतवान्। अतः पुनः अस्वास्थस्य प्रसङ्गः एव न आगतः। भवान् अपि भवता सह औषधं नयतु इति। सः औषधानां नामानि अपि सूचितवान्।
धनगुप्तः प्रसन्नतां प्रकटयन् अमरनाथम् उक्तवान् भवान् श्वः आरभ्य कार्यार्थम् आगच्छतु। तदा गिरिनाथः कोपेन पृष्टवान् महोदय! भवतः निर्णयः न्यायसङ्गतः न। पूर्वं तु श्वः आगन्तुम् उक्तवान् आसीत्। इदानीं तु झटिति निर्णयम् उक्तवान्। एतेन सिध्यति यत् भवान् मम बुद्धिमत्ताविषये सन्देहं प्रकटयन् अस्ति इति।
एतत् श्रुत्वा धनगुप्तः मन्दं हसन् उक्तवान् अहम् इदानीम् एव निर्णयं किमर्थम् उक्तवान् इति भवान् न जानाति। अतः एवं पृच्छति। भवान् चतुर्वारं वीरेन्द्रपुरं गतवान्। तदा सर्वदा चौर्येण भवतः धनं नष्टम्। सर्वदा भवान् अस्वस्थः जातः अपि। एतेन एव स्पष्टां ज्ञायते यत् भवान् धनविषये आजागरूकः। स्वास्थ्यविषये अश्रद्धः इति। प्रथमानुभवेन एव भवान् जागरूकताम् आश्रयितुं शक्नोति स्म औषधव्यवस्थां कर्तुमपि शक्नोति स्म। उभयम् अपि न कृतवान्। एतेन एव भवतः योग्यता मया ज्ञाता। प्रवासे यः सहायकाः भवेत् तादृशः एव मम अपेक्षितः इति।
एतेन गिरिनाथः ज्ञातवान् यत् अमरनाथः एव अधिकं बुद्धिमान् दूरदर्शी च इति। अतः सः धनगुप्तं प्रणम्य मौनं ततः निर्गतः।