Sanskrit Learners Club

Where we Learn from Each Other

Wonder Medicine

Source - Sanskrit Chandamama |

| November |

| 1984

In a kingdom, both the King and the Queen were equally fools. They got a girl baby. Looking at the small baby without hair and teeth they felt that it is bad omen. But the minister expressed it is natural and as the days pass by she will get hair and teeth. But the king wanted to rectify the issue immediately and ordered the doctors to find a medicine. What the oldest doctor did and how he rescued other doctors from punishment is the story.

दिव्यौषधम्

कस्मिंश्चित् राज्ये एकः राजा आसीत्। सः महामूर्खः। तस्य मूर्खत्वम् समग्रे राज्ये प्रसिद्धम् आसीत्। महाराजस्य पत्नी पत्युः अनुगुणा। तन्नाम सा अपि मूर्खा। एवं तयोः अनुरूपं दाम्पत्यम्! राज्ञी प्रथमप्रसूत्या एकं स्त्रीशिशुं प्राप्तवती। जन्मसमये शिशोः शिरसि केशाः न आसन् मुखे दन्ताः न आसन्। एतत् दृष्ट्वा जुगुप्सां प्रकटयन्ती राज्ञी उक्तवती हन्त! कीदृशः शिशुः एषः! न केशाः न दन्ताः इति।

तदा राजा उक्तवान् कीदृशः अमङ्गलसूचकः शिशुः एषः! यदि सर्वे जनाः एतादृशशिशोः वार्तां जानन्ति तर्हि अस्माकं मानस्य का गतिः इति। तदा मन्त्री महाराजं राज्ञीं च समश्वासन् उक्तवान् भवतोः चिन्ता मास्तु। जन्मसमये सर्वे शिशवः एवम् एव भवन्ति। एषः च प्रकृतिनियमः। यथा यथा वयः वर्धते तथा तथा केशाः वर्धन्ते दन्ताः उद्भविष्यन्ति च इति।

शृणोतु मन्त्रिन्! अस्माकं मनः समाधानार्थं किमपि न जल्पतु। शीघ्रम् एव विद्यमानाः सर्वे वैद्याः यथा अत्र आगच्छेयुः तथा व्यवस्थां करोतु इति राजा आदिष्टवान्। देशस्य प्रसिद्धवैद्याः सर्वे राजभवने सम्मिलिताः। तान् उद्दिश्य राजा उक्तवान् मम एका बालिका अस्ति। सा आकारेण आतीव अल्पा। तस्याः शिरसि केशाः एव न सन्ति। एतत्सर्वं निवारयितुं भवन्तः सर्वे किमपि दिव्यम् औषधं चिन्तयन्तु। सद्यः एव तस्याः मुखे दन्ताः शिरसि केशाः च यथा उद्भवेयुः सा च यथा दीर्घा स्यात् तथा करणं भवतां दायित्वम् इति।

महाराज! एतत् तु सर्वथा असाध्यम् इति सर्वे वैद्याः एककण्ठेन उक्तवन्तः। रे शृण्वन्तु! अहम् अस्य देशस्य चक्रवर्ती आज्ञां कुर्वन् अस्मि। राजाज्ञा कदापि निष्फला न भवेत्। यदि भवन्तः औषधं कर्तुं न शक्ताः तर्हि देशतः भवतां सर्वेषाम् उच्चाटनं करिष्यामि। तत्पूर्वम् एकैकस्य अपि शतं वेत्रप्रहारान् आदिशामि। पञ्चषनिमेशेषु भवताम् अभिप्रायं सूचयन्तु इति उक्त्वा राजा ततः गतवान्।

पञ्चषनिमेशेषु प्रत्यागत्य राजा चिन्तामग्नान् सदैन्यम् उपविष्टान् वैद्यान् पृष्टवान् किं निर्णीतम्? पुत्र्याः योग्यव्यवस्थां कुर्वन्ति वा उत वेत्रप्रहारम् अङ्गीकुर्वन्ति वा इति। वैद्याः सर्वे मौनम् उपविष्टवन्तः। तदा कश्चित् वृद्धः वैद्यः उत्थाय उक्तवान् महाराज! भवान् त्वरां न प्रदर्शयतु! वयं भवतः आदेशं पालायितुं सिद्धाः स्म। वयम् एकम् सिद्धौषधं जानीमः। तस्य सेवनेन राजकुमारी शीघ्रमेव वर्धिष्यते। तस्याः मुखे दन्ताः शिरसि केशाः च उत्पत्यन्ते।

बहु समीचीनम्। तादृशं सिद्धौषधं कुत्र अस्ति इति पृष्टवान् राजा। वृद्धः वैद्यः उक्तवान् इदानीं तत् सिद्धम् न लभ्यते। तस्य सज्जीकरणार्थं कालावकाशः अपेक्षितः। कालावकाशः किमर्थम्? अहम् अस्मि राजा राजाधिराजः! चक्रवर्ती! सम्राट्! इदानीम् एव तत् औषधम् मम अपेक्षितम्। अल्पे काले तत् औषधम् सज्जीकर्तुं न शक्यते वा इति राजा पृष्टवान्।

वैद्यः सावधानेन उक्तवान् भवतः वचनं युक्तम् एव। किन्तु एतस्य औषधस्य निर्माणार्थं सार्धचतुःशतं मूलिकाः अपेक्षिताः। तथैव त्रिशताधिकाः धातवाः अपि तत्र योजनीयाः। राजा सगर्वम् उक्तवान् अस्तु नाम सर्वाणि वस्तूनि इदानीम् एव आनयन्तु। अद्य एव औषधं सज्जीकुर्वन्तु। महाराज! एतत् कार्यं त्वरया न सिध्यति। औषधार्थम् उपयुज्यमानेषु एकं सस्यं चतुर्षु वर्षेषु एकवारं पुष्पितं भविष्यति। एतत् चतुर्थवारं यदा पुष्पितं भविष्यति तदा एव तस्य मूलम् सङ्ग्रहणीयम्। एवम् एव एकः धातुः केवलं हिमपर्वततः सङ्ग्रहणीयाः। किन्तु आश्चर्यस्य विषयः यत् तस्मिन् पर्वते कदाचित् एव हिमवृष्टिः भविष्यति। ततः एषः धातुः खात्वा आनेतव्यः इति उक्तवान् वैद्यः।

एवम् अपि अस्तु नाम। एकसप्ताहस्य अवधौ औषधं सज्जीकर्तुं शक्यते किल इति राजा पृष्टवान्। सप्ताहाभ्यन्तरे किं वर्षाभ्यन्तरे अपि न शक्यते एव। अतः भवान् एवं करोतु द्वादशवर्षाणि यावत् पालनपोषणार्थं राजकुमारीम् अस्माकं वशे अर्पयतु। अस्मिन् अवधौ वयं राजकुमार्याः कृते योग्यां व्यवस्थाम् औषधोपचारं च करिष्यामः इति वृद्धः वैद्यः उक्तवान्।

महाराजः राज्ञीं पृष्टवान् देवि! भवती किम् अभिप्रैति? द्वादशवर्षाणि यावत् पालनपोषणार्थम् पुत्रीम् एतेषां हस्ते दद्मः वा? उत सर्वान् वेत्रप्रहारं दण्डयामः वा इति। राज्ञी किञ्चित् विचार्य उक्तावती द्वादशवर्षाणां कालावकाशं दत्त्वा एतेषां सामर्थ्यस्य कौशलस्य च परीक्षां करिष्यामः। तावति काले अपि पुत्र्याः परिवर्तनम् आनेतुम् एते न शक्ताः चेत् सर्वेषां शिरश्छेदं कारयिष्यामः इति।

राजा राज्ञ्याः वचनम् अङ्गीकृतवान्। वैद्यः आत्मना सह राजकुमारीं नीतवान्। द्वादशावर्षात्मके अवधौ राजकुमारीं न केवलं पोषितवान् योग्यं शिक्षणं दत्त्वा ताम् समर्थाम् अपि कृतवान्। वैद्यगृहे पालिता राजकुमारी अवधिसमाप्त्यनन्तरं स्वमातापित्रोः समीपम् आगतवती। इदानीं तस्याः शिरसि कृष्णाः सान्द्राः च केशाः मुखे विमलाः दन्ताः च विराजन्ते स्म। एतत् दृष्ट्वा सन्तुष्टौ राजा राज्ञी च अपरिमितपुरस्कारेण वैद्यं सम्मानितवन्तौ।

मातापित्रोः मरणानन्तरं राजकुमारी एव महाराज्ञी जाता। कुशलतापूर्वकं राज्यशासनं कुर्वती सा लोकप्रियताम् प्राप्तवती।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.