Sanskrit Learners Club

Where we Learn from Each Other

Ghost and Goddess

Source - Sanskrit Chandamama |

| November |

| 1984

On the outskirts of a village a temple was there. Near by that on the tree a ghost was living. Both ghost and Goddess were talking to each other. Goddess was happy about the devotion of her disciples. But, ghost said people are cheaters and both wanted to prove their sides. What happened next is the story.

पिशाचः देवता च

पूर्वकाले वरदेश्वरग्रामस्य प्रवेशस्थाने ग्रामदेवतायाः एकः आलयः आसीत्। तस्य देवालयस्य उपायनरूपेण प्राप्ता महती सम्पत्तिः आसीत्। देवतायाः बहुमूल्यानि आभरणानि अपि बहूनि आसन्। प्रतिदिनं बहवः भक्ताः देवालयं आगच्छन्ति स्म। अतः देवालयः सर्वदा जनसमूहेन कोलाहलभरितः भवति स्म।

एकस्मिन् दिने सन्ध्यासमयः आसीत्। तदा ग्रामदेवता आलयतः बहिः आगत्य तत्र एकस्मिन् कोणे स्थितस्य निम्बवृक्षस्य उपरि उपविष्टवती। निम्बवृक्षतः किञ्चिद्दूरे एकं शिथिलं दुर्गम् आसीत्। दुर्गस्य पार्श्वे स्थिते तिन्त्रिणिवृक्षे एकः पिशाचः वसति स्म। सः पिशाचः ग्रामास्थजनानां कदापि किमपि अहितं न करोति स्म। अतः ग्रामदेवतायाः मनसि पिशाचस्य विषये आदरभावः एव आसीत्। तेन कारणेन ग्रामदेवता पिशाचेन सः तदा तदा वार्तालापं करोति स्म।

अद्य अपि ग्रामदेवता तिन्त्रिणीवृक्षस्य पिशाचेन सह वार्तालापम् आरब्धवती। ग्रामस्थाः भक्ताः अतिवैभवेन मां पूजयन्ति भक्त्या प्रभूतं उपायनादिकम् यच्छन्ति इति महता अभिमानेन सन्तोषेण च पिशाचस्य पुरतः वर्णितवती। तत्सर्वां श्रुत्वा पिशाचः स्मयमानः अम्ब भवती अतीव मुग्धगुणान्विता। मानवाः महावञ्चाकाः इति भवती न जानाति। ते न केवलं परस्परं वञ्चयन्ति अपि तु देवतानां पुरतः अपि भक्तिनटनं कृत्वा ताः अपि वञ्चयन्ति। भवत्याः नामग्रहणद्वारा भवत्याः एव सम्पत्तेः अपहर्तारः अनेके महाजनाः अस्मिन् ग्रामे सन्ति। तान् अहं जानामि इति उक्तवान्।

तानि वचनानि श्रुत्वा ग्रामदेवता क्रुद्धा अभवत्। सा पिशाचं दृष्ट्वा मानवानां विषये भवतः महान् द्वेषः अस्ति इति प्रतिभाति। अत एव एवं वदति। मम भक्ताः मम आज्ञायाः उल्लङ्घनं कदापि न कुर्वन्ति इति सोदाहरणं निरूपयिष्यामि इति उक्तवती। तस्मिन् समये एकः ग्रामस्थः अञ्जलिबद्धः भूत्वा देवालयस्य प्रदक्षिणं करोति स्म। सः एकः महामान्त्रिकः भूतवैद्यः च आसीत्।

तं दर्शयित्वा पिशाचं प्रति एषः बहुकालादारभ्य मां भक्त्या पूजयति। वराकः एषः अतिदरिद्रः। अद्य रात्रौ अस्य उपरि अनुग्रहं कर्तुम् इच्छामि इति उक्तवती। अस्तु तथा एव करोतु। एषः कीदृशः भक्तः इति परीक्षां कर्तुं मम अपि अवकाशं ददातु। अहम् अपि यथाशक्ति एतस्य साहाय्यं करोमि इति पिशाचः अवदत्। तस्यां रात्रौ ग्रमदेवता भूतवैद्यस्य स्स्वप्ने प्रत्यक्षा भूत्वा भो भक्तवर! अहं भवतः अनुग्रहार्थम् आगता अस्मि। श्वः प्रातः भवान् मम देवालयस्य धर्मकर्तारं पश्यतु इति उक्त्वा अदृश्या जाता। तस्मिन्नेव समये सा धर्मकर्तुः स्वप्ने अपि दर्शनं दत्त्वा भूतवैद्यं देवालयस्य आयव्ययनिर्वहणकार्ये नियोजयतु इति आज्ञापितवती।

प्रातः भूतवैद्यः देवालयस्य धर्मकर्तुः दर्शनार्थं गतवान्। धर्मकर्ता तु किमपि अजानन् इव नटनं कुर्वन् स्वप्नविचारां श्रुत्वा आश्चर्यं प्रकटयन् अरे! ग्रामदेवता एवंरीत्या उक्तवती वा? हन्त! सा माता किञ्चित् पूर्वमेव मम समीपे न उक्तवती। आयव्ययनिर्वहणरूपं तम् उद्योगम् इदमिदानीम् एव कस्मैचित् ददामि इति मया प्रतिज्ञातं किल इति उक्तवान्।

भूतवैद्यः निराशया दुःखितः स्वकीयं दौर्भाग्यं निन्दन् ततः निर्गतवान्। तस्मिन् एव सायंकाले धर्मकर्ता देवालयं गत्वा देवतायाः पुरतः साष्टाङ्गनमस्कारं कृत्वा मातः रात्रौ स्वप्नकाले भवत्याः समीपे वक्तुं यावत् मया मुखम् उद्घाटितं तावत् भवती तिरोभूता। अहं तु ह्यः एव कस्मौचित् वचनं दत्तवान् अस्मि। भवत्याः भक्ताः कदापि वचनभ्रष्टाः न भवन्ति किल? इदानीं मया किं करणीयम् भवती एव वदतु इति अश्रूणि विमुञ्चन् उक्त्वा निर्गतवान्।

तस्य अश्रूणि निर्मलानि इति भावयन्ती ग्रामदेवता अतीव आर्द्रचित्ता जाता। मया पूर्वमेव वक्तव्यम् आसीत् इति सा चिन्तितवती। धर्मकर्ता तु तस्याः पुरतः कपटनाटकम् अभिनीतवान् इति विषयं सा न ज्ञातवती। देवालयस्य सम्पत्तिम् अपहर्तुम् अवकाशः नष्टः भवति इति कारणात् सः एवं कृतवान्। एतत्सर्वं तिन्त्रिणीवृक्षस्य पिशाचः लक्षयन् एव आसीत्। तस्यां रात्रौ स पिशाचः भूतवैद्यस्य स्वप्ने गत्वा भोः तात यद्यपि भवान् न मम भक्तः तथापि भवतः किञ्चित् साहाय्यं कर्तुम् इच्छामि। अद्य अहं ग्राममुख्यस्य पुत्रीं प्रविशामि। न कोऽपि अन्यः मान्त्रिकः तस्याः शरीरतः मां निष्कासयितुं शक्नोति। यदा भवान् आगच्छति तदा तत्क्षणम् एव अहं तां त्यक्त्वा निर्गच्छामि। तेन भवतः जनप्रियता तथा धनम् अपि लभ्यते। भवतः सन्तोषेण ममापि सन्तोषः भवति इति उक्तवान्।

भुतवैद्यः सन्तोषेण अङ्गीकृतवान्। परेद्युः ग्राममुख्यस्य पुत्री भूतग्रस्ता जाता इति ग्रामजनाः परस्परं वदन्ति स्म। भूतवैद्यः दिनद्वयानन्तरं तत्र गन्तव्यम् इति मनसि निश्चितवान्। पिशाचः भूतवैद्यस्य साहाय्यं करोति इति ग्रामदेवता ज्ञातवती। तदा सा पुनः भूतवैद्यस्य स्वप्नं प्रविष्टवती। तां दृष्ट्वा भूतवैद्यः अम्ब धर्मकर्तुः द्वारा दरिद्रस्य मम अवमानं कारितवती। भवत्याः इदं कार्यं युक्तं वा इति पृष्टवान्। ग्रामदेवता वैद्यं प्रति एकवारं किञ्चित् प्रमादः सञ्जातः। किन्तु अस्मिन् अवकाशे निश्चयेन भवतः कल्याणं करोमि। सः तिलकधारी गोविन्दगुप्तः मम भक्तः। श्वः सः अवश्यं प्रभूतं धनं दास्यति। किन्तु एकं विषयं सम्यक् स्मरतु। यदि भवान् मम यथार्थभक्तः अस्ति तर्हि भवता अन्यदेवतायाः साहाय्यं न याचनीयम् इति उक्तवती।

अनन्तरं ग्रामदेवता गोविन्दगुप्तस्य स्वप्ने दर्शनं दत्वा तेन कर्तव्यं कार्यं सूचितवती। गोविन्दगुप्तः भक्त्या नमस्कृत्य यथा भवती आज्ञापयति तथैव करोमि इति उक्तवान्। परेद्युः भूतवैद्यः यदा आगतवान् तदा तं दृष्ट्वा क्रोधेन आगतवान् वा? अत्र एकैकस्यापि नाणकस्य कृते मया कीदृशः परिश्रमः अनुभूतः इति ग्रामदेवता कथं जानाति? एतादृशः दानधर्मादिसम्प्रदायः अस्माकं कुले एव कदापि नास्ति। सा देवता सलीलम् आज्ञापितवती भवान् सुखेन आगतवान्। देवतायाः आशा न उल्लङ्घनीया इति कृत्वा इदम् एकं नाणकं ददामि। सन्तोषेण गृहीत्वा गच्छतु इति गोविन्दगुप्तः उक्त्वा भूतवैद्यस्य हस्ते एकं नाणकं दत्तवान्।

भूतवैद्यः रोषेण तत् नाणाकं तत्रैव क्षिप्त्वा ततः निर्गतवान्। अनन्तरं गोविन्दगुप्तः समीचीनतया स्नानादिकं समाप्य ललाटे तिलकधारणमपि कृत्वा देवालयं गतवान्। तत्र देवतायाः पुरतः साष्टाङ्गनमास्कारं कृत्वा अम्ब किं वा वदामि? मम जीवितं तृणादपि हीनतरं जातम्। मम पत्नी महती साध्वी इति विश्वासेन मम सम्पूर्णां सम्पत्तिं तस्याः हस्ते अहम् अर्पितवान्। ह्यः रात्रौ भवत्याः आज्ञां श्रुत्वा सा चण्डी इव माम् एव गृहतः निष्कासयामि इति कोलाहलं कृतवती। क्षाम्यतु अम्ब भवत्याः आज्ञां निर्वोढुम् अपि अहम् असमर्थः अस्मि इति उक्त्वा गृहं प्रत्यागतवान्।

ग्रामदेवता तस्य विषये करुणया एतस्य तु मम विषये भक्तिः अस्ति एव। गृहे पत्नी एव विरोधं करोति चेत् किं वा कर्तुं शक्यते इति चिन्तितवती। भूतवैद्यः दिनचतुष्टयानन्तरं ग्राममुख्यस्य गृहं गत्वा तस्य पुत्र्याः शरीरस्थं पिशाचं निष्कासयामि इति उक्तवान्। तावत्पर्यन्तं अनेकैः मान्त्रिकैः यत् आसाध्यम् आसीत् तत् भूतवैद्यः लीलया साधितवान्। तेन सन्तुष्टः ग्राममुख्यः प्रभूतं बहुमानं दत्त्वा भूतवैद्यं प्रेषितवान्। महासमर्थः भूतवैद्यः इति कीर्तिः अपि तेन सम्प्राप्ता।

पुनः पिशाचः भूतवैद्यस्य स्वप्ने पूर्वसूचनां दत्त्वा अन्यस्य ग्रामस्य भूस्वामिपुत्रीं प्रविष्टवान्। भूतवैद्यस्य स्वविषये यादृशी भक्तिः अस्ति तदपेक्षया पिशाचस्य विषये अधिकतरा भक्तिः अस्ति इति ज्ञात्वा असन्तुष्टा ग्रामदेवता पुनः रात्रौ भूतवैद्यस्य स्वप्ने दर्शनं दत्तवती। भूतवैद्यः स्वप्ने एव तां नमस्कृत्य अम्ब भवत्यै भवत्याः उपकाराय च अपि नमो नमः। यथाकथञ्चित् पिशाचस्य अनुग्रहेण समीचीनतया एव जीवन् अस्मि। कृपया भवत्याः प्रवेशः अत्र मास्तु इति उक्तवान्।

अवहेलनयुक्तं तस्य वचनं श्रुत्वा अपि ग्रामदेवता यथाकथञ्चित् शान्तिम् अवलम्ब्य पश्यतु भोः एषः एव अन्तिमः अवकाशः। एषु दिनेषु सः शिवरामदासः रामनाम् लिखन् अस्ति किल तस्य समीपं गच्छतु। सः महान् धनिकः। तस्य सम्पत्तेः कोऽपि उत्तराधिकारी अपि नास्ति। तस्य समीपं गत्वा अहं सूचयामि। किन्तु एतः परं पिशाचस्य सम्बन्धं त्यजामि इति वचनं ददातु इति पृष्टवती।

भूतवैद्यः अनिच्छन् अपि वचनं दत्त्वा परेद्युः शिवरामदासस्य गृहं गतवान्। तस्मिन् समये शिवरामदासः महता एकाग्रचित्तेन रामनाम लिखन् आसीत्। किञ्चित् तिष्ठतु इति मौनेन एव भूतवैद्यं सूचितवान्। किञ्चित् कालानन्तरं किमपि विचित्रं पश्यन् इव भूतवैद्यं दृष्ट्वा रात्रौ ग्रामदेवता भवतः विषयम् उक्तवती भोः। तस्याः देवतायाः पूजया मम किञ्चिदपि प्रयोजनं न अभवत्। एतद्विषयं तस्याः समीपे वक्तुं शक्यते वा? यदा रामनाम लेखनं मया गृहीतं तदारभ्य सुखशान्तिम् अनुभवन् अस्मि। एतत् लेखनं यदा समापयामि तदा महत् पुण्यं सम्पादितं भवति। अनन्तरं कस्यचित् मम प्रीतिपात्रस्य हस्ते मम सम्पत्तिं दत्त्वा अहं मोक्षचिन्तनं करिष्यामि। एषा एव मम इच्छा इति कथितवान्।

इत्थं पुनः अवमानितः भूतवैद्यः दुःखेन गृहं प्रति प्रस्थितः। तस्य मार्गे भूस्वामिभृत्यः तं दृष्ट्वा भूस्वामिपुत्र्याः विषयं कथितवान्। भूतवैद्यः तेन सह एव भूस्वामिगृहं गतवान्। तत्र भूस्वामी आदरपूर्वकं तस्य सत्कारं कृत्वा पुत्र्याः प्रकोष्ठं प्रेषितवान्। भूस्वामी प्रकोष्टं प्रविष्य यदा द्वारं पिहितवान् तदा भूस्वामिपुत्र्याः शरीरे स्थितः तिन्त्रिणीवृक्षवासी पिशाचः करताडनं कृत्वा नहि एनां त्यक्त्वा अहं न गच्छामि। अत्र स्वादुतमं भोजनं मृदुमधुरं शयनम् अस्ति। अहं अत्रैव तिष्ठामि। भवान् तूष्णीं गच्छतु इत्युक्त्वा अट्टहासं कृतवान्।

पिशाचस्य वचनं श्रुत्वा भूतवैद्यस्य मस्तकस्य उपरि वज्रघातः अभवत्। यदि अहं पिशाचम् न निष्कासयामि तर्हि भूस्वामी मम शिरच्छेदनं कारयेत्। एषः पिशाचः तु न गच्छामि इति आग्रहं करोति एतेन कथं विमोचनम् इति चिन्तयन् सः अतीव भीतः अभवत्। अद्य पूजावस्तूनि आनयामि इति उक्त्वा गृहं प्रत्यागतवान्। तस्यां रात्रौ निद्राहीनः भूतवैद्यः चिन्तया एव बहुकालां यापितवान्। तृतीययामे यदा किञ्चित् निद्रामग्नः जाता तदा ग्रामदेवता स्वप्ने दर्शानं दत्त्वा तस्य पिशाचस्य वचने विश्वासं कृत्वा भवान् एतादृशीम् अवस्थां प्राप्तवान्। अस्तु इदानीम् एवं करोतु इति एकम् उपायं सूचयित्वा सा अदृश्या अभवत्।

परेद्युः सः एकः काचकलशं गृहीत्वा भूस्वामीगृहं गतवान्। काचकलशेन सह पुनः स्वसमीपम् आगतं तं दृष्ट्वा पिशाचः किमिदं इति पृष्टवान्। भूतवैद्यः अतीव मुग्धः इव मुखभावं प्रकटयन् ह्यः रात्रौ मम विद्यागुरवः घोराटकाः विन्ध्यारण्यप्रान्ततः प्रत्यागताः। ममभक्त्या प्रीताः ते एतं काचकलशां बहुमानरूपेण मह्यं दत्तवन्तः। अस्य अन्तः यः आन्दोलः अस्ति तस्मिन् यः उपविशति तेन अपेक्षितं रूपं लभ्यते। किन्तु वयं मानवाः अस्मिन् अल्पे कलशे गन्तुं कथं वा शक्नुमः? एतेन किं वा प्रयोजनं भवेत् इति भवन्तं प्रष्टुम् अहम् अत्र आगतवान् इति उक्तवान्।

तत्क्षणं पिशाचः भूतवैद्यस्य हस्तं गृहीत्वा एतेन महत्प्रयोजनम् अस्ति। सुन्द्ररूपं प्राप्तुं बहुकालादारभ्य अहं सर्वदा ध्यायन् अस्मि। एकवारं अस्य काचकलशस्य अन्तः गत्वा शय्यान्दोले उपवेशनस्य अवकाशं ददातु इति वदन् पिशाचः धूमरूपेण काचकलशे प्रविष्टवान्। भूतवैद्यः सद्यः एव कलशं पिधानेन दृढं आच्छादितवान्। महती वञ्चना इति पिशाचः निन्दितवान्। भूतवैद्यः हसन् भूस्वामिपुत्रीं न त्यजामि इति भवतापि वञ्चनाकृता। अतः भवतः मारणम् वञ्चनाया एव। एतत्सर्वं ग्रामदेवतायाः अनुग्रहेण जातम् इति उक्त्वा तां काचकलशं गर्ते स्थापयित्वा मृत्तिकया पिहितवान्। तुष्टः भूस्वामी तं बहुधनैः सम्मानितवान्।

तदा ग्रामदेवता एकं वास्तववृत्तान्तं ज्ञातवती। सर्वे मानवाः न सज्जनाः किन्तु मानवेषु सज्जनता दुर्जनता इति द्वयमपि अस्ति इति।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.