चन्दनदेशस्य राजकुमारः प्रतापवर्मा। प्राप्तवयस्कः सः एकदा देशाटनार्थं प्रास्थितवान्। सर्वत्र भ्रमणम् कुर्वन् सः एकं ग्रामं प्राप्तवान्। तत्र भ्रमणसम्ये अकस्मात् एकः कण्टकः तस्य पादे लग्नः। रक्तस्रावः अपि आरब्धः। वेदनाम् असहमानः प्रतापवर्मा तत्रैव उपविश्य साहाय्यार्थम् इतस्ततः पश्यन् आसीत्।
सुहासिनी इति एका कस्यचन कृषिकस्य पुत्री किमपि कार्यार्थं तेन मार्गेण आगच्छति स्म। कष्टम् अनुभवन्तं प्रतापवर्माणं दृष्ट्वा तस्याः मनसि करुणा उत्पन्ना। सा इतस्ततः दृष्ट्वा समीपस्यथगुल्मतः एकं कण्टकम् आनीतवती। तेन कण्टकेन प्रतापस्य पादे लग्नं कण्टकं बहिः निष्कासितवती। अन्यगुल्मतः औषधगुणयुक्तानि कानिचन पर्णानि आनीतवती। तानि निष्पीड्य आगतं रसम् तस्य पादे स्थापितवती। स्वशाटिकायाः अञ्चलं छित्वा तेन तस्य पादं वद्धवती।
कृतज्ञतापूर्वकं प्रतापवर्मा उक्तवान् भवत्या कृतं साहाय्यम् अहं कदाऽपि न विस्मरामि। भवती यत् इच्छति प्रार्थयतु। अहं ददामि इति। प्रथमं लग्नः कण्टकः कथं निष्कासनीयः इति जानातु। अनन्तरं दानस्य विषयं चिन्तयतु इति हसन्ती उक्तवाती सुहास्सिनी। तस्य कः अर्थः? मया किं करणियम् इति भवती अभिप्रैति? प्रतापवर्मा पृष्टवान्।
यः स्वकीयं कार्यं कर्तुम् एव न जानाति सः अन्यस्य किं साहाय्यं कुर्यात्? अतः भवान् प्रथमं स्वकीयं कार्यं स्वयं कर्तुं जानातु इति सुहासिनी उक्तवती। किन्तु तादृशपरिस्थितिः मम जीवने कदाऽपि न आगता। सर्वदा मम कार्यम् अन्यः कोऽपि अन्या काऽपि वा करोति। इदानीं तु भवती साहाय्यं कृतवती। अस्तु किम् इच्छति भवती? प्रार्थयतु प्रतापः उक्तवान्।
महारजः इव यत्किमपि प्रार्थयतु ददामि इति वदति किल! तर्हि मां महाराज्ञीं कर्तुं शक्नोति वा सहासं पृष्टवती सुहासिनी। सुहासिन्याः स्निग्धसौन्दर्येण मुग्धः प्रतापवर्मा ताम् एव पश्यन् उक्तवान् भवती युक्ते जने एव एतं प्रश्नं पृष्टवती! अहम् एव अस्य देशस्य भावी महाराजः। मम नाम प्रतापवर्मा। अहं देशाटनं कुर्वन् अस्मि। अहं कुत्रापि भवादृशीं सुन्दरीं न दृष्टवान्। अवश्यं भवतीं परिणेष्यामि। तदा भवती महाराज्ञी भविष्यति।
अहं जानामि केषांचन स्वभावः एवं भवति यत् सुन्दरीणां बालिकानां दर्शनमात्रेण एव तेषां मुखतः असत्यपरम्परा एव निस्सरति। भवान् अपि तादृशः एव! परिहासपूर्वकम् उक्तवती सुहासिनी। प्रतापवर्मा पृष्टवान् तर्हि अहमेव अस्य देशस्य भावी महाराजः इति प्रमाणीकर्तुं मया किं करणीयम् इति।
भवता एतत् कार्यं करणीयं यत् सूर्योदयः पश्चिमस्यां दिशि भवेत् तथैव गङ्गानदी अस्माकं देशे प्रवहेत्। एवं यदि भवान् करोति तर्हि भवान् एव भावी महाराजः इति अङ्गीकरोमि। भवन्तं परिणेष्यामि च इति सुहासिनी उक्तवती। आश्चर्यचकितः प्रतापवर्मा उक्तवान् एतादृशं कार्यं तु केनापि कर्तुं न शक्यम्। भवती केवलम् उपहासं करोति इति।
किमर्थं न शक्यम्? यस्य हस्ते अधिकारः अस्ति तेन सर्वं कर्तुं शक्यम्। भवान् तु केवलं बहुभाषी। अतः एव भवता न शक्यम्! सुहासिनी गम्भीरतया उक्तवती। किञ्चित्कालं चिन्तयित्वा प्रतापवर्मा उक्तवान् अस्तु मम एकमासं कालावकाशं ददातु। भवत्या उक्तं साधयित्वा प्रदर्शयामि इति। अस्तु पश्यामि भवतः पराक्रमम् इति उक्त्वा सुहासिनी ततः प्रस्थिता।
प्रतापवर्मा स्वराजधानीं प्रत्यागतवान्। सः स्वमन्त्रिणः आहूय उक्तवान् भोः मन्त्रिणः सूर्योदयः पश्चिमस्यां दिशि भवेत्! गङ्गानदी अस्माकं देशे प्रवहेत्। केन उपायेन एतत् कर्तुं शक्यते इति वदन्तु इति। एतत् श्रुत्वा सर्वे अपि मन्त्रिणः विस्मिताः। ते उक्तवन्तः भोः युवराज! एवं कर्तुं यदा कदाऽपि वा शक्यते किम्? देशसञ्चारसमये भवता मतिभ्रामकं फलं किमपि खादितं स्यात्। कालगतेः परिवर्तनं किं शक्यते वा? अन्यत्र कुत्रचित् प्रवहन्तीं गङ्गानदीम् अत्र आनेतुं कः वा समर्थः भवेत्? एतद्द्वयमपि असाध्यम् एव इति।
यदि एतत् असाध्यम् तर्हि मम युवारजस्थानस्य अधिकारस्य वा कः अर्थः? एतत् भवेत् एव। नो चेत् अहम् अधिकारम् एव न इच्छामि। सामान्यजनः इव अहम् अपि कुत्रचित् अज्ञातः जीवामि इति खिन्नः प्रतापवर्मा उक्तवान्।
महाराजः एतं विषयं ज्ञातवान्। सः पुत्रम् उक्तवान् भोः कुमार! भवान् यत् वदति तत् कार्यद्वयम् अपि सर्वथा असाध्यम् एव! एतत् श्रुत्वा राज्यभारम् अनिच्छन् भवान् एवम् उन्मत्तवचनम् इव यत्किमपि वदति वा इति मम संशयः। किमर्थं भोः तादृशवैराग्यम्? किं सञ्जातम् इति। तदा प्रापवर्मा सुहासिन्याः वृत्तान्तं सर्वम् अपि पितरं निवेदितवान्।
सर्वं श्रुत्वा महाराजः सहासम् उक्तवान् एतावदेव वा? काचन अप्रबुद्धा ग्रामीणबालिका किमपि जल्पनं कृतवती इति कृत्वा भवान् एवं निश्चितवान् वा? एतत् युक्तं वा इति। परन्तु सा अप्रबुद्धा न बहुबुद्धिमती अस्ति – प्रतापवर्मा उक्तवान्। एवं वा? तदपि पश्यामः इति उक्त्वा महाराजः सुहासिनीम् आनेतुं भटान् प्रेषितवान्। भटाः सुहासिनीं सगौरवम् अन्तःपुरम् आनीतवन्तः।
यदा प्रतापवर्मा एव वस्तुतः युवराजः इति ज्ञातम् तदा सुहासिनी विस्मिता। सा युवराजं सविनयम् उक्तवती भोः श्रीमन् अहम् अज्ञानेन यत्किमपि उक्तवती। कृपया क्षाम्यतु इति। प्रतापवर्मा उक्तवान् तथा क्षन्तुं शक्यते वा? भवत्या उक्तं कार्यं साधयितुम् असमर्थाः जातः। अस्तु इदानीं भवत्या एव तानि कार्याणि साधनीयानि। नो चेत् भवतीं निर्दयं दण्डयामि इति।
सुहासिनी सधैर्यम् उक्तवती अवश्यं तथैव करोमि। किन्तु तत् कार्यं साधयितुं मम पर्याप्तः अधिकाराः आवश्यकः। तथा अधिकारं दातुम् अहं न शक्तः यतः अहं केवलम् एतस्य देशस्य युवराजः न तु महाराजः। परन्तु कीदृशः अधिकारः अपेक्षितः इति वदतु। अहम् पितरम् उक्त्वा तं दापयामि इति प्रतापवर्मा उक्तवान्। इदानीं महाराजः चिन्तामग्नः एकस्याः ग्रामीणबालिकायाः हस्ते कथं अधिकारं ददामि? अधिकारः तु राज्ञ्याः हस्ते एव दातुं शक्यः। अधिकारः दातव्यःः चेत् एषा राज्ञी भवेत् एव! राज्ञी भवति चेत् अनन्तरम् एतस्याः दण्डनं कथम् इति।
अन्ते एकः उपायः स्फुरितः। सः सुहासिनीम् उक्तवान् अस्तु अद्य आरभ्य भवती अस्य देशस्य राज्ञी। प्रतापवर्मा सैन्याधिकारी भविष्यति। एवं भवत्याः हस्ते अधिकारः दत्तः अस्ति। एकमासात्मके अवधौ भवत्या उक्तं कार्यं साधनीयम्। अनन्तरम् एव प्रतापवर्मा भवतीं परिणेष्यति इति। सुहासिनी तत् अङ्गीकृतवती। अद्य आराभ्य सुहासिनी एव राज्ञी अस्ति। सा यथा आदिशति तथैव सर्वैः अपि वर्तितव्यम् इति राज्ये सर्वत्र उद्घोषणं कृतम्।
राज्यव्यवहारे बहुस्थलेषु बहुसन्दर्भेषु धनस्य दुर्व्ययः भवति स्म। एतत् ज्ञात्वा सुहासिनी तादृशं अनपेक्षितं धनव्ययं सर्वं स्थगितवती। तेन राज्यभाण्डागारे किञ्चित् अधिकं धनम् अवशिष्टम्। अनन्तरम् एषा नूतनराज्ञी प्रजानाम् उपरि आरोपितं करं न्यूनीकृतवती। अपि च अनेकानि प्रजाहितकार्याणि कृतवती एवं सप्ताहाभ्यन्तरे एव सा प्रजानां प्रीतिपात्रम् अभवत्। एवम् एव विंशतिदिनानि अतीतानि। तदा सुहासिनी महाराजं प्रतापवर्माणं च उक्तवती अद्य मया सह नगरप्रदक्षिणार्थम् आगम्यताम्। मया यत् कार्यं कृतं तत् प्रदर्शयामि इति।
त्रयः अपि वेशान्तरं धृत्वा नगरसञ्चारार्थं प्रस्थिताः। तदा सूर्योदयसमयः आसीत्। मार्गे एकः गच्छति स्म। सुहासिनी सूर्यं प्रदर्शयन्ती तं पृष्ठवती भोः! सा का दिक् इति। सः उक्तवान् पश्चिमा दिक् इति। महाराजस्य प्रतापवर्मणः च आश्चर्यस्य सीमा एव न अवशिष्टा। ते अन्यान् बहून् जनान् एवमेव प्रश्नं पृष्टवन्तः। ते सर्वे अपि उक्तवन्तः यत् यत्र सूर्योदयः दृश्यते सा पश्चिमा दिक् इति। अनन्तरम् ते सर्वे नगरमध्यभागं गतवनतः। तत्र तारानदी प्रवहति। नदीं प्रदर्शयन्ती सुहासिनी एकं पृष्टवती एषा का नदी? सः उत्तरम् उक्तवान् गङ्गानदी! सर्वेषाम् अपि उत्तरम् एषा गङ्गानदी इति।
इदानीं सुहासिनी सविनयं महाराजम् उक्तवती महाप्रभो मया यत् उक्तं तत् कार्यं कृतम् अस्ति इति। एतत् तु बहु विचित्रम् एव। कथं एतत् शक्यं जातम् इति विस्मयेन उक्तवान् महाराजः।
महाप्रभो प्रजानां कष्टं कीदृशं भवति इत्येतत् अहं सम्यक् जानामि। यतः अहम् अपि एका ग्रामीणा स्त्री। अतः अधिकरप्राप्तिसमनन्तरम् एव अहम् प्रजाहितकार्याणि कृतवती। अतः एव सर्वाः प्रजाः सन्तुष्टाः। द्वितीयसप्ताहे तेषां मनस्सु मम विषये आराधनाभावः समुत्पन्नः। परिस्थितिः मदनुकूला संवृत्ता। तदा अहं राज्ये सर्वत्र उद्घोषणं कारितवती यत् भवतां महाराज्ञी अस्वस्था अस्ति। यदि भवन्तः सर्वे पूर्वदिशं पश्चिमदिक् इति वदन्ति तारानदीं गङ्गानदी इति च वदन्ति तर्हि गङ्गादेवी सूर्यभवगान् च प्रसन्नौ भुत्वा राज्ञ्याः स्वास्थ्यम् अनुग्रहीष्यतः इति। जनाः तथैव व्यवहारम् आरब्धवन्तः इति सुहासिनी उक्तवती।
प्रापवर्मा आश्चर्येण उक्तवान् एतत् एतावत् सुलभम् इति अहं न ज्ञातवान् एव इति। महाराजः गम्भीरः सन् उक्तवान् सुहासिनि! अहं भवतीं मम स्नुषाम् अङ्गीकरोमि। मदीयवचनपालनार्थं वा भवत्याः बुद्धिमत्तां दृष्ट्वा वा अहम् एवम् न कुर्वन् अस्मि। केषुचित् एव दिनेषु भवती प्रजानां प्रेम आदरं गौरवं च प्राप्तवती। अस्माकं देशे भवादृश्याः एव महाराज्ञ्याः आवश्यकता अस्ति। भवतीं युवराज्ञीं कृत्वा अहम् अपि प्रजानां प्रीतिपात्रं भवितुम् इच्छामि इति।
अनन्तरम् अल्पे एव काले सुहासिन्या सह प्रतापवर्मणः विवाहः महता वैभवेन सम्पन्नः। प्रतापवर्मा राजा सञ्जातः। तथापि प्रतापवर्मा सेनापतिस्थाने एव तिष्ठन् सर्वं परिपालनसम्बन्धिभारं सुहासिन्याः उपरि एव स्थापितवान्। कालान्तरे सः उत्तमः राजा इत्यपि प्रसिद्धः अभवत्।