द्वीपेषु पुष्करद्वीपः क्रौञ्चद्वीपः च बहुप्रसिद्धौ प्रतिवेशिनौ च। द्वीपान्तराणां सर्वे अपि राजानः क्रौञ्चद्वीपराजस्य मित्राणि एव। किन्तु पुष्करद्वीपस्य राजा तु क्रौञ्चद्वीपस्य राजानं न बहुमन्यते न आद्रियते प्रत्युत तिरस्कारेण पश्यति च। अन्येषां उपहसनम् आत्मनः गर्वप्रदर्शनं च तस्य स्वभावः। क्रौञ्चद्वीपस्य राजा तु तम् अपि मित्रं कर्तुम् इच्छति स्म। तस्य मैत्रीं यदि सम्पादयामि तदा मम मद्राज्यस्य च भीतिः नास्ति। पार्श्ववर्तिनोः आवयोः एव कलहः युद्धं च यदि भविष्यतः तदा द्वयोः राज्ययोः अपि हानिः प्रजानां कष्टं च इति क्रौञ्चद्वीपराजस्य भावना।
किन्तु आवयोः द्वयोः अपि कः मैत्रीम् उत्पादयेत्? अत्र कः समर्थः? कः प्रेषणीयः इति विचिन्त्य दूरदर्शिनामानं महामन्त्रिणम् एव पुष्करद्वीपं प्रति क्रौञ्चाद्वीपराजः प्रेषितवान्। प्रपञ्चे अहम् एव बुद्धिमान् इति पुष्करद्वीपराजस्य भावना। अतः आगतस्य महामन्त्रिणः अवमाननं कृत्वा प्रेषयामि इति सः चिन्तितवान्।
दूरदर्शी महाद्वारम् आगतवान्। द्वारपालाः झटिति एव द्वारं पिहितवन्तः। राजा अपि आगत्य उपहसन् उक्तवान् भोः! महामन्त्रिन्! तत्र पश्यतु। शुनकानां प्रेवेशार्थं रन्ध्रम् एकं दृश्यते किल? यदि अन्तः प्रवेष्टुम् इच्छति तेन एव रन्ध्रेण भवान् अपि प्रविशतु इति। दूरदर्शी राजानां दूरतः एव नमस्कृत्य उक्तवान् यथा आज्ञापयति महाप्रभो! वयं मनुष्याणां देशे मनुष्याणां द्वारेण एव प्रविशामः शुनकानां देशे शुनकानां द्वारेण एव प्रविशामः। अस्माकं लक्ष्यं तु मैत्री एव। अतः शुनकद्वारेण एव प्रविशामि।
एतत् श्रुत्वा पुष्करराजस्य मुखं लज्जया विवर्णं जातम्। दूरदर्शिनं महाद्वारेण एव प्रवेश्य सिंहासनस्य पार्श्वे एकस्मिन् आसन्दे उपवेशितवान्। दूरदर्शी अतीव वामनः आसीत्। अतः तस्य अपेक्षया अपि आसन्दः एव महान् दृश्यते स्मा। पुनः तम् अवमानयितुं राजा पृष्टवान् भोः मन्त्रिन्! भवतः बुद्धिः इव भवतां राज्यस्य जनाः अपि वामनाः किम्? राजन्! अस्माकं देशे वामनाः अपि सन्ति प्रांशवः अपि सन्ति। अल्पेषु वामनाः प्रेष्यन्ते उदारेषु प्रांशवः प्रेष्यन्ते। एषः च अस्माकं राज्यस्य नियमः। अतः भवतः समीपे अहं प्रेषितः इति दूरदर्शी उत्तरं दत्तवान्।
उत्तरं श्रुत्वा राज्ञः कपोलयोः चपेटिकायाः अनुभवः अभवत्। एतं मन्त्रिणं कथं वा अवमानयामि इति चिन्तितवान् राजा। तदा पुरुषम् एकं बद्ध्वा आनीय भटाः उक्तवन्तः प्रभो! एषः क्रौञ्चदेशीयः अत्र चौर्यं करोति स्म। तत् वयं दृष्टवन्तः। तत्क्षणे एव बद्ध्वा आनीतवन्तः इति। भोः क्रौञ्चमन्त्रिन्! भवतः राज्यस्थाः सर्वे अपि किं चोराः इति पुष्करराजः सोत्साहं पृष्टवान्।
क्रौञ्चमन्त्री उत्तरं दत्तवान् प्रभो! एतद्देशस्य एषः प्रभावः यत् अत्र आगतानाम् अपि एतद्देशास्य बुद्धिः उत्पन्ना भवति। अस्माकं देशे चौर्यस्य वार्ता अपि न श्रूयते। भवदीयाः यदि आगच्छन्ति ते अपि चौर्यम् सर्वथा न कुर्वन्ति। अतः भवतः मैत्रीं सम्पादयितुम् अहम् अत्र आगतवान्। पराजितः पुष्करराजः उक्तावान् भवतः स्वामी अहं च इतःपरं सखायौ।
एवं वामनः दूरदर्शी स्वकार्यभारं यशस्वितया निरूढवान्। ततः सन्तोषेण स्वराज्यं प्रतिनिवृत्तवान्।