SanskritLearners.Club

Where we Learn from Each Other

Three Boons

Source - Sanskrit Chandamama |

| July |

| 1984

Govinda is a shepherd and was married to Poornima. Poornima sells curd and milk to run the household. Her husband Govinda takes care of the cows. One day when he took the cows to forest for grassing, suddenly rain came. There in the forest used to be a Saint always found in Meditation. Because of heavy rain, the saint’s hut was shattered and Govinda helped him to recover. For the hospitality extended by Govinda the Saint gave three boons. How he used it and why the saint wondered about the usage of the boon is the story.

वरत्रयम्

पूर्वं रुद्रपुरे गोविन्दनामकः एकः गोपालकः आसीत्। तस्य पत्नी पूर्णिमा। गोविन्दः बाल्यात् आरभ्य मन्दः एव। शरीरं पुष्टं चेत् अपि बुद्धिः न वर्धिता। तस्य पुत्नी तु अतीव बुद्धिमती। एतत् गोविन्दः अपि जानाति। अतः सः पत्नीम् अपृष्ट्वा किमपि कार्यम् न करोति स्म।

एतयोः दम्पत्योः ऐश्वर्यं नाम एकः लघु कुठीरः धेनुत्रयं च। पूर्णिमा दधिक्षीरादीनां विक्रयणं करोति। सम्पादितेन तेन धनेन द्वयोः जीवनं निर्वहति स्म। गोविन्दः तु प्रातः गाः अरण्यं नयति। सायं गोभिः सह प्रत्यागच्छति। एतावत् एव तस्य दिनचर्या।

अरण्ये एकः मुनिः वृक्षस्य अधः उपविश्य तपः करोति स्म। पार्श्वे एव तस्य आश्रमः आसीत्। गोविन्दः एतं मुनिं बहुकालतः पश्यन् अस्ति। तथापि सः मुनिना सह वार्तालापं न कृतवन्। वार्तालापः करणीयः इति विचारः अपि तस्य मनसि न उत्पन्नः। मुनिः सर्वदा पद्मासने उपविश्य नेत्रे निमील्य ध्यानं करोति।

एकदा गोविन्दः यथापूर्वं गोचारणार्थम् अरण्यं गतवान्। तदा अकस्मात् वृष्टिसहितः चण्डमारुतः उत्पन्नः। वृक्षस्य शाखाः वायुना छिन्नाः पतिताः च। एतेन गावः सर्वाः भीताः। किञ्चित्कालानन्तरं वृष्टिवेगः न्यूनः जातः। इतःपरम् अत्र स्थितिः न उचिता इति चिन्तयित्वा गोविन्दः गोभिः सह गृहं प्रस्थितः।

गोविन्दः मुनेः आश्रमसमीपम् आगतवान्। तत्र कुत्रापि मुनिं न दृष्टवान्। तत्र वृक्षस्य शाखाः इतस्ततः पतिताः आसन्। मुनेः का गतिः इति चिन्तयन् गोविन्दः समीपं गत्वा दृष्टवान्। शाखानाम् अधः मुनिः निश्चलं पतितः अस्ति! एतत् दृष्ट्वा गोविन्दस्य मनः खिन्नम्। गोविन्दः शीघ्रं शाखाः पार्श्वे क्षिप्त्वा मुनिं ततः बहिः आनीतवान्। आश्रमं नीत्वा स्वमत्यनुसारं प्रथमोपचारम् अपि कृतवान्। तदा जागरितचेतनः मुनिः गोविन्दं दृष्ट्वा आश्चर्येण पृष्टवान् कः भवान्? अत्र किं प्रवृत्तम्? मम किं जातम् आसीत् इति।

गोविन्दः वृष्टिप्रसङ्गस्य समग्रं विवरणं कृत्वा उक्तवान् भवान् महातपस्वी! अतः एव स्थूलाः शाखाः उपरि पतिताः चेदपि भवतः व्रणादिकां न जातम्। इतःपरम् अहं गच्छामि वा? भवान् किमपि साहाय्यम् इच्छति वा? उक्तं चेत् शिरसा निर्वहामि इति। तदा मुनिः उक्तवान् तिष्ठतु किञ्चित्। मम साहाय्यं किमपि न अपेक्षितम्। भवान् दयापरः करुणालुः च। किन्तु भवतः जीवनां निश्चिन्तं सुखमयां च नास्ति इति दर्शनेन एव भाति। अतः भवतः कृते वरत्रयं ददामि। अपेक्षितं पृच्छतु इति।

गोविन्दः किञ्चित् चिन्तयित्वा उक्तवान् किं प्रष्टव्यम् इति अहं न जानामि। मम पत्नी एतद्विषये सम्यक् जानाति। तां पृष्ट्वा आगच्छामि वा इति। अस्तु तथैव करोतु। पुनाः एतावद्दूरम् आगन्तव्यं नास्ति। भवता अपेक्षितः वरः तत्क्षणम् एव सिध्यति इति। गोविन्दः मुनिं नमस्कृत्य सन्तोषेण गृहं गतवान्। पत्न्यै पूर्णिमायै सर्वं वृत्तान्तं निवेदितवान्।

पूर्णिमा वररूपेण किम् इच्छामि इति बहु चिन्तितवती। अन्ते उक्तत्वती इदानीं तु वयं विद्यमानेषु वस्तुषु एव तृप्ताः सुखिनः च। किन्तु तपस्विना मुनिवरेण दत्तस्य वरस्य तिरस्काराः अपि न उचितः। अतः एकं सुदृढं दण्डम् अमरां सम्मार्जनीं शाश्वतीं रज्जुं च वररूपेण इच्छतु। एतदेव पर्याप्तम् इति।

गोविन्दः सामान्यानि एतानि वस्तूनि वरितुं न इच्छति स्म। ऐश्वर्यं भवनम् इत्यादिकं याचनीयम् इति तस्य आशा आसीत्। किन्तु पत्न्याः बुद्धिमत्तविषये तस्य अचलः विश्वासः। अतः पत्नीसूचनानुसारम् एव वरान् याचितवान्। तत्क्षणम् एव वस्तुत्रयम् अपि प्रत्यक्षम् अभवत्। पूर्णिमा दण्डं पत्युः हस्ते दत्तावती। रज्वा गाः बद्धवती। सम्मार्जन्या गृहं सम्मार्जितवती।

अपरस्मिन् दिने गोविन्दः गोभिः सह अरण्यं गतवान्। मुनिः शाखाः निष्कास्य आश्रमं स्वच्छीकुर्वन् आसीत्। गोविन्दं दृष्ट्वा सः पृष्टावान् वररूपेण किं किं याचितम् इति। गोविन्दः मुनिं नमस्कृत्य उक्तवान् एकां सम्मार्जनीम् एकं दण्डां सुदृढां रज्जुं च वररूपेण प्राप्तवान् इति। मुनिः आश्चर्येण पृष्टवान् एतादृशलघुवस्तूनां कृते वरस्य विनियोगं कृतवान् वा? वरेण अत्यमूल्यानि वस्तूनि प्राप्तुम् शक्यम् आसीत् किल इति।

तदा गोविन्दः उक्तवान् अहं पत्नीवचनानुसारम् आचरितवान्। मम पत्नी निरुपयुक्तवचनानि न वदति इति। मुनेः मनासि कुतूहलम् उत्पन्नम्। अतः सः गोविन्देन सह एव तस्य गृहं गतवान्। तत्र पूर्णिमां पृष्टवान् भवतोः लाभाय भवतु इति मया वरत्रयं दत्तम्। महता श्रमेण सम्पादिता तपःशक्तिः एतदर्थं व्ययीकृता। भवती तु वररूपेण निरुपयोगिवस्तूनि एव अभिलषितवती। एवं किमर्थां कृतम्? ऐश्वर्यादिकं प्राप्तुं शक्यम् आसीत् किल इति।

पूर्णिमा विनयेन उक्तवती वरेण ऐश्वर्यं प्राप्तुं शक्यम् आसीत् किन्तु अकस्मात् आगतम् ऐश्वर्यं मत्ततां जनयति। अन्ते तत् दुःखस्य कारणं भविष्यति इति भवान् जानाति एव। विना श्रमां प्राप्तम् ऐश्वर्यम् अहितस्य मूलम् इति अभिज्ञाः सर्वदा वदन्ति। अतः अहम् ऐश्वर्यादिकं न याचितवती। अन्यच्च अत्याशा दुःखमूलं किल इति।

तदा मुनिः उक्तवान् भवत्या उक्तं सत्यम् एव। किन्तु भवती अल्पवस्तूनां कृते वरस्य विनियोगं किमर्थं कृतवती इति। श्रीमन्! एतानि वस्तूनि न अल्पानि। भवतः वरप्रभावतः सम्मार्जन्या मार्जितं चेत् गृहे लक्ष्मीतेजः प्रकाशते। अनन्तरं गृहे लक्ष्मीविरहः कदाऽपि न भविष्यति। दण्डः विपत्तिकाले सर्वदा रक्षणं करोति। वरप्रसादात् प्राप्ता रज्जुः सर्वदा गोभिः सह एव तिष्ठति। तेन च कदापि अस्माकं गृहे गोसम्पत्तिः न्यूना न भवति। एवं भवतः वरप्रसादेन आजीवनं न्यूनता न भविष्यति। यदि धनं भवनं वा याचामि तदा आवयोः आलस्यं वर्धते। ऐश्वर्येण मदः अपि वर्धेत इति उक्तवती पूर्णिमा।

पूर्णिमायाः बुद्धिमत्तां व्यवहारज्ञानं च ज्ञात्वा मुनिः सन्तुष्टः। मया वराः सुपात्राय एव दत्ताः इति सः चिन्तितवान्। अनन्तरं मुनिः उक्तवान् वत्से! भवती सद्गृहिणी बुद्धिमती च। भवत्याः ज्ञानं दृष्ट्वा मम महान् सन्तोषः अभवत्। परमेश्वरः भवतीं भवत्याः पतिं च रक्षतु इति दम्पत्योः सुखजीवनम् अनुगृह्य मुनिः स्वपर्णशालां गतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.