पुरा कोसलदेशे बिम्बसारनामकः राजा आसीत्। सः एकदा रात्रौक्रमेण बहून् स्वप्नान् अनुभूतवान्। निद्रानन्तरम् अपि ते सर्वे अपि स्वप्नाः स्मृतिपथे सम्यक् आसन्। ते सर्वे अपि चित्रविचित्राः स्वप्नाः। महाराजः ब्राह्मणान् आहूय सर्वान् स्वप्नान् कथयित्वा एतेषां विचित्रस्वप्नानां कः अर्थः स्यात् इति सम्यक् विचार्य वदन्तु इति उक्तवान्।
ते ब्राह्मणाः सर्वे वञ्चकाः आसन्। एवं चिन्तितवन्तः महाराजतः धनम् अपहर्तुम् एषः एव समयः। यथेच्छं धनं प्राप्नुमः। यावत् शक्यते तावत् धनं सम्पादयामः इति निश्चित्य महाराजस्य समीपम् आगत्य महारज! अनेकान् ग्रन्थान् अवलोक्य वयं वदामः। भवता दृष्टाः सर्वे अपि स्वप्नाः अनिष्टकारकाः। तैः केवलं न भवतः कृते भवतः वंशस्य राज्यस्य प्रजानां कृते अपि महती हानिः भविष्यति इति उक्तवन्तः।
महाराजः एतेन वाक्येन बहु भीतः। तर्हि एतान् अनिष्टान् निवारयितुं कः उपायः? परिहारः अस्ति वा? अथवा अनुभोक्तव्यम् एव वा इति सः पृष्टवान्। एतत् श्रुत्वा ब्राह्मणाः उक्तवन्तः परिहारम् अपि दृष्ट्वा एव आगतवन्तः। निवारणोपायः एकः एव अस्ति। अस्माकं राज्ये यत्र यत्र चत्वारः मार्गाः मिलन्ति तत्र सर्वत्र यज्ञाः करणीयाः। यज्ञानन्तरं ब्राह्मणानां कृते यथेष्टम् अन्नदानं धनदानं च भवेत्। तेन सर्वाः अपि पीडाः निवारिताः भविष्यन्ति। राज्यम् अपि नवचैतन्येन उल्लसति। अत्र धर्मस्य दानस्य च अत्यन्तं प्रधान्यम् अस्ति इति।
बिम्बसारः अपि अविचार्य एव ब्राह्मणानां वचनं विश्वस्य कोषाधिकारिणम् आहूय मया केचन दुःस्वप्नाः अनुभूताः। तेषां दुष्फलानां परिहारार्थं यत्र चत्वारः मार्गाः मिलन्ति तत्र यज्ञाः आवरणीयाः। अन्नदानां धनदानं च करणीयम्। दानं तावत् समृद्धं न आसीत् इति एकः अपि यथा न वदेत् तथा व्यवस्था करणीया। एतद्विषये जागरूकाः भवन्तु इति आज्ञापितवान्।
एतं विचारं राजमहिषी ज्ञातवती। सा महाराजस्य समीपं गत्वा एतत् किं क्रियते? अविचार्य एव यज्ञस्य आरम्भः मास्तु। एते ब्राह्मणाः सर्वे न सर्वज्ञाः। तेषां वचनेषु संशयः समुद्भवति। अन्यान् अपि विचारयतु। महाज्ञानी भगवान् बुद्धः जेतवने निवासति इति विस्मृतं वा? तत्र गत्वा तस्य भगवतः समीपे सर्वान् स्वप्नान् सविस्तारं वदतु। तेषां फलं किम् इति पृच्छतु। सः अपि यज्ञं कर्तुम् आदिशति चेत् तदा तथैव आचरामः इति सूचनां दत्तवती।
बिम्बसारः अपि समीचीना सूचना एषा इति चिन्तयित्वा स्वयम् एव जेतवनं गतवान्। तत्र भगवन्तं बुद्धं दृष्ट्वा नमस्कृत्य स्वकीयं गृहम् आगन्तुं सविनयं प्रार्थितवान्। भगवान् बुद्धः महाराजस्य इच्छानुसारम् एकस्मिन् दिने राजगृहं गत्वा भिक्षां स्वीकर्तुं निश्चितवान्। निश्चिते दिने आगतवान् च। तदा महाराजः भगवतः सन्निधाने एवं प्रार्थितवान् भगवन्! भवता अविदितं किमपि नास्ति। अहं कांश्चन दुःस्वप्नान दृष्टवान्। तेषां फलानि किम् इति ज्ञातुम् इच्छामि इति। महाराजस्य मुग्धस्वभावं दृष्ट्वा भगवान् बुद्धः हसित्वा राजन्! स्वप्नान् विवृणोतु। फलं वक्ष्यामि इति उक्तवान्।
देव! एकस्मिन् स्वप्ने अहं वृषभचतुष्टयं दृष्टवान्। वृषभाः बहुक्रूराः आसन्। ते भीकरं गर्जनं कुर्वन्तः राजगृहस्य अन्तः प्रविष्टाः। ते परस्स्परं युद्धं कुर्युः पश्यामः इति जनाः मिलिताः। किन्तु ते वृषभाः कोलाहलम् अकृत्वा एव स्वकीयं मार्गम् अनुसृत्य गतवन्तः। कुत्र इति अहं न जानामि। किमर्थं ते एवं गतवन्तः? कस्मात् प्रदेशात् आगतवन्तः? अस्य स्वप्नस्य कः अर्थः इति राजा पृष्टवान्। राजन् एषः स्वप्नः भवतः कृते वा भवतः कुलस्य कृते वा न अन्वितः। आगामिनि काले नृपाः सर्वे दुष्कृतयः जनिष्यन्ते। मेघः आगत्य अपि वर्षणं विना निर्गच्छति। प्रजाः दुःखिताः भविष्यन्ति। एतादृशानि दिनानि भविषयति यदा कदा वा आगमिष्यन्ति। तदर्थं भवान् विह्वलो मा भवतु इति सान्त्वनवचनानि उक्तवान्।
अन्यस्मिन् विचित्रे स्वप्ने भूमौ अप्ररूढाः अपि वृक्षाः फलपुष्पभरिताः मया दृष्टाः। एवं कुत्रापि अस्ति वा? किं वा अस्य रहस्यम् इति राजा पुनः पृष्टवान्। महाराजस्य वचनं श्रुत्वा भगवान् बुद्धः एवम् उक्तवान् अहं पूर्वम् एव उक्तवान् किल? ते पापिनः राजानः आगामिनि काले बहून् अपराधान् कुर्वन्ति। बाल्यविवाहाः भविष्यन्ति। तदा अप्राप्तवयस्काः बालिकाः अपि मातरः भविष्यन्ति। तत्र भवतः दोषः नास्ति। भवता किमपि कर्तुं न शक्यते इति।
अपरस्मिन् स्वप्ने गावः वत्सानां स्तन्यं पातुं प्रवृत्ताः दृष्टाः। किम् अस्य स्वप्नस्य फलम्? कृपया विवृणोतु भगवन्। आगामी कालः विपरीतः भविष्यति। वृद्धाः स्वकीयपरिपालनाय बालान् आश्रयन्ति। तानि दुर्दिनानि आगामिनि काले आगमिष्यन्ति इति अर्थः।
चतुर्थे स्वप्ने कांश्चन कृषिकान् दृष्टवान्। ते स्वकीये क्षेत्रे बलिष्ठान् वृषभान् विहाय वत्सान् गृहीत्वा हलैः कर्षणं कुर्वाणाः आसन्। ते वत्साः वेदनया बहु क्रन्दनं कुर्वन्तः आसन्। मया पूर्वम् एव उक्तम्। ते दुष्टाः राजानः अन्याय्यं मार्गम् अनुसरन्ति। अधिकारे स्थितान् वृद्धान् चतुरान् सचिवान् च विहाय अचतुरान् अनभिज्ञान् च युवकान् तस्मिन् स्थाने नियोजयन्ति इति तस्य स्वप्नस्य अर्थः।
पञ्चमे स्वप्ने विलक्षणम् एकम् अश्वं दृष्टवान्। तस्य उभयतः मुखम् आसीत्। सः अश्वः उभाभ्याम् मुखाभ्याम् आहारं स्वीकरोति स्म। अस्य घोरस्वप्नस्य कः वा अर्थः? भविष्यति काले नितान्तम् अन्याय्यं भविष्यति। न्यायाधिकारिणः निष्पक्षं न्यायनिर्णयं न कुर्वन्ति। उभयपक्षतः अपि उत्कोचं स्वीकुर्वन्ति किन्तु न्यायनिर्णयं न कुर्वन्ति इति सः स्वप्नः सूचयति।
षष्टस्य स्वप्नस्य फलं विवृणोतु एकः रज्जुं निर्मापयति स्म। सिद्धं रज्जुभागम् एका शृगाली चौर्येण खादन्ती आसीत्। किं वा अस्य रहस्यम्? भविष्यति काले अनिष्टानि प्रवर्धन्ते। समाजे पुरुषाः कष्टेन धनं सम्पादयन्ति। स्त्रियः अनुक्त्वा एव तस्य धनस्य व्ययं कुर्वन्ति। पुरुषैः एतत् ज्ञातुं नैव शक्यते इति तस्य स्वप्नस्य अर्थः।
सप्तमे स्वप्ने एकं विचित्रं दृष्टवान्। राजभवनस्य समीपे एकस्मिन् बृहति भाण्डे सम्पूर्णम् जलं आसीत्। तस्य परितः अनेके रिक्ताः भाण्डाः आसन्। तत्र सर्वकुलजाः अपि आगत्य तदा एव पूरिते भाण्डे जलं पुनः प्रपूर्य गतवत्यः। रिक्तेषु भाण्डेषु एका अपि जलं न पूरयति। एवं व्यर्थजलपूरणस्य किं प्रयोजनम्? कः अस्य स्वप्नस्य अर्थः! अग्रे अधर्माः एव प्रवर्धन्ते। प्रजाः सर्वाः आर्जितं धनं महाराजस्य कोषागारे संपूरयन्ति। अन्यत्र प्रजानां गृहाणि रिक्तानि एव भवन्ति। प्रजाभिः बहु कष्टम् अनुभोक्तव्यम् इति तस्य स्वप्नस्य अर्थः।
अष्टमे स्वप्ने पात्रे क्वथमानं अन्नं दृष्टवान्। तत् अन्नम् एकत्र पिण्डीभूतम् आसीत्। अन्यत्र अपक्वम् आसीत्। किम् अस्य स्वप्नस्य रहस्यम् इति राजा पृष्टवान्। भविष्यति दुष्टकाले कृषेः अवस्थां एषः स्वप्नः सूचयति। अस्मिन् काले भूपालकाः कृषौ श्रद्धां न कुर्वन्ति। अतः एव कुत्रचित् अतिवृष्टयाः भविष्यन्ति। ओषधयः सर्वे नश्यन्ति इति तात्पर्यम्।
देव! नवमे स्वप्ने अत्यमूल्यानि मलयचन्दनानि विक्रीय धनं स्वीकुर्वाणाः केचन पुरुषाः मार्गे मया दृष्टाः। किम् अस्य स्वप्नस्य फलम्? भविष्यति काले केचन दुष्टाः पवित्रं धर्मं बोधयित्वा जनैः तुच्छान् ऐहिकसुखान् प्रतिफलत्वेन स्वीकुर्वन्ति। ज्ञानकार्यस्य मानम् अपगच्छति इति तात्पर्यम् इति भगवान् बुद्धः उक्तवान्।
दशमे स्वप्ने भारभूतम् अपि प्लवमानं पाषाणं दृष्टवान्। एकः राजहंसानां समूहः एकः काकम् अनुसृत्य गच्छति स्म। अजाः अपि व्याघ्रान् गृहीत्वा खादन्ति स्म। अजेभ्यः वृकाः अपि भीताः आसन्। एभिः स्वप्नैः अहम् अतीव खिन्नः। एते अनिष्टकारकाः खलु? किं कर्तव्यं मया इदानीम्? एते स्वप्नाः भवतः कालस्य वा कुलस्य वा नैव अन्विताः इति पूर्वम् एव उक्तम्। तेषां विषये भवान् चिन्तां मा करोतु। एते स्वप्नाः सर्वे भविष्यत्कालस्य सूचकाः। आगामिनि काले धर्माः नश्यन्ति। पापाः वर्धिष्यन्ते। अत एव सत्पुरुषाः अपि नीचान् अनुसरन्ति। सज्जनाः अपि अधिकारिणाम् अनादरेण भवता दृष्टः पाषणः यथा जले उत्प्लुतः तथैव निर्गच्छन्ति। परमनीचाः एव उन्नतं स्थानं प्राप्नुवन्ति। तदा सज्जनाः राजहंससदृशाः अपि दुष्टान् अनुसरन्ति। दुष्टाः सज्जनान् पीडयन्ति। निर्मूलयन्ति च।
एतावदेव न सत्कार्याणि धार्मिककार्याणि वा कुत्रापि न प्रचलन्ति। प्रचलन्ति चेदपि तत्र बहवः विघ्नाः। सर्वत्र अपि स्वार्थसाधकाः एव प्रबलाः भवन्ति। वणिजः शासकाः अधिकारिणः कर्मकराः सर्वेऽपि स्वार्थम् एव पश्यन्ति। एतेन च सर्वैः निर्लक्षितः समाजः दुर्बलः भवति इति अस्य स्वप्नस्य तात्पर्यम् इति भगवान् बुद्धः उक्तवान्।
बिम्बसारस्य सर्वे अपि सन्देहाः निवारिताः अभवन्। सः यज्ञस्य विचारं त्यक्तवन्। भगवते बुद्धाय भिक्षां दत्वा तम् आदरेण प्रेषितवान्। समीचीनां सूचनां दत्तवतीं पत्नीं बहुधा श्लाघितवान् च।