एकसमिन् ग्रामे एका युवती आसीत्। तस्याः नाम अरुणा इति। विवाहिता सा पतिगृहम् आगतवती। तस्याः पतिः सदानन्दः ग्रामान्तरे वासं करोति स्म। तस्याः श्वश्रूः श्वशुरः च स्वकीयपुत्रस्य विषये एवम् उक्तवन्तः सदानन्दः सुशीलः किन्तु शीघ्रकोपी। सावधानेन भवितव्यम् इति। पत्युः सदानन्दस्य गृहं बृहत् आसीत्। तस्मिन् गृहे चत्वारः प्रकोष्ठाः आसन्। गृहस्य पश्चाद्भागे एकम् उपवनम् अपि आसीत्।
दशद्वादश दिनानि अतीतानि। सदानन्दः तदा तदा पत्न्याः समीपे वदति स्म। सर्वे मां शीघ्रकोपी इति वदन्ति। विना कारणम् अहम् कदापि कुपितः न भवामि। तत्रापि भवत्याः विषये मम कोपः एव न भवति इति। एवम् एव एकः सप्ताहः अतीतः। सदानन्दः पत्न्याः समीपम् आगत्य भवत्याः साहाय्यार्थम् एकं कर्मकारीं नियोजयामि इति उक्तवान्।
पत्युः वचनं श्रुत्वा अरुणा उक्तवती गृहे बहुकार्याणि न भवन्ति किल? अहम् एका एव कर्तुं शक्नोमि। कर्मकरी आगच्छति चेत् ममकृते कार्यम् एव न भवति। अतः अहम् एव सर्वाणि कार्याणि करोमि। कर्मकरी मास्तु इति। तेन वाक्येन सदानन्दः कुपितः अभवत्। सः तर्हि अस्य गृहस्य कार्यं कर्तुम् एकः एव पर्याप्तः किल? अहं तावत् गृहस्य स्वमी। गृहीयाणां पालनं पोषणम् च मम दायित्वम्। अहम् एव सर्वं करोमि। पश्यतु अहं कथं कार्यं करोमि इति। माम् असमर्थः इति मा चिन्तयतु इति उक्त्वा गृहस्य सम्मार्जनं पात्रक्षालनं वस्त्रक्षालनं सर्वम् एकः एव कृत्वा कार्यालयं गतवान्।
अन्यस्मिन् दिने सदानन्दः पत्नीं पृष्टवान् कथम् अस्ति अस्माकं गृहम्? द्रष्टुम् सुन्दरम् अस्ति वा इति। सा सत्यम् बहु समीचीनं गृहम् इदम् इति उक्तवती। सदानन्दः तत् वचनं श्रुत्वा विना कारणं कुपितः अभवत्। सत्यम् गृहं समीचीनम् एव। तदर्थं कियत् भाठकम् इति भवती जानाति वा? तदर्थं कियत् आर्जयामि इति जानाति वा? इति क्रोधेन गृहस्य पाश्चात् भागं गत्वा तत्र बहूनि शाकबीजानि उप्त्वा जलसेचनं कर्तुम् आरब्धवान्। मध्ये साहाय्यं कर्तुम् अरुणा आगतवती। किन्तु सदानन्दः तां तर्जयित्वा प्रेषितवान्। सदानन्दस्य विचित्रवर्तनं दृष्ट्वा अरुणा आश्चर्यचकिता अभवत्। यदा सः कुपितः भवति तदा बहु उपयुक्तानि कार्याणि करोति स्म। तदा अहम् अपि साहाय्यं करोमि चेत् किं भवति इति अरुणा मनसि एव चिन्तयति स्म।
एकस्मिन् दिने अरुणा प्रतिवेषिन्या सह स्वकीयां परिस्थितिम् उक्तवती। सा हसित्वा भवती सत्यं हि भाग्यशालिनी। अहं देवं प्रार्थयामि मम पत्युः कृते अपि पुनःपुनः एतादृशः कोपः आगच्छतु इति उक्तवति। एवमेव कानिचन दिनानि अतीतानि। ग्रामे एकः साधुः आगतवान्। सदानन्दः तस्य समीपं गत्वा मम पत्नी अत्यन्तं गुणवती। तथापि तदा तदा मां कोपयति। किं करोमि? मम गृहम आगत्य एकं दिनं स्थित्वा परिहारं वदतु इति उक्त्वा सायं गृहम् आनीतवान्।
साधुः गृहम् आगतवान्। अरुणायाः वर्तनं सर्वं दृष्टवान्। अरुणा सुशीला एवं गुणवती इत्यपि च ज्ञातवान्। अनन्तरं सः अरुणाम् आहूय सदानन्दस्य अग्रे एवं पृष्टवान्। बाले! पत्युः विषये किमपि असमाधानम् अस्ति वा इति। अरुणा शिरसा एव नास्ति इति उत्तरं सूचितवती। पत्युः स्वभावे किमपि परिवर्तनम् इच्छति वा? किं परिवर्तनम् अपेक्षितम्? वदतु! अरुणा पत्युः मुखे भीत्या दृष्टवती। भयं मास्तु। सदानन्दः सुशीलः भवती निर्भयेन वदतु।
विना कारणं मम पत्युः कोपः आगच्छति। तस्य निवारणं भवति चेत् पर्याप्तम्। अस्तु भवत्याः पत्युः कोपः अपगच्छन्ति। तदर्थं भवत्या एकं व्रतम् आचरणीयम्। एकमासपर्यन्तं प्रतिदिनम् अपि एकवारम् एव भोक्तव्यम्। एतत् शक्यते वा? अस्तु अवश्यं करोमि इति अरुणा अङ्गीकृतवती। अनन्तरं साधुः तस्याः कर्णे कमपि उपदेशं दत्तावान्।
अनन्तरं साधुः सदानन्दम् पृथक् आहूय सदानन्द! भवतः पत्नी भवन्तं बहु आदरेण उपचरति। तस्याः मनसि प्रीतिः अस्ति। सा भवतः कोपेन बहु दुःखम् अनुभवति। सा सदा भवतः सुखम् एव इच्छति इति उक्तवान्। अहमपि तस्याः सुखम् एव इच्छामि। अतः एव कोपस्य अभिनयं कृत्वा सर्वाणि कार्याणि अहमेव करोमि। तर्हि भवतः कोपेन भवत्कृते कष्टं भवतः पत्न्याः कृते सुखं च भवति किल? तथापि सा भवतः कोपं वारयितुं प्रयत्नं करोति। एतादृशी गुणवती पत्नी अस्ति। भवान् खलु भाग्यशाली!
अस्याः कारणेन साधोः अग्रे अहम् एव मन्दमतिः अभवत् इति सदानन्दः पुनः कुपितः। साधोः गमनानन्तरं कोपाविष्टः सदानन्दः कूपतः जलं स्वीकृत्य गृहं सर्वं क्षालयित्वा शुद्धं कृतवान्। अरुणा किंकर्तव्यमूढा अभवत्। सा गृहात् बहिः गतवती। तद्दिने सदानन्दस्य विरामः दिनम्। गृहकार्यं सर्वं परिसमाप्य अरुणायाः निरीक्षणे आसीत्। अरुणा सायङ्काले गृहम् आगतवती। कुत्र गतवती इति सदानन्दः पृष्टवान्। अरुणा उक्तवती प्रतिवेशिनीगृहे कार्यं कर्तुम्। तत्र गत्वा कार्यं कर्तुं किं दारिद्रयम् आपतितम्?
दारिद्रयम् किमपि नास्ति। ममापि कोपः आगतः। तदा कार्यं कर्तुं भवान् अवकाशं न ददाति। अतः अन्येषां गृहं गतवती! भवती अन्यत्र गत्वा कार्यं करोति चेत् जनाः मां किं वा चिन्तयन्ति? भवतः योग्यतयाः हानिः न भवति। मम पत्युः स्वास्त्यं सम्यक् नास्ति। अतः सः यावत् स्वस्थः न भवति तावत् पर्यन्तम् अन्यत्र कार्यं कर्तुं साधुना आदिष्टा अस्मि। अतः एव अहम् अन्यत्र कार्यं करोमि इति सर्वत्र वदामि। यत्किमपि भवतु। भवती अन्यत्र कार्यं मा करोतु। तत् मया सोढुं न शक्यते।
यावत् पर्यन्तं भवान् गृहे कार्यं करोति तावत् पर्यन्तम् अहम् अन्येषां गृहं गच्छामि। अहं गृहे कार्यं करोमि चेत् भवत्याः का हानिः? अहं परगृहं गच्छामि चेत् भवतः का हानिः? भवतः कोपः मम साहाय्यं करोति। मम कोपः अन्येषां कृते साहाय्यं करोति इति।
अनन्तरं सदानन्दः वस्तुस्थितिं ज्ञातवान्। अहं यथा तस्याः हितम् एव चिन्तयामि तथा सा अपि मम हितम् एव चिन्तयति इति। अरुणे! मां क्षाम्यतु। इतःपरं अहं कदापि भवत्याः विषये कोपां न प्रदर्शयामि इति उक्तवान् सदानन्दः।
हन्त! अद्य साधोः उपायः फलितः। तथापि अहम् एकमासपर्यन्तम् एकवारम् एव भोजनं करोमि। साधुना उक्तं व्रतम् सम्पूर्णम् करिष्यामि इति अरुणा उक्तवती। तया सह सदानन्दः अपि उपवासव्रतम् आचरितवान्। एकमासपर्यन्तं व्रताचरणेन सदानन्दस्य कोपः सम्पूर्णतया अपगतः। अनन्तरं तौ परस्परं कलहं त्यक्त्वा सुखेन जीवनं कृतवन्तौ।