एकस्मिन् ग्रामे शिवदासनामकः महान् देशभक्तः आसीत्। सः निस्वार्थी परोपकारी च। अतः एव ग्रामं ग्रामं गत्वा जनानां कृते उपदेशं ददाति स्म। देवस्य महिमातिशयं सर्वेषां जनानां कृते बोधयति स्म। एवम् एव सः एकवारं रामनगरनामकं ग्रामम् आगतवान्। तत्रस्थानाम् आस्तिकानां कृते भगवद्विषयकं विचारम् उपदिशन् सः एवम् उक्तवान्।
देवः सर्वप्राणिनाम् कृते अपि आहारं ददाति। अतः एव नवजातः शिशुः स्तन्यपानं करोति। पिपीलिका सदृशानां जीविनां कृते अपि योग्यम् आहारं देवः दापयति। क्षुद्रजन्तून् अपि सः न विस्मरति। एकः अपि जन्तुः आहारं विना मृतः न भवति। देवः सर्वान् अपि रक्षति। दरिद्रस्य अपि अन्नं दापयति। एवं सर्वेषां प्राणिनां कृते यथाकथञ्चित् आहारं ददाति एव। अत्र संशयः नास्ति इति।
एवम् एव उपन्यासः प्रचलन् आसीत्। जनाः सर्वे आनन्दतुन्दिलाः आसन्। तेषां मध्ये सुदर्शनः नाम एकः वितण्डवादी आसीत्। सः एतत् अङ्गीकर्तुं सिद्धः न आसीत्। सः मध्ये एव उत्थाय उक्तवान् स्वामिन्! भवतः वाक्यं विचित्रम् एव भाति। एतत् अहं न अङ्गीकरोमि। न खादामि अहम् इति प्रतिज्ञाय एकः उपविशति चेत् देवः कथं खादयति? माता यथा बालकान् भोजयति तथैव देवः आगत्य बलेन खादयति वा? एतत् अङ्गीकर्तुं न शक्यते इति।
तदा देवभक्तः देवस्य तत् कष्टं कार्यं न। दुराग्राहिणः अपि कथं भोजनीयाः इति सः जानाति। भोजनां विना जीवितुं न त्यजति इति उक्तवान्। सुदर्शनः मनसि एव एतेन सह वादेन प्रयोजनं नास्ति। अतः अहं गृहे किमपि न खादमि। तदा अस्य भक्तस्य देवः आगत्य खादयति वा इति पश्यामि इति निश्चयं कृतवान्। यदा सः गृहं गतवान् तदा पत्नी भोजनार्थं सर्वं सिद्धं कृत्वा आहूतवती आगच्छतु भोजनं सिद्धम् अस्ति इति।
मम बुभुक्षा एव नास्ति। अहं अद्य रात्रौ भोजनं न करोमि। मम कृते उपरोधं मा करोतु इति उक्तवान् सुदर्शनः। सा पुनः अस्माकं गृहे एव फलितं कारवेल्लम् आसीत्। तेन अहं व्यञ्जनं कृतवती। भवते बहु रोचते किल? किञ्चित् वा खादतु इति उक्तवती। मम कृते भोजानं न आवश्यकम्। बुभुक्षा नास्ति इति उक्तं किल? वृथा तृप्तस्य भोजनम् इति न जानाति वा? गच्छतु इति गर्जितवान्। सा गतवती। किन्तु बालकाः भोजनसमये बहु पीडां दत्तवन्तः। गृहे तिष्टामि चेत् वारयितुं न शक्यते। अतः एव ग्रामात् बहिः गच्छामि इति सः चिन्तितवान्। ग्रामतः आगत्य एकस्य वृक्षस्य अधः उपविष्टवान् च।
तस्मिन् ग्रामे एका पिशाचग्रस्ता आसीत्। मान्त्रिकः आगत्य तस्मिन् दिने रात्रौ पिशाचस्य उच्छाटनं करोति स्म। सः बहूनि भक्ष्यभोज्यानि कारितवान्। एकस्मिन् घटे स्थापयित्वा ग्रामात् बहिः स्थितस्य एकस्य वृक्षस्य अधः स्थापयित्वा आगच्छन्तु इति गृहसदस्यान् उक्तवान्। तदा तस्य गृहस्य परिचारकाः तानि भक्ष्याणि नीतवन्तः। सुदर्शनः यत्र आसीत् तत्रैव तानि भक्ष्यभोजनानि स्थापयित्वा आगतवन्तः।
सुदर्शनः तदा वस्तुतः बुभुक्षितः आसीत्। तस्मिन् समये एव भक्ष्याणां सुगन्धः नासिकां प्रविशति स्म। तस्य जिह्वातः लालारसः स्रवति स्म। अद्य देवस्य परीक्षां करोमि एव इति चिन्तयित्वा सः बुभुक्षां बलेन निरुध्य उपविष्टवान्। एवमेव रात्रिः अग्रे गच्छति स्म।
तदा तृतीयः यामः आसीत्। तस्मिन् समये तत्र केचन चोराः आगताः। ते ग्रामेषु चौर्यं कृत्वा धनादिकम् आनीतवन्तः आसन्। इदानीं सम्पादितस्य विभागः करणीयः इति तत्र सम्मिलिताः च। तेषां नासिकाम् अपि भक्ष्यादीनां सुगन्धः प्रविष्टः। ते तत्रैव स्थितं भक्ष्यपूर्णं घटं दृष्टवन्तः। ते सर्वे आश्चर्यचकिताः। अरे! एतावत् भक्ष्यम् अत्र कथम् आगतम् इति केचन उक्तवन्तः।
यदा कथं वा आगच्छतु! इदानीं बुभुक्षा बाधते। भोजनं तु सिद्धम् अस्ति! खादामः। अन्यत् सर्वम् अनन्तरं परिशीलयामः इति अन्ते केचन उक्तवन्तः। रे! रे! त्वरा मास्तु! येन केनापि अस्मान् मारयित्वा धनं सर्वं स्वीकर्तुम् अन्ने विषं मेलयित्वा स्थापितं स्यात्। तथा अस्ति चेत् सः अत्रैव भवति। सम्यक् अन्वेषणं कुर्वन्तु इति अपरः उक्तवान्।
चोराः अन्वेषणं आरब्धवन्तः। समीपे एव वृक्षस्य अधः उपविष्टं सुदर्शनं दृष्टवन्तः। सर्वे तस्य समीपम् आगत्य रे! वराक! अस्मान् मारयितुं जालं प्रसार्य अत्र अन्धकारे उपविष्टवान् वा? भवन् एव स्वादतु तत् भक्ष्यम् इति उक्तवन्तः। अहं किमपि भक्ष्यं न खादामि। मम व्रतम् अस्ति। अतः एव अत्र उपविष्टवान् इति सुदर्शनः उक्तवान्।
सुदर्शनस्य वचनं श्रुत्वा तेषां संशयः दृढः जातः। अतः ते भवान् किञ्चित् स्वादतु प्रथमम् इति बहु आग्रहं कृतवन्तः। सुदर्शनं बहु ताडितवन्तः। तथापि सुदर्शनः भोजनं कर्तुं न सिद्धः। अन्ते ते बलात्कारेण सुदर्शनस्य मुखे भक्ष्यं स्थापितवन्तः।
सुदर्शनः न मृतः इति ज्ञात्वा ते सर्वम् अपि भुक्त्वा ततः गतवन्तः। भक्तशिवदासेन यत् उक्तं तत् सत्यम् एव इति चिन्तयन् सुदर्शनः गृहं गतवान्।