SanskritLearners.Club

Where we Learn from Each Other

Raise of Wisdom

Source - Sanskrit Chandamama |

| May |

| 1984

Bhodisatva was king of Kaushala. He crowned his son Satyasena who was married to Shambuladevi. Unfortunately Satyasena was affected by leprosy and he decided to live in forest. Shambuladevai followed him and served with love and care. Because of his chastity her words came true and Satyasena got rid of the disease and returned back to kingdom. But the doubtful Satyasena disregarded his wife Shambuladevi and how his father’s advise changed and opened up his mind is the story.

ज्ञानोदयः

ब्रह्मदत्तः काशीं परिपालयति स्म। तस्मिन् काले एव कोसलदेशे बोधिसत्वः नाम महाराजः आसीत्। तस्य बोधिसत्वस्य पुत्रः सत्यसेनः युक्ते समये सत्यसेनस्य यौवराज्याभिषेकः विवाहः च अभवत्। तस्य पत्नी शम्बुलादेवी। सा अनुपमा सुन्दरी।

कानिचन दिनानि अतीतानि। दौर्भाग्येण युवराजः सत्यसेनः कुष्ठरोगेण पीडितः अभवत्। बहवः वैद्याः चिकित्साः कृतवन्तः। किन्तु रोगः न शान्तः वर्धितः एव। जुगुप्साजनकेन रोगेण पीडितः युवराजः जनानां मध्ये वासं कर्तुं न इष्टवान्। अतः सत्यसेनः अरण्ये वासम् कर्तुं प्रस्थितवान्। तदा पत्नी शम्बुलादेवी अपि पत्या सह प्रस्थिता। अरण्ये पर्णशालां निर्माय तत्र पत्न्या सह सत्यसेनः वासः कृतवान्।

शम्बुलादेवी तु सूर्योदयकाले एव उत्थाय गृहकार्यं समाप्य पत्युः दन्तधावनार्थं सज्जीकरोति। पत्युः मुखप्रक्षालनानन्तरम् उपहारार्थं फलानि ददाति। अनन्तरं स्वयमपि किञ्चित् खादित्वा खनित्रं कण्डोलं च स्वीकृत्य अरण्ये अटित्वा कन्दमूलानि आनयति। नदीतः जलम् आनीय पत्या स्नानं कारयति। पत्युः भोजनानन्तरं स्वयं भोजनं करोति। एवम् रीत्या जागरूका सती सा पत्युः शुश्रूषां कुर्वती आसीत्। एकदा फलानि सङ्ग्रहीतुं नूतनप्रदेशाभिमुखं सा प्रस्थिता। किञ्चित् दूरे एव एकः लघुसरोवरः आसीत्। तं दृष्ट्वा सा बहु सन्तुष्टा अभवत्।

अतः सरोवरे अवतीर्य स्नानं कृतवती। स्नानानन्तरं सा उपरि आगतवती। तदा तस्याः शरीरं सुवर्णवर्णेन प्रकाशते स्म। किन्तु एतत् परिवर्तनं सा न ज्ञातवती। स्नानेन सन्तुष्टा सा पर्णशालाभिमुखं प्रस्थिता। मार्गमध्ये गच्छन्तीं तां दृष्ट्वा कश्चित् किरातः सहसा निरुध्य उक्तवान् – सुन्दरि! कृपया मम गृहम् आगच्छतु। मां परिणयतु इति। भोः! दुरात्मन्! मां बलात्करोति? एतस्य फलम् अनुभवतु इति कमण्डलुजलेन शापं दत्तवती। वज्रेण ताडितः इव सः किरातः उच्चैः आक्रोशन् भूमौ पतितवान्।

किरातस्य उपरोधतः उन्मुक्ता शम्बुलादेवी जलम् अपि स्वीकृत्य पर्णशालाम् आगतवती। पतिः पृष्टवान् किमर्थम् अद्य विलम्बः कृतः? प्रवृत्तं सर्वं वृत्तान्तं आदितः अन्तपर्यन्तं शम्बुलादेवी निवेदितवती। किन्तु तस्याः वचने अविश्वसन् सत्यसेनः उक्तवान् – स्त्रियः स्वयं कल्पयित्वा यत्किमपि वक्तुं समर्थाः भवन्ति। यथेच्छं विहरन्तीं भवतीं को वा पृच्छति?

स्वामिन्! मम वचनं यदि सत्यं तर्हि एतेन जलेन भवतः कुष्ठरोगः शान्तः भवतु इति वदन्ती शम्बुलादेवी कमण्डलुस्थेन जलेन पत्युः अभिषेकं कृतवती। अनुक्षणमेव तस्य रोगः प्रशान्तः। प्रशान्तेन रोगेण सत्यसेनः बहु सन्तुष्टः अभवत्। किन्तु पत्न्याः पातिव्रत्यम् एव अत्र कारणम् इति सः न ज्ञातवान्। अनन्तरं सत्यसेनः वनवासं त्यक्त्वा गृहाभिमुखं प्रस्थितवान्।

पुत्रस्य आगमनं ज्ञात्वा महाराजः बहुसन्तुष्टवान्। छत्रैः चामरैः च सह स्वपुत्राय स्वागतं कृतवान्। एषा शम्बुलादेवी मम पुत्रस्य रोगम् अपनीतवती। अपि च रोगग्रस्तम् अपि मम पुत्रं रोगप्रशमनपर्यन्तं शुश्रूषितवती इति विचिन्त्य शम्बुलादेवीं पट्टमहिषीं कृत्वा युवराजाय सत्यसेनाय पट्टाभिषेकं च कृत्वा महाराजः वानप्रस्थाश्रमं स्वीकृतवान्।

सत्यसेनः पितुः आज्ञाम् उल्लङ्घयितुम् असमर्थः भूत्वा शम्बुलादेवीं पट्टमहिषीत्वेन स्वीकृतवान् न तु प्रीत्या। अतः शम्बुलादेव्यां औदासीन्यम् अन्यासु पत्नीषु आदरं च प्रदर्शयितुम् आरब्धवान्। पत्युः तिरस्कारेण सपत्नीनाम् असूयया ईर्ष्यया च शम्बुलादेवी चिन्ताक्रान्ता कृशा च अभवत्। कानिचित् दिनानि अतीतानि। एकदा शम्बुलादेव्याः श्वशुरः अरण्यात् नगरम् आगतवान्। भोजनार्थं शम्बुलादेव्याः गृहं गतवान्। तस्याः दीनावस्थां दृष्ट्वा आश्चर्येण पृष्टवान् – किमर्थं भवती दुःखिता? किम् अभवत्?

पत्युः आदराभावे किं जीवितेन इति शम्बुलादेवी निश्वसन्ती उक्तवती। वृद्धः महाराजः सर्वं वृत्तान्तं ज्ञातवान्। अनुक्षणमेव सत्यसेनम् आहूय महाराजः उपदिष्टवान् – वत्स! सत्यसेन! किं पापम् आचरन् अस्ति? कृतघ्नतायाः अपेक्षया अधिकं पापं लोके नास्ति एव। एषा जुगुप्साजनकेन रोगेण युक्तस्य भवतः शुश्रूषां कृत्वा रोगस्य निवारणं कृतवती। एतां पत्नीं राज्यमदेन तृणवत् किं धिक्करोति? राज्यं सम्पदं च सर्वे प्राप्तुं शक्नुवन्ति। पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति न तु सर्वः जनः। अतः शम्बुलादेवीं मा तिरस्करोतु। तां पतिव्रतां तिरस्कृत्य भवान् एव अधः पतति इति।

पितुः उपदेशेन सत्यसेनस्य ज्ञानोदयः अभवत्। सः शम्बुलादेव्याः समीपे गत्वा क्षमां याचितवान्। शम्बुलादेवीं स्वस्य तथा इतरासां पत्नीनां च स्वामिनीं कृतवान्। अनन्तरं राहुमुक्ता चन्द्रकला इव परिशोभमाना सा सुखेन राजप्रासादे आसीत्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.