एकस्मिन् ग्रामे लोपराजः इति धनिकः आसीत्। तस्य गृहे शरभनामकः एकः अनाथः सेवकः आसीत्। सः सर्वथा बधिरः। यजमानेन एकम् उक्तं चेत् शरभः कदाचित् अन्यत् करोति स्म। एतेन कृतम् एव कार्यं पुनः करणीयं भवति स्म। तथापि लोपराजः शरभं न निन्दति।
लोपराजस्य पुत्रः वीरराजः। वीरराजस्य कृते शरभस्य व्यवहारः न रोचते स्म। सः तदा तदा पितरं वदति स्म – बधिरेण सह कः भोः व्यवहरति? लघुकार्यार्थम् अपि बहु उच्चैः वक्तव्यम्! एषः शरभः विना वेतनं तु कार्यं न करोति। एषः एव भवेत् इति न राजाज्ञा। अतः एतं निष्कास्य अन्यं सेवकं कार्ये नियोजयामः। तदेव वरम् इति।
लोपराजः एतत् न अङ्गीकरोति। सः वदति स्म – बधिरः चेत् अपि शरभः विश्वासार्हः। बहुकालतः अस्मान् एव विश्वस्य सः जीवति। अतः गृहतः निष्कासनं न उचितम् इति। वस्तुतः शरभः वीरराजसमीपे अपि विनयेन विधेयतया एव व्यवहरति स्म। तथापि वीरराजः शरभस्य विषये सर्वदा कुप्यति। समये प्राप्ते यथाकथञ्चित् एषः कार्यतः निष्कासनीयः इति वीरराजः मनसि एव निश्चयं कृतवान्।
एकदा लोपराजः पत्न्या सह तीर्थयात्रां प्रस्थितः। गृहस्य समग्रम् अधिकारं पुत्राय समर्पितवान्। वीरराजः चिन्तितवान् – शरभं निष्कासयितुम् एषः एव युक्तः समयः इति। अनन्तरदिने एव शरभस्य वेतनादि व्यवहारं समापितवान् गृहतः निष्कासितवान् च।
कः अपराधः अभवत्? किमर्थम् उद्योगः नष्ठः इति शरभः न ज्ञातवान्। वीरराजः बहुकोपशीलः इति शरभः जानाति एव। अतः सः एतद्विषये यजमानसमीपे किमपि प्रस्तावं न कृतवान्। स्ववस्तूनि स्वीकृत्य गृहतः निर्गतवान्।
अनन्तरं शरभः ग्रामे अन्यत्र उद्योगं प्राप्तुं प्रयत्नं कृतवान्। किन्तु तस्य कृते कोऽपि उद्योगं दातुं न इच्छति। केचन – अये! भवान् प्रथमम् एव बधिरः। पुनः चौर्यबुद्धिः अपि अस्ति इति श्रुतम् इति उच्चैः उक्तवन्तः। निरुद्योगापेक्षया चोरः इति आक्षेपेण शरभः बहु खिन्नः। वीरराजः एव एतादृशं किमपि चौर्यस्य आरोपं कृतवान् इति सः ज्ञातवान्। शरभेण शाश्वतिकः उद्योगः कुत्रापि न लब्धः। अतः सः प्रदिनम् अपि एकैकत्र कार्यं करोति। तेन एव जीवति।
एकस्मिन् दिने मध्याह्नसमये शरभः मार्गे गच्छति स्म। तदानीम् उपमार्गतः वृषभद्वयं रोषेण परस्परं कलहं कुर्वत् आगतम्। तदा वीरराजस्य पञ्चवर्षीयः पुत्रः शालां गच्छन् तस्मिन् एव मार्गे आगतवान्। वृषभयोः कलहः प्रचलति। सर्वे गृहस्य वितर्दिकायां स्थिताः। बालकं मार्गमध्ये दृष्ट्वा केचन आक्रोशनं कृतवन्तः – हन्त! वीरराजस्य पुत्रः इति। किन्तु बालकस्य रक्षणार्थं कोऽपि गृहं त्यक्तुं धैर्यं न कृतवान्।
शरभः एतत् दृष्टवान्। धावन् आगत्य वृषभस्य पादे पतन्तम् बालकं रक्षितवान्। बालकं स्कन्धे आरोप्य पार्श्वस्थं गृहं गतवान्। तत्र सोपानारोहणसमये स्खलन् पतितवान्। वीरराजस्य पुत्रस्य किमपि न जातम्। किन्तु शरभस्य पादे क्षतः जातः। सः उत्थातुम् अशक्तः तत्रैव पतितवान्। वेदनया रोदितुम् आरब्धवान्।
पुत्रस्य प्राणापायपरिस्थितिं श्रुत्वा वीरराजः त्वरया धावन् तत्र आगतवान्। वेदनया कष्टम् अनुभवन्तं शरभं तथैव भयेन पार्श्वे स्थितं स्वपुत्रम् अपि दृष्टवान्। वीरराजः तत्रत्यैः जनैः प्रवृत्तं वृत्तान्तं ज्ञातवान्। शरभविषये करुणा उत्पन्ना। पश्चात्तापेन अश्रूणि आगतानि। हस्तद्वयेन शरभम् उत्थाप्य वीरराजः उक्तवान् – भोः अहं यत् वदामि तत् भवान् प्रायः श्रोतुं न शक्नोति। तथापि चिन्ता नास्ति। भवतः चौर्यबुद्धिः अस्ति इति पापबुद्धिः अहम् एव उक्तवान् तत् असत्यम्। निष्कासितम् इति कोपम् अकृत्वा भवान् मम पुत्रं रक्षितवान्। पितुः वचनं सत्यम् एव। निश्चयेन भवान् विश्वासार्हः इति अहम् इदानीं ज्ञातवान् इति। चलितुम् अशक्तं शरभं द्वयोः पुरुषयोः साहाय्येन स्वगृहं नीतवान्।
पुनः एकसप्ताहानन्तरं लोपराजः तीर्थयात्रां समाप्य गृहम् आगतवान्। गृहे विद्यमानं दृश्यं दृष्ट्वा सः आश्चर्यचकितः। वीरराजः स्वहस्तसाहाय्येन स्खलन्तं शरभं मुखद्वारसमीपम् आनयति स्म। एतस्य किम् अभवत्? भवान् एव हस्तस्य साहाय्येन आनयति किल? बधिरेण एतेन सह व्यवहारः प्रथमम् एव कष्टकरः आसीत्। इदानीं तु पङ्गुत्वम्? किम् अभवत् एतस्य इति पृष्टवान् लोपराजः।
शरभः बधिरः पङ्गुः च स्यात्। किन्तु सः असाधारणः पुरुषः। अस्माकं कुटुम्बस्य उपरि तस्य कियान् विश्वासः इति वदन् वीरराजः सर्वं वृत्तान्तं निवेदितवान्। स्वपौत्रः अपायतः मुक्तः तथैव शरभविषये पुत्रस्य कोपः दूरंगतः इति ज्ञात्वा लोपराजः अतीव सन्तुष्टः।