Sanskrit Learners Club

Where we Learn from Each Other

Foolish Village

Source - Sanskrit Chandamama |

| May |

| 1984

Kantesh newly settled in a village. He spreads various rumors about the mystical and magical powers present in his house. Many villages were wonderstruck by the rumors and wanted to examine themselves by visiting his house. Why he spread such rumors and how he took the fools in to his advantage is the story.

मूर्खग्रामः

एकं नगरम्। तत्र कोटीशनामकः कश्चित् वसति स्म। सीताफलं तस्य प्रियं फलम् आसीत्। एकदा सः मार्गे गच्छति स्म। मार्गमध्ये कान्तेशनामकः मिलितवान्। कान्तेशः मासतः पूर्वं दूरदेशतः आगत्य तस्मिन्नेव नगरे वसति स्म। तस्य हस्ते एकम् उत्तमं सीताफलम् आसीत्। फलं दृष्ट्वा कोटीशः आश्चर्येण अहो! किम् एतत्! अकाले सीताफलम्। एतत् फलं भवान् कुत्र लब्धवान्? प्रायः इदमिदानीमेव वृक्षात् अवचित्य आनीतम् इव दृश्यते भो! इति पृष्टवान्।

अत्र आश्चर्यस्य किमस्ति कारणम्? मम गृहस्य पश्चाद्भागे एकः आम्रवृक्षः अस्ति। तस्मिन् वृक्षे संवत्सरस्य सर्वेषु कालेषु सर्वविधानि फलानि अपि लभ्यन्ते इति कान्तेशः उक्तवान्। नितराम् असम्भवम् एतत्! इति कोटीशः पुनः अधिकेन विस्मयेन उक्तवान्।

किमर्थम् असम्भवम्? नित्यानन्दयोगिनः मम गृहम् आगत्य कूपस्य जलं मन्त्रपूतं कृत्वा गतवन्तः। तदारभ्य एवमेव प्रवर्तते। बहवः जनाः आगत्य मम कूपस्य जलं याचन्ति। अहं तु न ददामि इत्येव वदामि। किमर्थम् इति चेत् यदि मम कूपस्य जलेन सर्वे वृक्षाः सर्वविधानि फलानि दातुं समर्थाः भवन्ति तर्हि मम वैशिष्ट्यं किं वा स्यात्? तथा याचना अपि अयुक्ता। अस्य जलस्य दानमपि अयुक्तम् इति उक्त्वा कन्तेशः अग्रे गतवान्।

कान्तेशस्य गृहं बहुदूरे आसीत्। तथापि तत्र गत्वा तं विचित्रवृक्षं दृष्ट्वा आगन्तव्यम् इति कोटीशस्य इच्छा अभवत्। तदेव चिन्तयन् सः किञ्चित् दूरं गतवान्। तदा पार्श्वस्थोपमार्गतः गोविन्दः आगच्छति स्म। सः कोटीशस्य परिचितः एव। सः अपि अतीव त्वरायुक्तः इव दृश्यते स्म। तेन सह किमपि वक्तुं कोटीशः यदा मुखम् उद्घाटितवान् तत्पूर्वमेव गोविन्दः – किं भोः! कान्तेशस्य गृहं भवान् आगच्छति वा? तत्र एतस्मिन् जन्मनि एव दुर्लभस्य विचित्रस्य दर्शनं भवति इति उक्तवान्।

तत् अहं जानामि। तस्य गृहस्य आम्रवृक्षे सीताफलं मिलति। तदेव किल इति कोटीशः पृष्टवान्। अरे! तथा वा? एतत् अन्यत्! तस्य गृहस्य उद्याने एकः सर्पः वसति। सः सर्पः फणाम् उन्नमय्य अतिथिजनान् आशीर्वचनैः अनुगृह्णाति इति श्रूयते। भवान् न जानाति इति मन्ये इति उक्तवान् गोविन्दः। गोविन्दस्य वचनं श्रुत्वा कोटीशस्य आश्चर्यम् अभवत्। एवमेव कोटीशस्य वचनेन गोविन्दः मूकः एव अभवत्। एवं तर्हि कोन्तेशस्य गृहे बहूनि विचित्राणि सन्ति इति कोटीशः गोविन्दः च आलोचितवन्तौ।

अनन्तरं कोटीशः गोविन्दः च मिलित्वा कोन्तेशस्य गृहं प्रस्थितौ। मार्गमध्ये नागराजः इति अन्यः कस्चित् मिलितवान्। सः किम् एतत् श्रुतं वा? कान्तेशस्य गृहे एकः पारिजातवृक्षः अस्ति। सः प्रातः आरभ्य सायंपर्यन्तं निद्रां करोति। रात्रिकाले जागरणं करोति तथा गृहस्य रक्षणं करोति। तस्य पत्राणि स्पर्शेन हसन्ति उत्पाटनेन रोदनं कुर्वन्ति इति वदन्ति इति उक्तवान्। एवं वा! एषः कान्तेशः यः कोऽपि मान्त्रिकः वा ऐन्द्रजालिकः वा स्यात् इति आश्चर्येण कोटीशः उक्तवान्।

त्रयः अपि भाषमाणाः चलन्ति स्म। तदा मार्गे पुनः अन्ये केचन मिलितवन्तः। तेषु एकैकः अपि एकैकं विचित्रम् उक्तवान्। कान्तेशस्य गृहे सम्मार्जनी स्वयमेव मार्जनकार्यं करोति इति एकः। तस्य गृहे एकम् अक्षयपात्रं सततं धनं ददाति इति अन्यः। एवं रीत्या आहत्य दश जनाः कान्तेशस्य गृहं गतवन्तः। तस्मिन् समये कान्तेशस्य गृहस्य द्वारं पिहितम् आसीत्। कोटीशः द्वारशब्दं कृतवान्।

तदा पञ्चदशवर्षीयः कश्चित् बालकः आगतवान्। सः आश्चर्येण भवन्तः सर्वे किमर्थम् आगतवन्तः इति पृष्टवान्। भवतां गृहस्य विचित्राणि द्रष्टुम् आगतवन्तः इति कोटीशः उक्तवान्। एवं वा? भवन्तः प्रमादतः अन्यत् गृहम् आगतवन्तः इति मन्ये। अस्माकं गृहे तु तादृशं विचित्रं किमपि नास्ति इति बालकः उक्तवान्।

स्वयं कान्तेशः एव एतानि अद्भुतानि सन्तीति उक्तवान् आसीत्। तानि द्रष्टुम् एव वयम् आगतवन्तः इति कोटीशः उक्तवान्। मम जनकः किमर्थं तथा उक्तवान् इति अहं न जानामि इति उक्तवा बालकः पुनः गृहस्य अन्तः गतवान्। बालकस्य वचने अविश्वासं प्रकटयन्तः सर्वे स्वयमेव गृहं प्रविष्ट्वन्तः। बालकस्य वचनं यथार्थमेव आसीत्। गृहे यत्किमपि विचित्रं न आसीत्। गृहस्य पृष्टतः कूपः अपि न आसीत्। विविधफलदाता आम्रवृक्षः अपि न आसीत्। एतत् सर्वं ज्ञात्वा तेषां महान् क्रोधः आगतः। ते सर्वे क्रोधेन तपन्तः कान्तेशम् अन्विष्यन्तः तद्गृहतः निर्गतवन्तः। अनन्तरम् एकत्र ते कान्तेशं दृष्टवन्तः।

क्रोधतप्तः कोटीशः – कीदृशः धूर्तः भवान्? अस्माकं समीपे असत्यम् उक्तवान् किल इति पृष्टवान्। आम् इति कान्तेशः निःसङ्कोचम् उक्तवान्। किमर्थं तथा उक्तवान् कोटीशस्य नेत्रद्वयतः अग्निकणाः निस्सरन्ति स्म।

यदा वयं नूतनतया आगत्य एकस्मिन् ग्रामे वसामः तदा तत्र कियन्तः मूढाः मूर्खाः च सन्ति इति एवं रीत्या एव किल वयं ज्ञातुं शक्नुमः इति उक्तवान् कान्तेशः। किम् असत्यवचनेन तत् ज्ञातुं शक्यते वा इति क्रोधाविष्टः गोविन्दः पृष्टवान्। किमर्थं न शक्यते भोः? ये ये मम असत्यवचनानि विश्वसन्ति ते ते मूढाः मूर्खाः च किल इति उक्तवान् कान्तेशः। किञ्चित्कालानन्तरं गोविन्दः शनैः पृष्टवान् असत्यवचनानि के के विश्वसन्ति इति भवान् कथं ज्ञातुं शक्नोति इति।

ये मम असत्यवचनं विश्वसन्ति ते मम गृहं गच्छन्ति। मम पुत्रः तान् पश्यति। एकवारं दृष्टं मुखं सः कदापि न विस्मरति। यदा अहं पृच्छामि तदा सः समीचीनतया मुखवर्णनं करोति। तेन अहं मूर्खान् जानामि इति उक्तवान् कान्तेशः। इदानीं भवान् गृहं गच्छति वा इति कोटीशः पृष्टवान्। न नगरमध्ये किञ्चित् कार्यान्तरम् अस्ति इति उक्तवन् कान्तेशः। अस्तु। वयं गच्छामः इति उक्त्वा ते सर्वे पुनः साक्षात् कान्तेशस्य गृहमेव गतवन्तः। कान्तेशस्य पुत्रम् उक्तवन्तः – भोः! अत्र अस्माकम् आगमनविचारः सम्भाषणविषयः च भवतः जनकस्य समीपे न वक्तव्यः। तदर्थं वयम् सर्वे एकैकं सुवर्णनाणकं दद्मः इति कोटीशः उक्तवान्।

अस्तु इति कान्तेशस्य पुत्रः अङ्गीकृतवान्। तदा कोटीशः सर्वेषां हस्ततः दशनाणकानि सङ्गृह्य कान्तेशस्य पुत्रस्य हस्ते दत्तवान्। अनन्तरं सर्वे निश्चिन्ताः ततः निर्गताः।

कान्तेशः रात्रौ गृहं प्रत्यागतवान्। तदा पुत्रः उक्तवान् – प्रातः आरभ्य सायङ्कालपर्यन्तम् अद्भुतविषयं द्रष्टुम् आगतेभ्यः आहत्य शतं नाणकानि मिलितानि। इदानीं भवान् ऋणादिग्रहणं विना अत्र वाणिज्यं कर्तुं शक्नोति इति। आम् यत्र केवलं मन्दाः मूर्खाः च सन्ति तदपेक्षया यत्र ते मूर्खाः स्वीय अज्ञान्स्य प्रदर्शनं कर्तुं न इच्छन्ति तत्र लाभः अधिकतरः मिलति। अस्मिन् नगरे तादृशाः बहवः जनाः सन्ति इति कान्तेशः उक्तवान्।

कान्तेशः तेन धनेन महिषीः क्रीतवान्। क्षीरवाणिज्यस्य आरम्भं कृतवान्। तस्य वाणिज्यं प्रतिदिनं अभिवर्धते स्म। उत्तमः क्षीरवणिक् इति सः प्रसिद्धः अपि अभवत्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.