विघ्नशतैः बाधितः अपि त्रिविक्रमः स्वीकृतं कार्यं न त्यक्तव्यम् इति निश्चित्य आग्रहवन्तं वेतालां ग्रहीतुं पुनः वृक्षस्य समीपम् आगतवान्। वृक्षस्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य मौनं श्मशानाभिमुखं गतवान्। तदा शवान्तर्गतः वेतालः भोः महाराज! भवान् बहु आग्राहेण कार्यं कुर्वन् एतादृशरात्रौ कष्टम् अनुभवति। एतत् सर्वं भवान् परहितार्थं न करोति किन्तु भवतः अनुकूलार्थम् एव करोति इति चिन्तयामि। किन्तु प्रतिकूलपरिस्थित्यां केचित् स्वप्रतिज्ञां त्यजन्ति। द्विषन्तम् अपि जनं विनयेन आश्रयन्ति। उदाहरणार्थं कनकसुन्दर्याः कथां शृणोतु इति कथाम् आरब्धवान्।
जस्वन्तराज्ये कुलदीपः नाम राजा धर्मेण प्रजाः पालयन् आसीत्। तस्य सचिवः सुकीर्तिः नाम। सः सुकीर्तिः बहु बुद्धिमान्। राजकार्यं सर्वं सुकीर्तेः सूचनानुसारेण एव राजा करोति स्म। सुकीर्तिः विषये राज्ञः विश्वासः आदरः च आसीत्। गच्छति काले कुलदीपः वृद्धः रोगग्रस्तः च अभवत्। अतः सः राजा स्वस्य मरणम् आसन्नं ज्ञात्वा कुमारस्य मणिदीपस्य राज्याभिषेकं कृतवान्। ततः पुत्रस्य समीपे भवान् सचिवस्य सुकीर्तेः वचनानुसारेण एव राज्यं परिपालयतु। सः बहु बुद्धिमान्। राज्यविषये ममापेक्षया तस्य एव अधिकः अनुभवः अस्ति। तेन तिरस्कृतं कार्यां न करणीयम् इति उक्त्वा राजा मृतः।
मणिदीपः पितुः वचनानुसारेण सुकीर्तिम् एव मन्त्रित्वेन स्वीकृतवान्। एकदा प्रतिवेशिराज्यस्य राज्ञः जयपालस्य विषये मणीदीपस्य संशयः समुत्पन्नः। अतः सुकीर्तिसमीपे – सः जयपालः गच्छता कालेन इतोऽपि बलवान् भविष्यति। वयं तूष्णीं भवामः चेत् सः प्रबलः भवति। अतः इदानीमेव युद्धं घोषयामः। अस्मिन् विषये भवतः अभिप्रायः कः इति मणिदीपः पृष्टवान्। सुकीर्तिः किञ्चित् आलोच्य उक्तवान् महाराज! कृपया एतं प्रयत्नं त्यजतु। इदानीं युद्धं मास्तु। मणिदीपः बहु आश्चर्येण पृष्टवान् भवान् किमर्थम् एवं वदति?
भवान् राज्याकाङ्क्षया युद्धं करोति। प्रयत्नः सफलः न भवति चेत् तदा बहु नष्टं भवति। अतः इदानीं युद्धं मास्तु इति उक्तवान् सुकीर्तिः। मणिदीपाय एषा सूचना न अरोचत। किन्तु सः सचिवः अनुभवी धीमान् च तस्य सूचना न तिरस्कारणीया इति पितुः वचनं स्मृत्वा अनिच्छन् अपि युद्धप्रयत्नं सः त्यक्तवान्। ततः कतिपय दिनानन्तरम् एकदा मृगायाविहारार्थम् अरण्यां गन्तुं राजा सिद्धः।
सुकीर्तिः तत् ज्ञात्वा राज्ञः समीपम् आगत्य राजन्! अद्य मृगयाविहारार्थं गमनं नोचितम्। दिनद्वयानन्तरं गच्छतु इति निरोधं कृतवान्। तत् श्रुत्वा राजा बहु निरुत्साहेन आनाहूतः अपि भवान् आगत्य किमर्थां न गन्तव्यम् इति वदति? कारणं वदति चेत् समीचीनम् इति पृष्टवान्। अद्य वृष्ट्याः लक्षणम् अस्ति। अरण्यगमनानन्तरं यदि वृष्टिः आगच्छति तदा तत्र ंमन्डपादिकम् अपि नास्ति। अपि च मृगयाविहारार्थम् एषः वर्षाकालः न अनुकूलाय भवति। गन्तव्यमेव इति मनसि अस्ति चेत् दिनद्वयानन्तरम् गमनम् उचितम्। अद्य बृष्टिः भवेत् चेत् पुनः शीघ्रम् एव वृष्टिः न भविष्यति इति सुकीर्तिः उक्तवान्।
मणिदीपस्य बहु निरुत्साहः जातः। तथापि सुकीर्तेः सूचनानुसारं मृगयाविहारं स्थगितवान्। तद्देनि वृष्टिः न अभवत्। आकाशे तत्र तत्र मेघाः सञ्चरन्ति स्म। मणिदीपः सुकीर्तिम् आहूय भवान् अत्युत्साहेन मृगयाविहारार्थं गच्छन्तं मां निरुद्धवान्। किन्तु वृष्टिः न अभवत् इति उक्तवान्। सुकीर्तिः विहस्य उक्तवान् महाराज! अस्माकं राजधान्यां वृष्टिः न अभवत्। किन्तु अरण्ये महती वृष्टिः अभवत् एव इति मन्ये। अहं मेघस्य वायोः च लक्षणं सर्वं जानामि। मणिदीपः सन्देहनिवारणार्थम् अरण्ये दृश्ट्वा आगन्तुं कांश्चन भटान् प्रेषितवान्। भटाः आगत्य अरण्ये बहु वृष्टिः अभवत् सर्वम् अरण्यं जलमयं जातम्। अपि च इदानीम् अपि वृष्टिः वर्षन्ति एव अस्ति इति उक्तवान्।
मासद्वयम् अतीतम्। एकस्मिन् दिने वृद्धः सुकीर्तिः मणिदीपस्य समीपम् आगत्य महाराज! प्रतिवेशिराज्यस्य राजा जयपालः इदानीं बहु बलशाली अस्ति। अपि च सः युद्धार्थम् आगच्छेत्। अतः इदानीं यः कोऽपि निर्णयः स्वीकरणीयः इति उक्तवान्। एतत् वचनं श्रुत्वा बहुकोपयुक्तः मणिदीपः एवं वा? पूर्वम् अहमेव युद्धार्थं गच्छामि इति यदा उक्तवान् तदा मास्तु इति भवता उक्तम्। इदानीं सः एव आगच्छति इति वदति। इदानीं वयं युद्धं कुर्मः चेत् नष्टं न भवति वा इति पृष्टवान्। सुकीर्तिः शान्तस्वरेण भवतः वचनं सत्यम् एव। जयपालः युद्धं करोति चेदपि नष्टम्। वयमेव गच्छामः चेदपि नष्टं भवति एव इति वाक्यं स्थगितवान्।
तदा मणिदीपः आश्चर्येण सुकीर्तिं तर्हि युद्धं मास्तु। शरणागताः भवामः इति वदति वा भवान्? जयपालस्य वयं माण्डलिकाः भवामः इति भवतः इच्छा वा इति पृष्टवान्। मम अभिप्रायाः एवं न। जयपालस्य सैनिकबलं बहु अस्ति। तादृशराजेन सह युद्धापेक्षया बन्धुतासम्पादानं बहु समीचीनम्। जयपालस्य बुद्धिमती प्राप्तवयस्का च एका पुत्री अस्ति। सा भवतः अनुरूपा इति मम भावना। अतः भवतोः यदि विवाहः भविष्यति तदा बयम् एव उत्कृष्टाः भवामः। जयपालः नाङ्गीकरोति चेत् तदा युद्धम् अनिवार्यम् एव इति सुकीर्तिः सूचितवान्।
जयपालस्य कनकसुन्दरी नाम एका पुत्री अस्ति। सा बहु रूपवती बुद्धिमती च इति वार्ता मणिदीपः अपि श्रुतवान्। तां परिणेतुम् इच्छा अपि तस्य मनसि आसीत्। अतः सुकीर्तेः सूचनां सः अनुमोदितवान्। तत् श्रुत्वा जयपालस्य महान् आनन्दः जातः। सः पुत्र्याः समीपे एतं विचारम् उक्तवा भवत्याः अभिप्रायः कः इति तां पृष्टवान्। कनकसुन्दरी किञ्चित् आलोच्य तात! भवान् जस्वन्तराज्यं प्रति युद्धार्थं सिद्धता कृतवान्। एतादृशसमये विवाहविषयः किमर्थम् इति पृष्टवती।
तरुणः मणिदीपः यदा कदा वा युद्धार्थम् आगच्छति इति मम संशयः आसीत् एव। अतः वयम् एव पूर्वं गच्छामः इति मया निश्चितम्। किन्तु सः मणिदीपः यदि मम जामाता भविष्यति तदा सन्तोषः एव। अपि च सः भवत्याः अनुरूपः। इदानीं कापि वैरभावना नास्ति इति उक्तवान् जयपालः। भवान् युद्धार्थं आगच्छति इति वार्ता श्रुत्वा एव सः विवाहविषये सूचनां प्रेषितवान् स्यात्। अतः किञ्चित् आलोच्यताम्। अस्मिन् विषये किमपि कापट्यं स्यात् इति कनकसुन्दरी उक्तवती।
जयपालः किञ्चित् आलोच्य उक्तवान् तस्य राज्ञः सचिवः सुकीर्तिः बहु बुद्धिमान्। राज्यविषये तत्समानः कोऽपि नास्ति। अतः एषः विवाहविषयोऽपि सुकीर्तेः आलोचनानुसारेण एव प्रस्तुताः इति मन्ये। सुकीर्तिः यथा राजकीयव्यवहारे चतुरः तथैव सज्जनाः अपि। अतः अत्र काऽपि वञ्चना नास्ति इति मम भावना। कनकसुन्दरी सत्यम्। किन्तु राजा मणिदीपः सुकीर्तेः अनुमतिं विना मृगयार्थमपि न गच्छति इति वार्ता श्रुता। विवाहनन्तरमपि एवमेव तस्य सूचनानुसारेण मामपि त्यजेत्। अतः तं सुकीर्तिं देशात् उच्छाटनं करोति चेत् अहं मणिदीपं परिणेष्यामि इति एकां सूचनां भवान् दूतमुखात् प्रेषयतु इति उक्तवती।
जयपालः तथैव कृतवान्। एतेन मणिदीपस्य महान् कोपः उत्पन्नः। दन्तान् निष्पीडयन् जयपालस्य कियान् गर्वः? अहं अद्य एव जयपालस्य उपरि आक्रमणं करोमि। जयपालं पराजित्य कारागारे स्थापयिष्यामि। कनकसुन्दरीं मम दासीं करिष्यामि इति कोपेन उक्तवान् मणिदीपः। सुकीर्तिः शान्तस्वरेण महाराज! मनः शान्तं भवतु। मम पूर्वजाः प्रसेनराज्ये वसन्ति। अतः अहमपि तत्रैव गत्वा जीवनां यापयामि। आज्ञां ददातु इति उक्तवान्। नैव भवन्तं न त्यजामि। भवान् सचिवस्थाने अत्रैव भवतु। अस्मिन् विषये अहं भवतः सूचनां तिरस्करोमि। वस्तुतः पूर्वम् एव मया आक्रमणं करणीयम् आसीत्। भवतः वचनानुसारं तूष्णीं स्थितवान्। इदानीं पश्यतु तेषाम् औद्धत्यम्! प्रायः माम् असमर्थं चिन्तयन्ति ते। अतः अहम् एकवारं मम बाहुबलं प्रदर्शयामि एव।
एतावत्पर्यन्तम् अहं भवतः वचनानि सर्वाणि परिपालितवान्। इदानीं तु एषः मम गौरवस्य प्रश्नः। अतः युद्धविषये अन्यथा मा वदतु इति मणिदीपः उक्तवान्। कतिपयदिनानन्तरं मणिदीपः जयपालेन सह युद्धार्थं गतवान्। किन्तु जयपालः युद्धम् अकृत्वा सन्धिं च कृत्वा स्वस्य पुत्रीं कनकसुन्दरीम् मणिदीपाय दत्वा विवाहं कारितवान्।
वेतालेन एवं कथां समाप्य उक्तम् राजन्! कनकसुन्दर्याः वर्तनम् अनुचितं किल? सा पूर्वं किम् उक्तवती? अनन्तरं किम् अभवत्? सुकीर्तेः देशोच्चाटनं विना अहं न परिणेष्यामि इति पूर्वम् उक्तवती। अनन्तरं सन्धिं कृत्वा परिणीतवती। कनकसुन्दर्याः परिणयस्य कारणम् तु मम कष्टम् आपतितम् इति तस्याः भावना किल स्यात्? अतः सा अङ्गीकृतवती इति मन्ये। एतेषां सन्देहानां उत्तरं भवान् न वदति चेत् भवतः शिरः भग्नं भवति इति।
त्रिविक्रमः उत्तरितवान् – कनकसुन्दर्याः वर्तने किमपि अनुचितं नास्ति। मणिदीपः सुकीर्तेः सूचनां विना किमपि कार्यं कर्तुम् असमर्थः इति कनकसुन्दरी जानाति। सर्वदा सुकीर्तेः सूचनानुसारेण एव सर्वं करोति चेत् तादृशः राजा अस्वतन्त्रः भवति। कालक्रमेण तादृशस्य राज्ञः आलोचनाशक्तिः एव अपगच्छति। सः पराधीनः अपि भवेत्। मणिदीपे स्वतन्त्ररूपेण आलोचाना शक्तिः अस्ति वा न वा इति परीक्षितुम् एव कनकसुन्दरी सचिवस्य देशोच्चाटनादण्डनं ददातु इति उक्तवती। अस्मिन् विषये मणिदीपः स्वयमेव आलोचनां कृत्वा सचिवं न त्यक्तवान्। अनया परीक्षया मणिदीपस्य स्वयम् आलोचनाशक्तिः अस्ति अपि च स्वस्मै न रोचते चेत् सूचनां तिरस्करोति इत्यपि ज्ञातम्।
अस्याः परीक्षायाः कनकसुन्दर्याः निर्भयता एव कारणम्। तस्याः परीक्षायां मणिदीपः विजितवान्। अतः एव सन्धिं कृत्वा मणिदीपम् एव परिणीतवती। एवम् उक्त्वा त्रिविक्रमः मौनम् आश्रितवान्। तदा वेतालः झटिति शवसहितः अदृश्यः भूत्वा शाखाम् अवलम्बितवान्।