Sanskrit Learners Club

Where we Learn from Each Other

Eligibility

Source - Sanskrit Chandamama |

| September |

| 1984

Mohan and Sudas came from city to a Gurukul to get admission. The Guru arranged for their stay and instructed to stay some days there until suitable subject can be taught in due course. One day both went to forest to collect firewood as part of their Gurukul duties. Mohan saw a bag full of gold coins and changed his mind to stay in Gurukul. He suggested to Mohan let us go back to city and live happily with these gold. But Mohan did not agree. Sudas chosen his way back to home and on the way he was bit by a snake. What happened further and how the Guru tested the eligibility to admission into his Gurukul is the story.

अर्हता

पूर्वं कोसलदेशस्य राजधान्याः समीपे एकम् अरण्यम् आसीत्। तत्र विमलानन्दनामकः मुनिः निवसति स्म। सः पाठप्रवचनादिना लोकोपकारं करोति स्म। तस्मिन् गुरुकुले इन्द्रजालपण्डिताः मीमांसकाः वैयाकरणाः च आसन्। कोसलदेशस्य राजा एव गुरुकुलस्य कृते आर्थिकसाहाय्यं करोति स्म। अध्यापकानां कृते वेतनादिक यथाकाले महाराजः एव ददाति स्म। एकदा तस्मिन् गुरुकुले अभ्यासं कर्तुं नगरतः उभौ विद्यार्थिनौ आगतवन्तौ। एकः सुदासः। अपरः मोहनः। तौ विमलानन्दस्वामिनं दृष्ट्वा स्वकीयम् उद्देशं निवेद्य आश्रमे अवकाशं प्रार्थितवन्तौ।

तयोः निवासार्थं व्यवस्थां कृत्वा विमलानन्दः उक्तवान् किञ्चित्कालम् अत्र एव निवासः भवतु। भवतोः विद्यार्हतां विचार्य अनन्तरं यत्किमपि शास्त्रं पाठनीयम्। तदर्थम् अल्पः कालः अपेक्षितः। तावत्पर्यन्तं गुरुकुलस्य नियमान् अनुसृत्य अत्रैव स्थीयताम् इति। अस्तु इति तौ अङ्गीकृतवन्तौ। एकः सप्ताहः अतीतः। एकस्मिन् दिने काष्ठानाम् आनयनकार्यं तयोः उपरि आपतितम्। सुदासः तथा मोहनः च परशुं गृहीत्वा अरण्ये शुष्कवृक्षम् अन्विश्य अटितवन्तौ। बहुदूरगमनानन्तरम् एकः वृक्षः दृष्टः।

उभौ अपि मिलित्वा तस्य वृक्षस्य छेदनं कृतवन्तौ। अनन्तरं भोजनं कृत्वा किञ्चित्कालं विश्रान्तिम् अनुभूतवन्तौ। पुनः पतितं वृक्षे खण्डयितुम् आरब्धवन्तौ। तस्य वृक्षस्य काण्डस्य मध्ये कोटरे सुवर्णनाण्यकानाम् एकः स्यूतः आसीत्। तावत् धनं दृष्ट्वा मोहनस्य नेत्रेद्वयम् अपि कान्त्या प्रज्वलितम्। सः किञ्चित् विचार्य सुदासं प्रति सुदास! अद्य अस्माकं दारिद्रयम् दूरं गतम्। एतानि नाण्यकानि विभज्य उभौ अपि स्वीकुर्वः। एतेन धनेन सुन्दरं गृहम् विशालां भूमिं च क्रीत्वा बहुकालं सुखेन जीवितुं शक्यते। अस्मिन् अरण्ये महता कष्टेन विद्यार्जनं किमर्थं करणीयम्? विद्यया अपि धनार्जनम् एव किल अस्माकं उद्देशः? अतः एव एतत् धनं स्वीकृत्य ग्रामान्तरं गत्वा सुखेन जीवनं कुर्वः। गुरुकुलं प्रति गमनम् एव मास्तु इति उक्तवान्।

सुदासः तस्य वचनं न अङ्गीकृतवान्। अहं विद्यार्जनं कर्तुं गुरुकुलम् आगतवान्। केवलं धनार्जनं विद्यायाः उद्देशः न। धनं सम्पादयितुम् अन्ये अपि मार्गाः सन्ति। विद्याविहीनाः अपि धनं सम्पादयन्ति। धनेन विद्याम् अर्जयितुं न शक्यते। किन्तु विद्यया धनं यशः च लभ्यते। विद्यया धनार्जनम् एव उचितम्। धनं कालान्तरे अस्मान् त्यजति न तु विद्या। अतः एव ज्ञानिनः वदन्ति विद्याधनं सर्वधनप्रधानम् इति। इदानीं वयं गुरुकुलनियमानुसारं सर्वं धनं गुरूणां सन्निधाने समर्पयामः। आश्रमनियमाः अनुसरणीयाः खलु? अन्यथा गुरूणाम् कोपपात्रं भवावः। अतः एव गुरूणां सन्निधाने सर्वं निवेदयावः। एतदेव साधु इति मम अभिप्रायः इति सुदासः उक्तवान्।

मोहनः सुदासस्य वचनं न अङ्गीकृतवान्। सः सर्वाणि सुवर्णनाण्यकानि गणयित्वा अर्धभागं कृत्वा सुदासस्य समीपे दत्वा स्वकीयं भागं कोषे स्थापितवान्। अनन्तरं सुदास अहं गृहं गच्छामि। भवान् गुरुकुलं गत्वा स्वेच्छया विद्यार्जनं करोतु। अहम् उपरोधं न करोमि। किन्तु मम कार्यं दुष्टम् इति अहं न चिन्तयामि इति उक्त्वा सः एकः एव गृहमार्गम् अनुसृत्य गतवान्। मार्गे एकां नदीं तर्तुं सः प्रवृत्तः। किन्तु सः यदा पादं निक्षिप्तवान् तदा केनापि जन्तुना दष्टः। तत्क्षणम् एव पादे महती वेदना आरब्धा। क्षणे क्षणे अपि वेदना वर्धते स्म।

भीतः मोहनाः पादम् उपरि उद्धृत्य दृष्टवान्। पादं परितः एकः सर्पः वलयः इव आक्रान्तः आसीत्। अस्य पादाघातेन दूरे पतितः सः कस्मिंश्चित् गह्वरे प्रविष्टः। भीतः मोहनः तीरम् आगत्य पादं दृष्टवान्। तत्र सर्पस्य दन्तचिह्नम् आसीत्। तत् दृष्ट्वा सः प्राणभीत्या हन्त! हन्त! अहं सर्पेण दष्टः! साहाय्यं कुर्वन्तु इति आक्रान्दनं कृत्वा मार्गे धावितुम् आरब्धवान्।

मोहनः किञ्चिद्दूरं धावितवान्। मार्गे एकः अटविकः मिलितः। तस्य समीपं गत्वा मोहनः भोः! अहं सर्पेण दष्टः अस्मि। यत्किमपि औषधम् अस्ति चेत् दत्वा उपकरोतु इति दीनस्वरेण प्रार्थितवान्। तदा अटविकः उक्तवान् एवं वा? मम समीपे औषधम् अस्ति। सर्पविषनिवारणाम् एव अस्माकं कुलकार्यम्। प्रथमं भवान् कोषे विद्यमानानि तानि सुवर्णनाण्यकानि मम कृते ददातु। अनन्तराम् एव अहम् औषधं ददामि। नो चेत् न शक्यते इति।

मम कोषे धनम् अस्ति इति एषः कथं ज्ञातवान् इति मोहनः आश्चर्यचकितः अभवत्। किन्तु चिन्तयितुम् अवकाशः न आसीत्। तस्य प्राणाः गच्छन्ति इव। अतः सः प्राणरक्षणं प्रधानम् इति मत्वा सर्वं धनं दत्वा यत्किमपि स्वीकरोतु मम प्राणान् रक्षतु इति उक्तवान्। सः अटविकः अरण्ये कुत्रचित् गत्वा कानिचन पत्राणि आनीय तैः रसं सङ्गृह्य पादस्य उपरि लेपनं कृतवान्। तम् एव रसं किञ्चित् मुखे नासिकायाम् अपि स्थापितावान्। कमपि मन्त्रं कर्णे पठितवान्।

अनन्तरं मोहनस्य शरीरे सर्पदंशनजातानि यानि चिह्नानि आसन् तानि सर्वाणि अपगतानि। अटविकः पुनः अरण्यं गतवान्। लब्धं सर्वं धनं विनष्टम् इति मोहनः बहु दुःखम् अनुभूतवान्। सः किञ्चित् कालपर्यन्तं तत्रैव उपविश्य चिन्तितवान्। अहम् इदानीं पुनः प्राथमिकीं स्थितिं प्राप्तवान्। अतः पुनः गुरुकुलं गत्वा विद्याभ्यासं करोमे इति निश्चित्य कानिचन काष्ठानि सङ्गृह्य गुरुकुलं गत्वा गुरोः अग्रे स्थितवान्।

मोहनं दृष्ट्वा विमलानन्दमुनिः एवम् उक्तवान् वत्स मोहन! भवतोः परीक्षा कृता। तस्यां परीक्षायां सुदासः उत्तीर्णः। सः विद्याम् अभ्यसितुं समर्थः इति निश्चितम्। अतः सः अत्र एव तिष्ठति। भवान् विद्याभ्यासं कर्तुं योग्यः न इति सिद्धम् अभवत्। भवान् परीक्षायां अनुत्तीर्णाः। अतः वृथा परिश्रमः मास्तु। गृहे सुखेन तिष्ठतु भवान् इति। गुरोः वचनं श्रुत्वा खिन्नमनस्कः मोहानः मया एव अपराधः कृतः इति मत्वा प्रतिनिवृत्तः।

मार्गे सः अटविकः तेन दृष्टः। सः वृक्षस्य अधः गुरुकुलस्य समीपे एव आसीत्। अटाविकः अत्र किं कार्यं करोति इति एकं विद्यार्थिनं पृष्टवान् मोहनः। तदा विद्यार्थी उक्तवान् सः न अटविकः। अस्मिन् गुरुकुले सः ऐद्रजालपाठकः। अद्य भवतः परीक्षां कर्तुं तं वेषं धृतवान् इति।

विद्यार्थिनः वचनं श्रुत्वा मोहनः स्वकीयं पादं पुनः दृष्टवान्। तत्र सर्पदंशनचिह्नमपि न आसीत्। आचार्यस्य ऐद्रजालेन सर्पदंशनभ्रमः मयि उत्पादितः स्यात् इति मोहनः चिन्तितवान्। विमलानन्दमुनेः परीक्षारीतिं ज्ञात्वा मोहनः मनसि महान्तं पश्चात्तापम् अनुभूतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.