एकः ग्रामः। तत्र वीरभद्रः नाम गृहस्थः आसीत्। सर्वदा सः पत्न्या सह स्पर्धा करोति स्म। एकस्मिन् दिने सः पत्नीम् उक्तवान् भोः! अहं बहिः गच्छन् अस्मि। यावत् वा कष्टं भवतु प्रातः कालात् पूर्वं गृहम् आगच्छामि एव इति।
परन्तु रात्रौ सञ्चारं कर्तुं तस्य धैर्यं नास्ति इति पत्नी जानाति। सा उक्तवती किमर्थां व्यर्थं जल्पति? अहं जानामि यत् रात्रौ भवान् न आगच्छति इति।
भवती मां किं जानाति? सर्वदा मम कथनस्य विरुद्धम् एव कथयति भवती। पश्यतु प्रातःकालात् पूर्वम् अहं गृहम् आगच्छामि एव इति उक्तवान् वीरभद्रः।
इदानीं किमर्थं विवादः? समये आगच्छतु पश्यामः इति उक्त्वा हसितवती तस्य पत्नी। पतिपत्न्योः मध्ये एवम् वादविवादः सर्वदा प्रचलति स्म। विवादे सर्वदा पत्न्याः एव विजयः भवति स्म। अतः वीरभद्रस्य महान् कोपः। अस्यां स्पर्धायां तु मया एव जयः प्राप्तव्यः इति वीरभद्रः निश्चयं कृतवान्।
सः ग्रामतः प्रस्थितः। तदा एव तस्य एकः स्नेहितः तेन एव मार्गेण आगतवान्। वीरभद्रः तं पृष्टवान् जगन्नाथः किल? कुतः आगच्छति? का वार्ता इति। आम् अहं जगन्नाथः एव! भवान् कुत्र गच्छति? सः पृष्टवान्। महोपाध्यायस्य गृहं गच्छामि इति वीरभद्रः उक्तवान्।
एवं वा? अहं तस्य गृहतः एव आगच्छन् अस्मि। महोपाध्यायः इदमिदानीं कार्यार्थं राजधानीं गतवान्। एतं विषयं सूचयितुम् एव अहम् आगतवान् इति जगन्नाथः उक्तवान्।
एवं वा? तर्हि समीचीनम् इत्युक्त्वा वीरभद्रः ततः स्वमित्रस्य गोविन्दस्य गृहं गतवान्। गोविन्दम् एतं विषयं निवेदितवान्। तर्हि पुनः यदा कदापि महोपाध्यायं पश्यतु। अद्य तु गृहं गच्छतु – गोविन्दः उक्तवान्।
तथा न शक्यते। मया पत्न्या सह स्पर्धा कृता अस्ति। अद्य तु मया एव विजेतव्यम्। अतः इदानीं भवतः गृहे एव तिष्ठामि। श्वः प्रातः गृहं गमिष्यामि इति उक्तवान् वीरभद्रः। गोविन्दः उक्तवान् तथैव अस्तु। अनन्तरं तौ पत्रक्रीडां क्रीडितुम् आरब्धवन्तौ। अन्ये स्नेहिताः अपि आगतवन्तः। सर्वे मिलित्वा अर्धरात्रपर्यन्तं पत्रक्रीडां क्रीडितवन्तः। क्रीडितवन्तः एव गाढं निद्रितवन्तः।
यदा ते निद्रातः उत्थितवन्तः तदा मध्याह्नसमयः आसीत्। गोविन्दः वीरभद्रम् उक्तवान् भोः मित्र! इदानीम् अपि स्पर्धायां भवतः पत्न्याः एव जयः भवति यतः भवान् मध्याह्ने एव गृहं गच्छति न तु रात्रौ इति।
न अहं रात्रौ एव गृहं गच्छामि वीरभद्रः निश्चयेन उक्तवान्। सः रात्रिपर्यन्तं तत्रैव स्थित्वा रत्रौ गृहं प्राप्तवान्। तं दृष्ट्वा पत्नी उक्तवती अन्ततो गत्वा अहां यथा उक्तवती तथैव अभवत् इति।
कथं तथा भवति? अहं तु रात्रौ एव गृहम् आगतवान्। न तु दिवा। ह्यः न आगतवान् चेदपि अद्य वा रात्रौ एव आगतवान् किल? अतः स्पर्धायां मम एव जयः वीरभद्रः उक्तवान्।
अस्तु तथैव अस्तु। तदर्थं मया किम् करणियम्? पत्नी पृष्टवती। वीरभद्रः उक्तवान् किमपि नास्ति अहम् एव पराजिता इति अङ्गीकरोतु।
भवतः सन्तोषः एव मम सन्तोषः। अतः अवश्यम् भवतः सन्तोषार्थम् पराजिता भवितुम् अहं सर्वदा सिद्धा एव इत्युक्त्वा हसितवती तस्य पत्नी।