यरवान् इति नगरम् अब्दुल्नयाजनामकः नवाबः परिपालयति स्म। तस्य केवलम् एका एव पुत्री। अतः नवाबः तां सकलविद्यासु परिणतां कारितवान्। बाल्यतः एव युद्धविद्यायाम् अपि सा शिक्षणं प्राप्तवती। यदा प्रौढा जाता तदा सा पुरुषाणाम् अपेक्षया शूरतमा कन्या अभवत्। इदानीं नवाबः पुत्र्याः विवाहप्रयत्ने उद्युक्तः। तं विषयं ज्ञात्वा तस्य पुत्री तात! यं कञ्चित् राजकुमारम् आनीय तेन सह मम विवाहं भवान् करोति इति प्रतिभाति। तथा मास्तु। मम सदृशं युद्धादिविद्यानिपुणं तरुणम् एव अहम् इच्छामि। तावदेव न यः माम् अपि अतिरिच्य वर्तते तादृशः एव मम अनुरूपः इति भावयामि इति उक्तवती।
तत् तु युक्तम् एव। किन्तु तादृशस्य अन्वेषणम् कथं करणीयम्? यथाकथञ्चित् एकः शूरतमः मिलेत्। किन्तु वयसा रूपेण च भवत्याः अनुरूपः खलु अपेक्षितः इति नवाबः आश्चर्येण पृष्टवान्। तदा नवाबपुत्री तत् तु बहु अल्पं कार्यम्। अश्वारोहणं खड्गयुद्धम् इत्यादिवीरविद्यासु मया सह तेषां स्पर्धा भविष्यति। तदा अहं तेषां योग्यतां ज्ञातुं शक्नोमि। यः मां पराजितां करोति तेन सह मम विवाहः भविष्यति इति उक्तवती।
नवाबः क्षणद्वयं आलोच्य एतदर्थं सर्वत्र उद्घोषणं कारयितुं शक्यते। तत्र क्लेशः नास्ति। किन्तु स्वीयभाग्यपरीक्षां कर्तुम् अनर्हाः अपि यदि स्पर्धार्थम् आगच्छन्ति तर्हि का गतिः इति पृष्टवान्। तदपि मया चिन्तितम्। सपर्धायां पराजितस्य अश्वः आयुधानि च मम वशीभूतानि भवन्ति। तावदेव न पराजितस्य पृष्ठस्य उपरि तप्तलोहेन मम नामधेयं लेखयामि। एषः स्पर्धानियमः इति नवाबपुत्री धैर्येण उक्तवती।
नवाबः पुत्र्याः अभिप्रायाम् अङ्गीकृत्य तस्याः वचनानुसारेण उद्घोषणं कारितवान्। एकः सप्ताहः अतीतः। अनन्तरम् अनेके राजपुत्राः यरवान् नगरम् आगतवन्तः। नवाबपुत्र्या सह स्पर्धाः प्रचलिताः। अश्वारोहणं बाणप्रयोगः खड्गयुद्धम् इत्यादिषु ते सर्वे सम्पूर्णतया पराजिताः। स्पर्धानियमम् अनुसृत्य तेषां पृष्ठानाम् उपरि तप्तलोहेन नावाबपुत्र्याः नामधेयं लेखितम्।
एकदा पर्षियाराजकुमारः नवाबस्य दर्शनार्थं यरवान् नगरम् आगतवान्। नवाबः आदरपूर्वकं तं सत्कृत्य भवान् विशालराज्यस्य उत्तराधिकारी अस्ति। मम पुत्र्याः नियमान् जानाति खलु? स्पर्धायां भवतः पराभवम् अहम् न इच्छामि। एते नियमाः यदि न स्युः भवता सह मम पुत्र्याः विवाहं कुर्याम् एव। इदानीम् अहं भवन्तं केवलम् अतिथिरूपेण पश्यामि इति दुःखभावेन उक्तवान्।
एतावद् दूरम् आगत्य भवतः पुत्र्या सह युद्धादिस्पर्धासु भागम् अगृहीत्वा तथैव प्रतिगच्छामि चेत् तेन मम इतोऽपि अधिकः पराभवः भवेत्। अतः स्पर्धा भवतु इति उक्तवान् पर्षियाराजकुमारः। तदा अनिच्छन् अपि नवाबः स्पर्धाम् आयोजितवान्। नवाबपुत्री पर्षियाराजकुमारः च अश्वम् आरुह्य खड्गयुद्धं कर्तुम् उद्युक्तौ। अल्पे एव काले पर्षियाराजकुमारः वहुप्रवीणः चतुरतमः च इति नवाबपुत्री ज्ञातवती। सः नवाबपुत्र्याः खड्गम् अपहर्तुम् अश्वस्य पृष्ठतः तां पातयितुम् अपि समर्थः आसीत्। तथापि नवाबपुत्र्याः विषये आदरभावेन सः तथा न कृतवान्। एतं विषयम् अपि सा ज्ञातवती।
एवं सत्यपि तावतां प्रेक्षकाणां पुरतः पराजयम् अङ्गीकर्तुम् तस्याः इच्छा न अभवत्। सा अतीव अभिमानिनी आसीत्। तदा सा किञ्चित् विचार्य एकम् उपायं कृतवती। सहसा सा स्वीयं मुखवस्त्रम् अपसार्य राजकुमारं दृष्ट्वा किञ्चित् इव हसितवती। तदा विद्युत् इव स्फुरितम् तस्याः अद्भुतसौन्दर्यं दृष्ट्वा पर्षियाराजकुमारः क्षणकालपर्यन्तं मन्त्रमुग्धः इव अभवत्। एवं रीत्या यदा सः किञ्चित् अजागरूकः जातः तदा नवाबपुत्री तस्य उपरि आक्रामणां कृतवती। तेन राजकुमारस्य खड्गः तस्य हस्ततः च्युतः। तथा सः अपि अश्वात् अधः पतितवान्।
भुमौ पतितः राजकुमारः अवमानेन क्रोधेन च पुनः उत्थितवान्। किन्तु तत्क्षणमेव चत्वारः सेवकाः आगत्य तां वद्ध्वा तस्य पृष्ठस्य उपरि नवाबपुत्र्याः नामधेयं तप्तलोहेन लेखितवन्तः। तदा महता क्रोधेन तप्तः राजकुमारः एतस्य अवमानस्य युक्तः प्रतीकारः करणीयः इति मनसि चिन्तयन् किमपि अनुक्त्वा ततः निर्गतवान्।
एकः मासः अतीतः। नवाबपुत्री एकदा नगरस्य उद्यानवने सखीभिः सह विहरन्ती आसीत्। तदा एकत्र एकः वृद्धः उपविष्टः दृष्टः। तस्य पुरतः एकं वस्त्रां प्रसारितम् आसीत्। तस्य उपरि बहुमूल्यानि रत्नानि सुवर्णाभरणानि च स्थापितानि आसन्। नवाबपुत्री आश्चर्येण तस्य समीपं गत्वा बहु मनोहराणि सन्ति। किं विक्रयणार्थम् आनीतवान् वा इति पृष्टवती। न विक्रयणार्थम्। किन्तु विवाहार्थम्। या मां परिणेष्यति सा एतत्सर्वम् बहुमानरूपेण प्राप्नोति इति सः वृद्धः उक्तवान्।
तस्य प्रत्युत्तरं श्रुत्वा नवाबपुत्री तस्याः सख्यः च उच्चैः हसन्त्यः अस्मिन् वार्धक्ये कीदृशम् इदम् विवाहचापल्यम् इति उक्तवत्यः। अस्तु इदं मम चापल्यम् इत्येव चिन्तयन्तु। या मां परिणेष्यति सा सर्वदा मम पत्नी भवतु इति नियमः नास्ति। तस्य वृक्षस्य अधः एकः अश्वः अस्ति किल? तस्य उपरि मया सह सा निमेषमात्रम् उपविशति चेत् आवयोः विवाहस्य विच्छेदनं भविष्यति। अनन्तरम् अत्र स्थापितानि सर्वाणि आभरणानि सा प्राप्नोति इति उक्तवान् सः वृद्धः।
तस्य वचनं श्रुत्वा नवाबपुत्री सखीः दृष्ट्वा भवतीषु याकापि एतं मिथ्याभूतं विनोदविवाहम् इच्छति वा इति पृष्टवती। आम् वयं सर्वाः अपि इच्छामः इति ताः उक्तवत्यः। क्षणमात्रे तावद्धनं मिलति इति ताः सर्वाः आशाग्रस्ताः जाताः। नवाबपुत्र्याः आदेशानुसारम् एका सखी पुरतः आगतवती। तत्रैव किञ्चिद्दूरे एकः वृद्धः खाजी उपविष्टः आसीत्। प्रथमः वृद्धः करताडनं कृत्वा तम् आहूतावान्। सः खाजी वृद्धेन सह सख्याः विवाहं कारितवान्। अनन्तरं वृद्धः सखीम् अश्वस्य उपरि उपवेश्य स्वयमपि तया सह उपविष्टवान्। ततः वृक्षं परितः द्विवारं सञ्चार्य सः अश्वतः अवतीर्णः। तत्क्षणं खाजी आगत्य मन्त्रपठनं कृत्वा विवाहविच्छेदः जातः इति उक्तवान्। सा तत्र स्थापितानि रत्नाभरणानि गृहीत्वा प्रत्यागतवती।
एवं रीत्या चतुर्दिनपर्यन्तं सः एव वृद्धः तेनैव क्रमेण तत्र उद्याने आगत्य नवाबपुत्र्याः एकैकां सखीं परिणीय उत्तरक्षणे एव विवाहविच्छेदनं कारयति स्म। सर्वाः अपि सख्यः यथेष्टम् आभरणानि लब्धवत्यः। पञ्चमदिने नवाबपुत्री उद्देशपूर्वकम् एकाकिनी एव उद्यानम् आगतवती। तदा सः वृद्धः पुरतः वस्त्रं प्रसार्य तस्य उपरि स्थापितानि आभरणानि पश्यन् आसीत्। राजकुमारी यथा श्रुणुयात् तथा स्वागतभाषणम् इव वदति स्म – अद्य या भाग्यवती मम पत्नी भवति इति न अहं जानामि। अद्य तु अत्र स्थापितानाम् आभरणानां मूल्यं लक्षदीनाराः। एतादृशभाग्यवती का स्यात् पश्यामः इति।
तस्य वचनं सत्यम् एव आसीत्। अद्य आभरणानि नक्षत्राणि इव प्रकाशन्ते स्म। नवाबपुत्री तानि दृष्ट्वा अतीव उत्सुका जाता। सा वृद्धस्य पुरतः आगत्य अद्य अहं विवाहार्थं सिद्धा अस्मि इति उक्तवती। खाजी तयोः विवाहं कारयित्वा किञ्चिद्दूरं गतवान्। वृद्धः नवाबपुत्र्या सह अश्वम् आरुह्य वृक्षं परितः एकवारं सञ्चार्य अश्वस्य पृष्ठं ताडितवान्। उत्तरक्षणे अश्वेन वेगेन धावितुम् आरब्धम्। नवाबपुत्री काञ्चित् विपत्तिं ऊहयित्वा आक्रोशं कर्तुं मुखम् उद्घाटितवती। तत्क्षाणमेव वृद्धः तस्याः मुखे स्वीयहस्तेन पीडितवान्। तदा भयात् राजकुमारी मूर्च्छां प्राप्तवती।
किञ्चित्कालनन्तरं सा जागरिता। वृद्धः तां पश्यन् अहं भवत्याः विधिपूर्वकं स्वीकृतः पतिः अस्मि इति उक्तवान्। तत् तु सत्यम्। किन्तु विवाहविच्छेदनकारयिता खाजी कुत्र गतवान् इति पृष्ट्वा राजपुत्री भयेन परितः दृष्टवती। वृद्धः उच्चैः हसन् श्वेतानि श्मश्रूणि मस्तकस्य उष्णिषं च निष्कास्य दूरे क्षिप्तवान्। तदा सः पूर्वं अनादृतः पर्षियाराजकुमारः एव इति नवाबपुत्री ज्ञातवती। तस्मिन् दिने भवती मां वञ्चितवती। तादृशीं भवतीम् अहम् अपि वञ्चनया एव परिणेष्यामि इति प्रितिज्ञां कृतवान्। सा प्रतिज्ञा इदानीं साधिता। अत्रदोषाः नास्ति खलु इति राजकुमारः पृष्टवान्।
नवाबपुत्री लज्जया मुखं परिवृत्य स्थितवती। अनेन विवाहेन सा अपि सन्तुष्टा एव अस्ति इति ज्ञात्वा राजकुमारः सन्तोषेण हसन् भवत्याः नामधेयं मम पृष्ठस्य उपरि अक्षयरूपेना भवत्या लेखितम् अस्ति। तत् नामधेयं द्रष्टुम् अहं न शक्नोमि। किन्तु भवत्याः नामधेयं रूपं च मम मनसि ततोऽपि दृढतया तत्पूर्वमेव भवती स्थापितवती इति उक्तवान्।
नवबपुत्री पूर्वापेक्षया अधिकं लज्जिता। मन्दं हसन्ती सा नतमस्तका भूत्वा भूमिं पश्यन्ती स्थितवती। अनन्तरं तौ द्वौ अपि पर्षियादेशं गत्वा एतां वार्तां पत्रे विलिख्य दूतद्वारा यरवान्नगरं प्रेषितवन्तौ। स्वीयपुत्री अनुरूपं पतिं प्राप्तवती। तयोः विवाहः विचित्ररूपेण जातः इति सर्वं वृत्तान्तं ज्ञात्वा यरवान्नवाबः अतीव सन्तुष्टः। अत्युत्साहेन सः स्वयम् एव पुनः राजभवने तयोः विवाहं सवैभवं कारितवान्?