Sanskrit Learners Club

Where we Learn from Each Other

As the King so are Citizens

Source - Sanskrit Chandamama |

| October |

| 1984

King Veerabadra of Jayanagar felt the undisciplined and immoral nature of his citizens. But in his neighboring country that was not the case. He wanted to examine by himself the reasons and visited the neighboring country. He came back to his country and asked his ministers what steps are to be taken to rectify situations. The minister suggested to sent elected representatives to visit and give report. What they told and how the king realized his mistakes is the story.

यथा राजा तथा प्रजाः

जयनगरराज्यस्य राजा वीरभद्रः। कदाचित् तस्य राज्ये अव्यवस्था व्याप्ता। प्रजाः निर्भयं राज्ञः तथा राज्यनियमानां विषये अनादरं प्रदर्शयितुम् आरब्धवन्तः। राजा वीरभद्रः राज्ये सुव्यवस्थां स्थापयितुं बहुधा प्रयत्नं कृतवान्। अव्यवस्थायाः कारणं किं स्यात् इति ज्ञातुम् अपि प्रयत्नं कृतवान्। किन्तु राजा असफलः एव।

पार्श्वराज्ये प्रतापनगरे समीचीना राज्यव्यवस्था प्रचलति स्म। तस्मिन् राज्ये जनाः अपि सुखिनः आसन्। राज्ञः शासननियमानां च विषये प्रजानां मनस्सु सुतराम् आदरभावः आसीत्। अतः वीरभद्रराजः चिन्तितवान् अहं स्वयं प्रतापनगरराज्यं गमिष्यामि। तत्रत्यां सुव्यवस्थां परिशीलयिष्यामि इति।

प्रतापनगरस्य राजा धीरसेनः वीरभद्रं हृत्पूर्वकं स्वागतीकृतवान्। वीरभद्रस्य आगमनकारनं ज्ञात्वा ताद्विषये स्वकीयम् अभिप्रायम् उक्तवान् सर्वस्य अपि राज्यस्य उन्नतिः व्यवस्था च प्रजाः आधारीकृत्य तिष्ठति। यदि मम राज्ये सुखं सुव्यवस्था च अस्ति तत्र कारणं प्रजाः एव इति। एतत् श्रुत्वा वीरभद्रः चिन्तितवान् मम राज्ये या अव्यवस्था दृश्यते तत्र कारणम् अहं न अपि तु मम प्रजाः एव इति।

धीरसेनः स्वप्रजानां स्तुतिं कृतवान् किल? अतः ते जनाः द्रष्टव्याः इति वीरभद्रस्य आशा जाता। सः धीरसेनं स्वविचारम् निवेदितवान्। धीरसेनः उक्तवान् आवां द्वौ अपि गुप्तरूपेण राज्ये सञ्चारं कुर्वः। सर्वम् अपि परिशीलयावः इति। परेद्युः उभौ अपि वेषान्तरं धृत्वा राज्य परिशीलनार्थं प्रस्थितौ। सर्वत्र तौ भ्रमणं कृतवन्तौ। सर्वत्र धीरसेनस्य आदरपूर्वकम् स्वागतं लब्धम्। राज्ञि छाद्मवेषे स्थितेऽपि सर्वे धीरसेनस्य परिचयं गृहीतवन्तः एव। सर्वेऽपि स्वराजस्य विषये अनन्यां श्रद्धां प्रदर्शयन्ति स्म। एतत् दृष्ट्वा वीरभद्रस्य अत्याश्चर्यम्। वीरभद्रः एकत्र एतस्य कारणं पृष्टवान्।

महाराजस्य विषये अस्माकं महती श्रद्धा अस्ति। अतः येन केनापि वेषेण स्थितस्य महाराजस्य परिचयं ग्रहीतुं शक्नुमः बयम् इति उक्तवान् सः पुरुषः। सञ्चारसमये राजा धीरसेनः अपेक्षितानि बहूनि वस्तूनि क्रीतवान्। किन्तु कोऽपि वणिक् वस्तूनां मूल्यं न स्वीकृतवान्। वणिजः उक्तवन्तः एतानि वस्तूनि वयम् उपायनरूपेण यच्छन्तः स्मः। राजप्रजयोः मध्ये क्रयविक्रयणं न भवेत् इति। सञ्चारतः प्रतिनिवृत्तः वीरभद्रः धीरसेनम् उक्तवान् भवतः राज्यस्य जनाः वस्तुतः महान्तः। भवतः प्रजाभ्यः मम प्रजाः नीतिशिक्षणं प्राप्नुयुः। एतदनन्तरं वीरभद्रः स्वराज्यं प्रतिनिवृत्तः।

एकमासानन्तरं वीरभद्रः वेषान्तरं धृत्वा स्वाराज्ये भ्रमणं कर्तुं निर्गतः। किन्तु राज्ये जनाः कुत्रापि स्वमहाराजस्य परिचयं न गृहीतवन्तः। एकत्र राजा कस्यचित् वणिजः समीपे वस्तुनः मूल्यं पृष्टवान्। वणिजा उक्तं मूल्यम् अत्यधिकम् इति महाराजस्य मनसि भावना आगता। अतः सः वणिजं पृष्टवान् महाराजः एव स्वयम् आगत्य एतत् वस्तु भवतः समीपात् क्रीणाति चेदपि भवान् एतावदेव मूल्यं वदति वा? राजा एव स्वयम् आगतः चेत् एतत् मूल्यं किम् इतोऽपि द्विगुणीकृत्य वदामि। यतः सः धनवान् किल इति उक्तवान् वणिक्। कथनसमये आत्मनः पुरतः कः अस्ति इत्यपि सः न गणीतवान्।

प्रजानाम् एतादृशं व्यवहारं दृष्ट्वा महाराजः बहु खिन्नः। सः राजभवनं प्रत्यागत्य सर्वान् मन्त्रिणः आहूतवान्। तेषां समीपे प्रजानां व्यवहारं विवृण्वन् उक्तवान् मम दौर्भाग्यं यत् अहम् एतादृशानां प्रजानां राजा अस्मि। प्रतापनगरे पश्यन्तु। तत्रत्याः प्रजाः सज्जनाः इति कृत्वा तत्रत्यं सर्वं सुव्यवस्थितं सुखपूर्णं च अस्ति। अस्मदीयाः प्रजाः अपि प्रतापनगरस्य प्रजाभिः तुल्याः भवेयुः। एतत् साधयितुं किं किं कर्तुं शक्यते इति कृपया सूचयन्तु इति।

किञ्चित्कालं यावत् परस्परं सम्भाषणं कृत्वा ते उक्तवन्तः भवान् महाराजः भूत्वा पार्श्वदेशं गतवान्। तत्रत्यां राज्यव्यवस्थां दृष्ट्वा आगतवान्। किन्तु अस्माकं प्रजाः एतद्विषये किमपि न जानन्ति किल? अस्मदीयाः प्रजाः तद्देशीयाः इव भवेयुः इति यदि भवान् इच्छति तर्हि केचन प्रजाप्रतिनिधयः अपि भवता तत्र प्रेषणीयाः। अनन्तरं किमपि निर्णयं स्वीकर्तुं शक्यते इति। वीरभद्रः मन्त्रिणाम् एतां सूचनाम् अङ्गीकृतवान्। सः कुशलतापूर्वकं शतं प्रजाप्रतिनिधीन् चितवान्। प्रतापनगरे सञ्चारं कृत्वा तत्रत्यान् जनान् मुखतः मेलितुं तथा राज्यव्यवस्थां सुसूक्ष्मं परिशीलयितुं च तान् प्रजाप्रतिनिधीन् प्रेषितवान्। एतदर्थं धीरसेनस्य अनुमतिः अपि तेन प्राप्ता आसीत्।

मासद्वयानन्तरं ते प्रतिनिधयः सञ्चारं समाप्य आगतवन्तः। स्वकीयं अनुभवं विवृण्वन्तः ते राजानम् उक्तवन्तः महाराज! यस्य कस्यापि राज्यस्य सुव्यवस्थायै समुचितविकासार्थं च योग्यः समर्थः च नायकः अपेक्षितः। प्रतापनगरस्य राजा योग्यः समर्थः च अस्ति इति। एतत् श्रुत्वा कुपितः वीरभद्रः उक्तवान् राजा धीरसेनः मम समीपे उक्तवान् यत् मम राज्यस्य समृद्ध्यै सुव्यवस्थायै च मदीयाः प्रजाः एव कारणम् इति। किन्तु भवन्तः कथयन्ति अत्र महाराजस्य योग्यता एव कारणम् इति। एतत् कथं भवितुम् अर्हति इति।

तदा प्रजाप्रतिनिधयः उक्तवन्तः राजा धीरासेनः गुणेन विनम्रः। अतः सः सफलतायाः कीर्तिं स्वयं न स्वीकरोति। सः प्रजाः पुत्रवत् पश्यति। सः प्राजानिमित्तं बहु त्यागं कृतवान्। अतः राज्ये सुव्यवस्थायै प्रजाः एव कारणम् इति उक्त्वा प्रजानां प्रशंसां कृतवान्। एषा तु वस्तुस्थितिः इति। किञ्चिदिव तृप्तः वीरभद्रः सन्देहं प्रकटितवान् प्रतापनगरस्य प्रजाः छद्मवेषेण स्थितम् अपि स्वराजं परिचिन्वन्ति। मम देशे तु प्रजाः पुरतः उपस्थितम् अपि राजानं न परिचिन्वन्ति। अत्र कारणं किम् इति। महाराज! धूलिमध्ये पङ्के वा पतितम् अपि सुवर्णं जनाः जानन्ति स्वीकुर्वन्ति च। अत्र स्वीकर्तुः वैशिष्ट्यं किमपि नास्ति। वैशिष्ट्यं तु सुवर्णस्य इति प्रतिनिधयः उक्तवन्तः।

प्रजाप्रतिनिधीनां वचनं सत्यम् इति राजा वीरभद्रः ज्ञातवान्। अतः सः स्वकीयम् अभिप्रायं स्पष्टं प्रकटयितुं तान् प्रार्थितवान्। राजा धीरसेनः अहोरात्रं प्रजानां हितम् एव चिन्तयति। स्वप्रजानां समस्याः श्रद्धया शृणोति। ताः परिहरति च। एवं सर्वदा प्रजाहितं चिन्तयतः महाराजस्य सुखं दुःखं च प्रजाः पश्यन्ति एव। धीरसेनः राजोचितं भोगविलासादिकं त्यक्त्वा प्रजानां हितम् एव स्वजीवनस्य उद्देशं भावयति। स्वकीयं सुखं सौकर्यं च अविगणय्य प्राजानां हितार्थं कार्यं करोति।

महाराजस्य विषये प्रजानां विश्वासः तावन् अस्ति यत् प्रजाः महाराजस्य वचनम् एकाभिप्रायेण अङ्गीकुर्वन्ति। प्रजानां विषये राजा चिन्तयति यत् कार्यसमये निर्बन्धस्य बलप्रदर्शनस्य वा आवश्यकता नास्ति इति। तस्मिन् राज्ये यथा राजा प्रामाणिकः तथा प्रजाः अपि प्रामाणिकाः। यथा राजा तथा प्रजाः प्रजाप्रतिविधयः स्वकीयम् आभिप्रायं स्पष्टं प्रकटितवन्तः।

प्रतिनिधीनां वचनेन महाराजे ज्ञानोदयः जातः। तस्य विवेकः जागरितः। सः सद्यः एव मन्त्रिणः आहूय तान् आदिष्टवान् यदि राज्ये सुव्यवस्था सुखं च न भवति तर्हि राज्यशासने अस्माकं नैतिकः अधिकारः न भवति इति। एतदनन्तरं अल्पे एव काले विजयनगरस्य अपि जनाः सुखिनः राजभक्ताः च अभवत्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.