Sanskrit Learners Club

Where we Learn from Each Other

Senseless

Source - Sanskrit Chandamama |

| June |

| 1984

Abdulrajak was a merchant and went on a sale trip to sell his valuables. After a long time he landed on an Island and the king of the island was happy to buy his goods and also, wanted to spend some time with this merchant to share his experiences. Time passed by and since Abdulrajak did not turn up, his wife along with her twin sons, traced the route of her husband. But unfortunately without knowing indiscriminately Abdulrajak ordered to kill his own sons. How the twins survived and united with the family is the story.

अविवेकः

बस्रानगरे अब्तुल्रजाकः नाम महान् व्यापारी आसीत्। तस्य यमलौ पुत्रौ स्तः। एकदा अब्तुल्रजाकः व्यापारं कर्तुं बहूनि वस्तूनि स्वीकृत्य नौकया प्रयानं कृतवान्। बहुकालानन्तरम् एकं द्वीपं प्राप्तवान्। तस्य समीपे अत्युत्कृष्टवस्तूनि आसन्। अतः व्यापारः सम्यक् अभवत्। महान् लाभः अपि प्राप्तः। रजाकस्य पण्यवस्तूनि दृष्ट्वा द्वीपस्य राजा बहु सन्तुष्टः। सः स्वयं नौकायाः समीपम् आगत्य बहूनि अमूल्यवस्तूनि क्रीतवान्।

रजाकः समुद्रव्यापारे निष्णातः। सः व्यापारार्थं बहूनि द्वीपानि अटितवान् इति राजा ज्ञातवान्। अतः सः रजाकः सादरं राजगृहम् आहूय वैभवोपेतम् आतिथ्यं दत्तवान्। अनन्तरं रजाकतः अनेकानां द्वीपानां विशेषविचारान् श्रुतवान्। रजाकः अनुभवी। रजाकतः बहु विषयाः ज्ञातव्याः इति चिन्तयित्वा राजा – भवान् अत्रैव किञ्चित् कालं तिष्ठतु इति बहु आग्रहं कृतवान्। रजाकः अङ्गीकृतवान्। तत्र एव स्थितवान् च।

एवम् एव न केवलं मासाः अनेकानि वर्षाणि अपि अतीतानि। रजाकस्य पत्नी बहुकालः अतीतः। पतिः न आगतवान् इति चिन्ताकुला अभवत्। अन्ते अतीवव्याकुला सा पुत्राभ्यां सह रजाकेन यदुक्तं तदेव द्वीपम् अनुसृत्य गन्तुम् आरब्धवती। कानिचित् दिनानि अतीतानि। एतेषां नौका अपि एकं नौकानिस्थानं प्राप्तवती। रजाकः यत्र आसीत् तस्मात् द्वीपात् एका नौका आगच्छन्ती अस्ति इति पत्नी ज्ञातवती। सा पुत्रद्वयम् आहूय नाविकान् विचार्य पितुः समाचारं सङ्गृह्णातु इति उक्तवती।

तौ यमलौ तस्याः नौकायाः समीपं गतवन्तौ। सा नौका साक्षात् पितुः नौका एव आसीत्। रजाकः महाराजस्य अनुज्ञां सम्पाद्य अमूल्यैः उपायनैः सह स्वदेशं प्रतिनिवृत्तः आसीत्। तौ यमलौ यदा नौकां प्रविष्टवन्तौ तदा रजाकः स्वीयं विनष्टं धनस्यूतम् अन्विष्यमाणः आसीत्। वस्तुतः नाविकः एव धनस्यूतम् अपहृतवान् आसीत्। किन्तु सः आत्मानं गोपयितुम् इच्छति स्म। अतः सः तदा एव आगच्छन्तौ यमलौ दर्शयित्वा एतौ एव धनस्यूतम् अपहृतवन्तौ। अहं साक्षात् दृष्टवान् इति उक्तवान्।

अत्यन्तं कुपितः रजाकः तौ बालौ स्वकीय पुत्रौ इति अज्ञात्वा एतौ समुद्रे क्षिपन्तु इति नाविकान् आज्ञापितवान्। ते नाविकाः तत् क्षणम् एव तौ बालौ समुद्रजले क्षिप्तवन्तः। रजाकस्य पत्नी नौकां गतवन्तौ पुत्रौ न आगतवन्तौ इति चिन्तयन्ती एव रात्रिं यापितवती। प्रातःकाले स्वयमेव नौकां गतवती। रजाकः आकस्मिकतया तत्र पत्नीं दृष्ट्वा अतीव आनन्दितः अभवत्। किन्तु पुत्रयोः विषयं ज्ञात्वा सः अतीव खिन्नः। रजाकः स्वकीयम् अपराधं ज्ञात्वा शिरोघट्टनपूर्वकम् अरुदत्।

तथापि यदा कदा वा पुत्रद्वयम् अपि आगच्छेत् इति काचित् आशा तयोः मनसि आसीत्। अतः एव समुद्रप्रान्ते सर्वत्र अन्वेषणं कृतवन्तौ च। क्रमेण सा आशा अपि क्षीणा। एवम् एव कालचक्रं परिवर्तितम्। रजाकदम्पती दत्तकरूपेण एकं बालकं स्वीकुर्वः इति निश्चयं कृतवन्तौ। एकस्मिन् दिने रजाकः विपणितः एकं बालकं क्रीत्वा गृहम् आगतवान्। पत्नीं तं बालकं दृष्ट्वा हन्त! अस्य परिचयः न लब्धः वा? एषः न अन्यः! अस्माकम् एव पुत्रः! एषः एव कनिष्ठः। बहुकालतः भवान् एतं न दृष्टवन् किल? अतः परिचयः न लब्धः इति उक्त्वा सा बालकम् आलिङ्गितवती। बालकः अपि मातरं दृष्ट्वा सन्तोषेण अम्ब! इति उद्गारं कृतवान्। रजाकस्य असीमः आनन्दः अभवत्। सः कनिष्ठं पुत्रम् आलिङ्ग्य भवतः अग्रजस्य का वार्ता इति पृष्टवान्। सः अहं अग्रजस्य विषयं न जानामि। समुद्रे पतितं मां तु कश्चन नाविकः संरक्ष्य कस्यचन भृत्यविक्रयव्यापारिणः कृते विक्रीतवान् इति उक्तवान्।

एवम् एव षण्मासाः अतीताः। पितापुत्रौ मिलित्वा पुनः कानिचन पण्यवस्तूनि सङ्गृह्य व्यापारार्थम् नौकया एकं द्वीपं प्राप्तवन्तौ। कनिष्ठः पुत्रः तस्य द्वीपस्य महाराजाय दातुं कानिचन वस्तूनि गृहीत्वा राजभवनं गतवान्। सः राजा तानि उपायनानि दृष्ट्वा अतीव सन्तुष्टाः। किञ्चित् कालं मम अतिथिः भूत्वा तिष्ठतु इति आग्रहं कृतवान्। एवं तयोः मध्ये स्नेहः वर्धितः। एतत् दृष्ट्वा राजपरिवारे केषाञ्चित् मनसि असूया उत्पन्ना। यथाकथञ्चित् तस्य कनिष्ठपुत्रस्य कामपि हानिं कर्तुं ते तन्त्रं कुर्वन्ति स्म। एकस्मिन् दिने सायंकाले महाराजं कश्चित् रोगः संप्राप्तः। कनिष्ठस्य मनसि एव चिन्ता समुद्भूता। राजगृहे केचन दुष्टाः अवकाशं प्रतीक्षमाणाः सन्ति। राजा इदानीम् अस्वस्थः। एषः एव समयः इति कृत्वा ते महाराजस्य हननम् अपि कुर्युः। अतः अहं जागरूकः भवामि इति संशयग्रस्तः सः खड्गं गृहीत्वा प्रातःकालपर्यन्तं महाराजस्य रक्षणं कृतवान्। प्रतःकाले महाराजस्य स्वास्थ्यं किञ्चित् उत्तमम् अभवत्।

प्रातः ते दुष्बुद्धयः सर्वे मिलित्वा महारजस्य समीपम् आगत्य तं कनिष्ठं दर्शयित्वा महाराज! एषः वणिकपुत्रः रात्रौ खड्गं गृहीत्वा भवतः शयनगृहम् आगतवान्। अस्मान् दृष्ट्वा तूष्णीं स्थितवान्। नो चेत् भवन्तं मारयति स्म। अतः एव एतं दुष्टं शूलम् आरोपयतु! सः एव समीचीनः दण्डः एतस्य इति उक्तवन्तः। राजा किञ्चित्कालं चिन्तयित्वा अविवेकः बहु अनर्थाय भविष्यति इति अहं जानामि। एनं प्रथमं कारागृहं प्रेषयन्तु। अनन्तरं किं कर्तव्यम् इति अहं वदामि इति उक्तवान्।

रजाकः अपि वार्ता ज्ञातावान्। सः महाराजस्य समीपम् आगत्य प्रभो! मम पुत्रः अपराधी वा न वा इति सम्यक् विचारयतु। त्वरया किञ्चिदपि न करणीयम्। तत् महान्तम् अनर्थम् उत्पादयति। अहम् एकम् अविवेकं कृत्वा यावज्जीवं दुःखम् अनुभवन् अस्मि। मया कृतस्य पापस्य परिहारः एव नास्ति इति उक्तवान्। एतत् श्रुत्वा राजा कम् अपराधं कृतवान् भवान् इति पृष्टवान्।

किं वदामि प्रभो! श्रुते अपि मम वचसि विश्वासः न भवति। साक्षात् मम द्वौ पुत्रौ मया एव जले पातितौ इति स्वकीयां कथाम् उक्तवान्। राजा तत् श्रुत्वा अहो! तर्हि कारागृहे निक्षिप्तः मम अनुजः एव। अहो मम सौभाग्यम्! अनुजः इति अज्ञाते अपि मम मनसि अभिमानः समुद्भूतः इति उक्त्वा पितरं गाढम् आलिङ्गितवान्।

ज्येष्टः पुत्रः अपि जीवितः अस्ति इति ज्ञात्वा रजाकस्य आनन्दस्य सीमा एव न आसीत्। राजा अपि तत्क्षणमेव अनुजस्य वन्धविमोचनं कृतवान्।

एषः च संवृत्तः समाचारः – समुद्रे पतितः ज्येष्टः कुमारः एकस्य काष्ठदण्डस्य साहाय्येन जले तरणं कृत्वा एतत् द्वीपम् प्राप्तवान्। द्वीपस्यराजा तु वृद्धः सन्तानहीनः च आसीत्। सः एनं दत्तकरूपेण स्वीकृतवान्। वृद्धराजस्य मरणानन्तरम् एषः एव राजा अभवत्।

एवं तेषां जीवनं सुखान्तम् अभवत्। तस्मिन् एव द्वीपे रजाकः पत्नीपुत्रैः सह बहुकालं सानन्दं जीवनं यापितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.