Sanskrit Learners Club

Where we Learn from Each Other

Experience Pays

Source - Sanskrit Chandamama |

| June |

| 1984

Guruprasad was brought up by his aunty Meenakshi, because in his young age itself he lost his parents. He was working as a clerk in a shop and got married with Laavanyaa who was beautiful and wished a lavish life after marriage. Laavanyaa was not happy to serve her husband’s aunty, Meenakshi. Because of her harsh words, Meenakshi left Guruprasad’s house. What made the changes in Laavanyaa’s mind and how Meenakshi came back and stayed with them is the story.

अनुभवः

एकस्मिन् ग्रामे गुरुप्रसादः नाम युवकः आसीत्। सः समीपस्य नगरे रामलालश्रेष्ठिनः आपणे लिपिकः आसीत्। गुरुप्रसादस्य मासिकवेतनं द्विशतं रूप्यकाणि। बाल्ते एव तस्य माता पिता च दिवङ्गतौ। अतः पितृव्या मीनाक्षी एव तं पोषितवती वर्धितवती च। मीनाक्ष्याः एका पुत्री आसीत्। युक्ते वयसि पुत्र्याः विवाहं कृत्वा मीनाक्षी गुरुप्रसादस्य गृहे एव आसीत्।

गुरुप्रसादः सुन्दरः न आसीत्। वेतनम् अपि अधिकं ना तथापि रूपवत्या लावण्या नामिकया सह तस्य विवाहः सञ्जातः। लावण्यायाः पिता अतीवदरिद्रः आसीत्। विवाहतः पूर्वं लावण्या स्वप्नं पश्यती आसीत्। मम सौन्दर्येण व्यामुग्धः कश्चित् धनिकपुत्रः मां परिणेष्यति इति। अतः गुरुप्रसादेन सह विवाहं सा न इच्छति स्म। गुरुप्रसादस्य पितृव्या अधिकां वरदक्षिणां पृच्छतु तेन च विवाहसम्बन्धः छिन्नः भवतु इति सा प्रतिदिनं देवं प्रार्थयति स्म।

किन्तु मीनाक्षी उक्तवती – वरदक्षिणा आभरणम् वा मास्तु एव। शुभसमये विरस जनकान् एतान् अंशान् विस्मरामः वयम् इति। एतत् श्रुत्वा लावण्या हताशा। किन्तु तस्याः मातापितरौ बहु सन्तुष्टौ। एवं लावण्यायाः इच्छायाः विरोधं गुरुप्रसादेन सह विवाहः सञ्जातः। एतेन कारणेन पतिगृहम् आगता लावण्या मीनाक्षीं शत्रुम् एव पश्यति स्म।

एकमासाभ्यन्तरे एव एकदा लावण्या पतिम् उक्तवती एषु दिनेषु निजश्वश्रूम् एव काऽपि न सेवते। भवन्तः तु दूरवन्धोः एतस्याः सेवायां मां नियोजितवन्तः। भवतां पितृव्या स्वपुत्र्याः गृहं गच्छतु। एतस्याः सेवा तु मया कर्तुं न शक्यते इति। पत्न्याः वचनेन खिन्नः गुरुप्रसादः उक्तवान् कीदृशं वचनं वदति? पितृव्या तु गृहे एव ज्येष्ठा। अस्याः उपस्थित्या अस्माकम् अनुकूलम् एव किल!

पत्युः उत्तरेण कुपिता लावण्या उक्तवती भवतां वेतनं तु अस्माकम् उदरपोषणार्थम् एव न पर्याप्तम्। किं भवन्तः महावणिजः? द्विशतरूप्यकाणि विंशतिदिनेषु एव समाप्तानि भविष्यन्ति। सर्वेषां कृते भोजनं दातुं किम् एषा धर्मशाला वा? पार्श्वप्रकोष्ठे सुप्ता मीनाक्षी जलं पातुम् उत्थिता आसीत्। सा लावण्यायाः वचनं श्रुतवती। अतः प्रातः उत्थाय कारणं किमपि अनुक्त्वा पुत्रीगृहं प्रस्थितवती। गुरुप्रसादः मनसि खिन्नः। किन्तु पत्न्याः वचनात् भीतः तूष्णीं स्थितवान्।

गुरुप्रसादः पितृव्यां शकटम् आरोप्य तस्याः पुत्रीगृहं नीतवान्। ततः विलम्बेन नगरं प्राप्तवान्। अतः अधिकसमयपर्यन्तम् आपणे कार्यं करणीयम् आपतितम्। नगरतः ग्रामं प्राप्तुं राजमार्गं विना समीपतरः मार्गः अपि आसीत्। शीघ्रं गृहं प्राप्तव्यम् इति आलोचयन् गुरुप्रसादः समीपतरं निर्जनमार्गम् एव अनुसृतवान्। मार्गमध्ये अरण्यम् अपि आसीत्। अरण्यप्राप्तिसमये रात्रिः जाता। किन्तु तद्दिने पूर्णिमा। सर्वत्र कौमुदी व्याप्ता आसीत्।

गुरुप्रसादः एकस्य वृक्षस्य अधः गच्छन् आसीत्। तदा तत्र पर्णेषु शब्दः श्रुतः – कः भवान् कः भवान्? पुरतः आगच्छतु अपेक्षितं प्राप्नोतु इति। आश्चर्यचकितः गुरुप्रसादः उपरि दृष्टवान्। सः एकः जम्बूवृक्षः आसीत्। गुरुप्रसादः उक्तवान् – जम्बूवृक्षः किं वा ददाति? जम्बूफलम् एव किल इति। अपरस्मिन् क्षणे एकं जम्बूफलं पादयोः समीपे पतितम्। गुरुप्रसादः फलं स्वीकृत्य स्यूते स्थापितवान्। अग्रे गतवान् च।

किञ्चित् दूरगमनानन्तरं पुनः पर्णानां मध्यतः कठोरध्वनिः श्रुतः कः भवान? अहं किं ददामि? एषः कपित्थवृक्षः इति गुरुप्रसादः ज्ञातवान्। अतः सः उक्तवान् कपित्थवृक्षः किं वा दद्यात्? कपित्थफलम् एव किल इति। सद्यः एव एकं कपित्थफलम् पादपार्श्वे पतितम्। गुरुप्रसादः तत् फलम् अपि स्यूते स्थापितवान्। किञ्चित् दूरगमनानन्तरं पुनः अन्यः शब्दः श्रुतः – ददामि भोः अपेक्षितं ददामि स्वीकरोतु भवान् इति।

सः आम्रवृक्षः अतः गुरुप्रसादः उक्तवान् – आम्रवृक्षः आम्रफलं विना अन्यत् किं दद्यात् इति। तदा तस्य पादसमीपे आम्रफलम् एकं पतितम्। गुरुप्रसादः तत् अपि स्यूते स्थापितवान्। शीघ्रम् एव गृहं प्राप्तवान्। लावण्या स्यूते स्थितानि फलानि दृष्ट्वा आश्चर्यचकिता। सा पतिं पृष्टवती अकाले एतानि फलानि कथं लब्धानि?

गुरुप्रसादः समग्रं वृत्तान्तं पत्नीं निवेदितवान्। तत् श्रुत्वा लावण्या कोपेन उक्तवती कीदृशाः मूर्खाः भवन्तः। वृक्षाः एव स्वयं सम्भाषणं कुर्वन्ति वा? प्रायः परोपकारिणा पिशाचेन वनदेवतया वा भवद्भिः सह वार्तालापः कृतः स्यात्। श्वः अपि विलम्बेन तेन एव मार्गेण आगच्छन्तु। किं प्रार्थनीयम् इति अहं प्रातः सूचयामि इति।

लावण्या समग्ररात्रौ पिशाचानां समीपे किं प्रार्थनीयम् इति आलोचनां कृतवती। प्रातः स्वकीयम् उपायं पतिं निवेदितवती। अपरस्मिन् दिने गुरुप्रसादः नगरतः विलम्बेन एव अरण्यमार्गेण प्रस्थितवान्। यदा जम्बूवृक्षसमीपम् आगतवान् तदा वृष्टिः आरब्धा। पर्णानां कलरवानन्तरं तस्मिन् दिने अपि धवनिः श्रुतः। पत्न्या वचनं स्मरन् गुरुप्रसादः उक्तवान् जम्बूवृक्षः मां सुन्दरं करोति चेत् अहं सन्तुष्टः भवामि इति। तदा वृक्षतः एका जलधारा गुरुप्रसादस्य उपरि पतिता। विद्युतः प्रकाशे स्वशरीरं स्वर्णवर्णतया परिवर्तितं दृष्टवान् गुरुप्रसादः। सः परमानन्दं प्राप्तवान्।

गुरुप्रसादः अग्रे गतवान्। तावति काले कर्णकठोरशब्दं कुर्वन् अशनिः पतितः जम्बूवृक्षः क्षणे एव भस्मीभूतः। कपित्थवृक्षस्य समीपं गत्वा गुरुप्रसादः पृष्टवान् अपरिमितम् ऐश्वर्यं लब्धं चेत् समीचीनं भविष्यति इति। तदा तस्य पादपार्श्वे एकः स्यूतः पतितः। काश्चनमुद्राः भूमौ अपि पतिताः। गुरुप्रसादः ताः अपि स्वीकृत्य स्यूते स्थापयित्वा अग्रे गतवान्। यदा सः आम्रवृक्षसमीपं गतवान् तदा अशनिपातेन कपित्थवृक्षः अपि दग्धः।

गुरुप्रसादः आम्रवृक्षम् उक्तवान् आम्रवृक्ष मम उपरि भाग्यमुद्राम् अङ्कयति चेत् अहं भाग्यशाली भवेयम् इति। सद्यः एव गुरुप्रसादस्य शिरसि किमपि पतितम्। किन्तु किं पतितम् इति सः न ज्ञातवान्। तथैव किञ्चित् अग्रे गतवान्। तदा आम्रवृक्षः अपि अशनिपातेन भूमौ पतितः।

गुरुप्रसादः गृहं प्रस्थितः। वृष्टिकारणतः सुवर्णभारकारणतः च गमनं कष्टकरम् आसीत्। एतन्मध्ये मार्गे स्खलितः सः पङ्कमये गर्ते पतितवान्। सुवर्णस्यूतः अपि पङ्के पतितः। क्रमशः गुरुप्रसादस्य शरीरं कण्ठपर्यन्तं पङ्के निमग्नम्। इतःपरं मरणं निश्चितम् इति गुरुप्रसाद्ः चिन्तितवान्। आम्रवृक्षेण भाग्यम् अनुगृहीतम् किल? पार्श्वस्थवृक्षस्य एका शाखा वायुना पङ्के पतिता। गुरुप्रसादः तस्याः आधारेण पङ्कतः बहिः आगतवान्।

गुरुप्रसादः यथाकथञ्चित् उषःकाले गृहं प्राप्तवान्। गृहस्य पुरतः एव मूर्च्छया पतितवान्। मूर्च्छितं पतिं दृष्ट्वा लावण्या किंकर्तव्यतामूढा जाता। मार्गदर्शनं कर्तुं गृहे अनुभवी कोऽपि नास्ति। भाग्यवशात् लावण्या मीनाक्षीं स्मृतवती। ताम् आनेतुम् एकं प्रेषितवती।

मध्याह्नसमये मीनाक्षी रुदती आगतवती। मीनाक्ष्याः शुश्रूषया एकमासाभ्यन्तरे गुरुप्रसादः स्वस्थः अभवत्। किन्तु अरण्ये प्राप्तां सुवर्णवर्णतां विना अन्यत् किमपि इदानीं नास्ति। गुरुप्रसादस्य शरीरे तत्र तत्र व्रणस्य चिह्नानि दृश्यन्ते। समग्रवृत्तान्तं श्रुत्वा मीनाक्षी लावण्याम् उक्तवति – भवती प्रथमपिशाचं सौन्दर्यं प्रष्टुम् उक्तवती। सौदर्यापेक्षया स्वास्थ्यं प्रधानम् इति भवती न ज्ञातवती। द्वितीयपिशाचेन दत्ताः सुवर्णमुद्राह् अपि नष्टाः। तृतीयपिशाचेन अनुगृहीतेन भाग्येन एव गुरुप्रसादः रक्षितः इति।

तदा विवेकं बोधयितुम् अत्र अनुभवी कोऽपि न आसीत्। अतः अहम् अनुचितं प्रार्थयितुं सूचितवती। कष्टं च दत्तवती। इदानीं विवेकः उत्पन्नः इति दुःखेन उतवती लावण्या।

इदानीम् अपि समयः न अतिक्रान्तः। परिश्रमेण गुरुप्रसादः उन्नतिं प्राप्तुं शक्नोति एव। यतः भाग्यम् अस्माकं पक्षे अस्ति। भाग्येन ऐश्वर्यं लभ्यते। सुखमपि सिद्ध्यति इति उक्त्वा मीनाक्षी गन्तुं सिद्धा। अश्रुमार्जनं कुर्वती लावण्या उक्तवती – अम्ब! मदीयां मूर्खतां क्षाम्यतु। भवती कुत्रापि न गच्छतु। भवत्याः मार्गदर्शनं विना आवाम् अननुभविनौ कथं जीवावः इति।

लावण्यायां सञ्जातं परिवर्तनं दृष्ट्वा मीनाक्षी सन्तुष्टा। गुरुप्रसदः अपि आश्चर्यचकितः सन्तुष्टः च।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.