Sanskrit Learners Club

Where we Learn from Each Other

Human Life

Source - Sanskrit Chandamama |

| June |

| 1984

This is a Mystical story about the Buddha which are known as Jaataka Kathaa where in it is mentioned about the hundreds of Life taken by Lord Buddha. In this series of stories you will find various Dharmic morale and his teachings to the public. You will find it more interesting to know about the teachings of Buddha and adopting such valuable teachings will surely bring change in your life.

मानवजन्म

पूर्वं ब्रह्मदत्तः काशीराज्यं परिपालयति स्म। तस्मिन् काले बोधिसत्वः मगधराज्ये निर्धनिकरूपेण जन्म प्राप्तवान्। सः राजपरिवारे सेवकः भूत्वा जीवनं यापयति स्म। मागधदेशस्य पार्श्वे अङ्गदेशः अस्ति। तयोः मध्ये चम्पानदी प्रवहति। नद्याः तले नागरज्यम् आसीत्। नागराज्ये चाम्पेयः राजा आसीत्।

सामान्यतः अङ्गमगधदेशयोः मध्ये वौरं सर्वदा अस्ति एव। अतः तदा तदा युद्धम् अपि प्रचलति। एतादृशे एकस्मिन् युद्धे मगधराजः पराजितः। सः अश्वम् आरुह्य युद्धरङ्गात् पलायितः। मार्गे चम्पानदी दृष्टा। शत्रुहस्ते मरणापेक्षया आत्महत्या एव वरम् इति चिन्तयित्वा सः अश्वेन सह नदीम् उत्पतितवान्। अश्वः तु साक्षात् नागराज्यं प्रविश्य चाम्पेयस्य सभास्थानम् एव प्रविष्टवान्।

नागराजः चाम्पेयः झटिति आसनतः उत्थितवान्। आदरपूर्वकं मगधराजस्य सत्कारं कृतवान्। मगधराजस्य सर्वं वृत्तान्तम् अपि श्रुतवान्। प्रवृत्तस्य विषये चिन्ता मास्तु। अङ्गराजेन सह युद्धे अहं भवतः साहाय्यं करोमि। भवतः एव जयः यथा स्यात् तथा करोमि इति वचनं दत्तवान् चाम्पेयः। पुनः युद्धं प्रवृत्तम्। स्ववचनानुसारं चाम्पेयः मगधराजस्य साहाय्यं कृतवान्। अङ्गराजः रणाङ्गणे एव मृतः। मगधराजः उभयोः राज्ययोः अपि अधिपतिः अभवत्।

एतन्निमित्तं चाम्पेयस्य मगधराजस्य च मैत्री गाढा जाता। मगधराजः प्रतिवर्षम् अपि सपरिवारः चम्पानदीतीरं गच्छति स्म। तद्दिने चाम्पेयः उपरि आगच्छति स्म। मगधराजेन दत्तानि धनकनकादीनि उपायनानि अतिथिसत्कारं च स्वीकरोति स्म। एतत् दृश्यं अतिमनोहरं दृश्यते स्म।

बोधिसत्वः मगधराजस्य सेवकः आसीत् किल? सः प्रतिवर्षम् अपि चाम्पेयस्य वैभवं पश्यन् आसीत्। मरणसमये अपि तस्य मनसि चाम्पेयस्य अतुलवैभवस्य एव चिन्ता। अतः अपरजन्मनि सः बोधिसत्वः सर्पाणां कुले जन्म प्राप्तवान्। अनन्तरं सः एव नागानां राजा अपि अभवत्।

पूर्वजन्मसु बोधिसत्वस्य शरीराणि सुन्दराणि आसन्। अस्मिन् जन्मनि असुन्दरं सर्पशरीरम्! अतः बोधिसत्वः जुगुप्सितः। मया वराकेण अविचार्य नागराजस्य ऐश्वर्यविषये आशा प्रदर्शिता। अतः मया एतादृशी दुर्गतिः प्राप्ता इति सः पश्चात्तापम् अनुभूतवान्। आत्महत्यया एतत् जन्म समापयामि इति चिन्तयित्वा सः आत्महत्यार्थं सिद्धः। तदा तत्र सुमना नाम नागकन्यका सखीभिः सह आगत्य प्रणामं कृतवती।

सुमना दृष्ट्वा नागराजस्य जीविते आशा पल्लविता। आत्महत्याविचारं त्यक्त्वा सः सुमनां परिणीतवान्। पुनः नागलोकं गत्वा राज्यपालनं कर्तुम् आरब्धवान्। एतत् शरीरम् अशाश्वतम्। अतः मया व्रतोपवासादिभिः पुण्यं सम्पादनीयम्। तदर्थम् अहं गुप्तरूपेण मानवानां लोकं गच्छामि इति सः कदाचित् निश्चितवान्।

एतदनुसारम् उपवासदिनेषु सः मानवलोकम् आगच्छति स्म। राजमार्गपार्श्वे वल्मीकस्य उपरि पतित्वा मां गरुडः नयतु। अहितुण्डिकः वा मां गृह्णातु। मम शरीरेण यस्य कस्यापि प्रयोजनम् भवतु इति चिन्तयति स्म। किन्तु प्रवृत्तम् अन्यत् एव।

वल्मीकस्य उपरि शान्तं स्थितं सर्पं जनाः दृष्टवन्तः। जनाः क्षीरपुष्पचन्दनादिभिः पूजयितुम् आरब्धवन्तः। एतावत् एव न समीपग्रामवासिनः सर्वे मिलित्वा एकं मन्दिरम् अपि निर्मितवन्तः। प्रतिदिनम् अपि सहस्रशः जनाः तत्र आगत्य आरोग्यभाग्यं पुत्रसौभाग्यं व्याधिनिवारणम् इत्यादिकं प्रार्थयन्ति स्म।

केषाञ्चित् प्रार्थना फलिता। एतेन सर्वत्र प्रचारः अपि अधिकः जातः। नागराजस्य उपवासदिनानि एवम् एव गतानि। प्रतिमासं कृष्णपक्षस्य प्रथमातिथ्यां केवलं सः गृहं गच्छति स्म। पत्नी सुमना पुत्युः भूलोकगमनवार्ता ज्ञातवती। सा एकदा पतिं पृष्टवती – आर्य! तदा तदा भूलोकगमनं न उचितम्। सः लोकः अपायकारी। तत्र कदा किं भवति इति वक्तुं न शक्यते। कदाचित् भवताम् आपत् आगता चेत् वयं कथं जानीमः इति।

नागराजः सुमनाम् एकस्य सरोवरस्य समीपं नीतवान्। सरोवरं प्रदर्श्य उक्तवान् – अत्र पश्यतु मम किमपि व्रणादिकं जातं चेत् एतस्य सरोवरस्य जलं मलिनं भविष्यति। गरुडः मां नयति चेत् जलं सर्वं शुष्कं भविष्यति। कदाचित् मान्त्रिकः अहितुण्डिकः वा मां नयति चेत् जलं रक्तमयं भविष्यति। एतेन भवती सर्वदा मम योगक्षेमं ज्ञातुं शक्नोति इति।

काशीनगरवासी कश्चित् तक्षशिलां गत्वा महता श्रमेण वशीकरणविद्यां पठित्वा स्वदेशम् आगच्छन् आसीत्। सः मार्गपार्श्वे सुप्तं नागराजं दृष्टवान्। सः युवकः मन्त्रबलेन सर्पं वद्ध्वा कण्डोले स्थापितवान्। तम् सर्पं ग्रामं नीतवान्। युवकस्य इच्छानुसारं नागराजेन क्रीडनीयम् आपतितम्। नागराजस्य क्रीडां द्रष्टुं ग्रामस्थाः मिलिताः। चित्रविचित्रां क्रीडां दृष्ट्वा सर्वे जनाः सन्तुष्टाः। ते सर्वे ब्राह्मणयुवकाय धनम् अमूल्यवस्तूनि च दत्तवन्तः।

अस्मिन् कुग्रामे एव एतावत् सम्पादनं चेत् नगरे बहु धनं अवश्यं मिलेत् एव। अतः अहम् अद्य एव नगरं गच्छामि इति ब्राह्मणः चिन्तितवान्। अनन्तरम् सः नागराजं स्वीकृत्य एकमासाभ्यन्तरे नगरं प्राप्तवान्। एकमासपर्यन्तं नागराजः उपवासम् एव कृतवान्। ब्राह्मणेन दत्तम् आहारं न स्वीकृतवान् एव। अहम् आहारं स्वीकरोमि चेत् पुनः एतद्य्युवकतः मम मोक्षः एव न भविष्यति इति नागराजः चिन्तितवान्। ब्राह्मणयुवकः काशीनगरसमीपे ग्रामेषु नागराजस्य क्रीडां प्रदर्श्य यथेष्टं धनं सम्पादितवान्। नागराजस्य क्रीडाविनोदान् काशीराजः अपि श्रुतवान्। सः ब्रह्मणयुवकम् आस्थानम् आहूतवान्। क्रीडायाः प्रदर्शनार्थं व्यवस्थां कृतवान्।

अत्र नागलोके एकमासपर्यन्तम् अपि नागराजस्य अनागमनं ज्ञात्वा सुमना भीता। पत्युः किं कष्टं जातम् इति ज्ञातुं सा सरोवरसमीपं गतवती। सरोवरे जलं रक्तवर्णं दृश्यते स्म। कोऽपि अहितुण्डिकः पतिं वद्धवान् इति सा ज्ञातवती। अतः सा पतिम् अन्वेष्टुं प्रस्थिता। तत्र तत्र जनान् पृष्ट्वा पृष्ट्वा सा काशीनगरं प्राप्तवती। सा काशीनगरे ब्राह्मणसमीपे क्रीडन्तं स्वपतिं दृष्टवती। राजा प्रजाः च सन्तोषेण क्रीडां पश्यन्तः आसन्। अकस्मात् आगतां पत्नीं दृष्ट्वा नागराजः लज्जितः। सः झटिति कण्डोलं प्रविष्टावान्।

तदा सुमना मानवरूपं धृत्वा राजानं नमस्कृत्य प्रार्थितवती महाप्रभो! मम कृते पतिभिक्षां ददातु इति। तावति काले नागरूपेण स्थितः नागराजः सुन्दरस्य नवयुवकस्य रूपं धृत्वा स्थितवान्। एतत् दृष्ट्वा जनाः सर्वे आश्चर्यचकिताः।

काशीराजः रमणीये दम्पती दृष्ट्वा सन्तुष्टः। एकसप्ताहपर्यन्तं तयोः सत्कारं कृतवान्। अनन्तरं परिवारसहितः ताभ्यां सह नागलोकम् अपि गतवान्। नागलोकस्य ऐश्वर्यं वैभवं च दृष्ट्वा काशीराजः अतीव सन्तुष्टः। तस्य आश्चर्यस्य तु सीमा एव नास्ति।

नागलोके एतादृशं वैभवम् अस्ति। एतत्सर्वम् त्यक्वा भवान् किमर्थं भूलोके वल्मीकस्य उपरि निवसति स्म इति काशीराजः नागराजं पृष्टवान्। महाराज! अत्र नागलोके यथेष्टं वैभवम् अस्ति सत्यम्। किन्तु मोक्षः प्राप्तव्यः चेत् मानवलोकः एव शरणम् इति नागराजः उक्तवान्।

एतत् श्रुत्वा काशीराजः अतीव सन्तुष्टः। भवतः परिचयतः अहम् अस्माकं लोकस्य माहात्म्यं ज्ञातवान् इति सः उक्तवान्। नागराजः यथेष्टां सम्पत्तिं दत्वा काशीराजं सम्मानितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.