Sanskrit Learners Club

Where we Learn from Each Other

Greedy Looses

Source - Sanskrit Chandamama |

| August |

| 1984

Vikrama is one of the very famous historic king who ruled the present Ujjain of Madhya Pradesh in India. These series of stories about his smartness in resolving complex problems according to Dharmic principles are worth reading. These stories are somewhat lengthier compared to other short stories. I suggest you to think the answer by yourself for the questions asked by the Ghost, before reading, how Vikrama the King resolves the knot.

अत्याशा अनर्थाय

वेतालः चिन्तामग्नः राजा त्रिविक्रमः पुनः आगमिष्यति। तस्मै नूतना कथा वक्तव्या। कां वा कथां कथयिष्यामि इति। तावति काले त्रिविक्रमः वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानाभिमुखं गन्तुं प्रवृत्तः। शवे स्थितः वेतालः त्रिविक्रमं प्रति भोः त्रिविक्रम! साहसे श्रीः वसति इति एषा लोकोक्तिः भवन्तं दृष्ट्वा एव लोके प्रसिद्धिः नीता। कार्ये भवतः श्रद्धा अचला सुदृढा च। अचलश्रद्धं भवन्तं दृष्ट्वा अहं भावयामि यत् भवान् अपूर्वशक्तीः सम्पादयितुं प्रयतमानः अस्ति इति। मन्त्रैः अपूर्वशक्तिसम्पादनं किञ्चित् दुष्करम् एव। यदि महता प्रयत्नेनेन तादृशशक्तयः सम्पाद्यन्ते ताः अपि स्वार्थाय न उपयोक्तव्याः। यदि स्वार्थाय उपयुज्यन्ते तदा फलापेक्षया अनर्थाः एव अधिकाः भवेयुः। अत्र दृष्टान्तरूपेण रामशर्मकृष्णशर्मनामकयोः पितापुत्रयोः कथां वदामि। शृणोतु। तेन मार्गायासः अपि भवता न ज्ञायेत इति उक्त्वा कथायाः आरम्भं कृतवान्।

वैशाली नाम नगरम्। तत्र रामशर्मा नाम ब्राह्मणः। पौरोहित्यं तस्य वृत्तिः। सः पौरोहित्येन यथेष्टां धनम् अपि सम्पादयति स्म। तस्य कुटुम्बः अपि न महान्। गृहे गृहिणी पुत्रः पुत्री च इति आहत्य चत्वारः एव। पित्रार्जिता भूमिः अपि पर्याप्ता आसीत्। अतः रामशर्मणः गृहसमस्या न आसीत्। एवं रामशर्मा धनेन हेतुना कदापि क्लेशं न अनुभूतवान्। गृहिणी प्रियवादिनी पुत्रः विधेयः पुत्री अपि निपुणा आसीत्। तथापि काचन अतृप्तिः रामशर्मणं सदा बाधते स्म। राजास्थाने स्थिताः कवयः पण्डिताः सङ्गीतज्ञाः च बहु धनं सम्पादयन्ति। यथेष्टं सुखम् अनुभवन्ति च। यदि अहम् अपि राज्ञः कृपापात्रं भवेयम् तदा महता वैभवेन जीवितुं शक्नोमि इति। एतदेव अतृप्तेः मूलं कारणम् आसीत्।

रामशर्मणः पुत्रः कृष्णशर्मा तरुणः विद्यावान् च अभवत। पित्रा सह पौरोहित्यम् अपि आचरति स्म। तदा रामशर्मा चिन्तितवान् सद्यः एव हिमालयं गच्छामि। तत्र कस्यापि सिद्धपुरुषस्य सेवां कृत्वा तस्य अनुग्रहेण अपूर्वा शक्तिं सम्पाद्य प्रत्यागमिष्यामि। अनन्तरं धनिकाः अपि यथा माम् असूयया पश्येयुः तथा जीविष्यामि इति। एवं निश्चित्य गृहे कस्मै अपि अनुक्त्वा रामशर्मा हिमालयं गतवान्। तत्र कस्यापि सिद्धपुरुषस्य सेवां कृत्वा तस्य कृपापात्रम् अभवत्।

रामशर्मा किमर्थं मां सेवते? किं कारणं स्यात् इति सिद्धपुरुषः चिन्तयन् रामशर्माणं पृष्टवान् – वत्स शर्मन्! संसारकष्टात् भीताः केचित् अटन्ति एवं हिमालयम् अपि आगच्छन्ति। एषः च संसारिणां स्वभावः। अतः दोषत्वेन एतत् न अपरिगणयामि। किन्तु भवतः पुत्रः अस्ति पुत्री च अस्ति। तयोः विवाहादिकं भवता अवश्यं करणीयम्। अतः भवान् सद्यः एव गृहं प्रति गच्छतु। एतावन्ति दिनानि भवान् मां सेवितवान्। यत् इच्छति तत् पृच्छतु। दास्यामि अहम् इति। रामशर्मा अञ्जलिं बध्वा प्रार्थितवान् महात्मन्! येन मन्त्रेण अपूर्वा शक्तिः सम्पादयितुं शक्या तादृशं मन्त्रं कृपया उपदिशतु इति।

तथास्तु इति उक्त्वा सिद्धपुरुषः रामशर्मन्! तादृशं मन्त्रम् उपदिशामि येन मन्त्रेण अपूर्वा शक्तिः आविर्भविष्यति। धनाशया सा शक्तिः न उपयोक्तव्या। लोकोपकाराय तस्याः उपयोगं करोतु। तेन भवतः कीर्तिः लोके प्रसरिष्यति भवान् च सुखी भविष्यति इति स्पष्टं बोधयित्वा रामशर्मणे मन्त्रम् उपदिष्टवान्। रामशर्मा एवम् अपूर्वशक्तिं सम्पाद्य सन्तोषेण गृहं प्रत्यागतवान्। रामशर्मणः अनुपस्थितौ कृष्णशर्मा पौरोहित्येन कुटुम्बं यथापूर्वं पोषयन् आसीत्।

यदा रामशर्मा ग्रामं प्रत्यागतवान् तदा वैशालीराज्यं क्षामपीडितम् आसीत्। अनावृष्ट्या जनानां कष्टं वचनातीतम् आसीत्। वर्षद्वयात् वृष्टेः नाम अपि न श्रुतम्। वृष्ट्यर्थं ज्यौतिषिकाणां सूचनानुसारेण वरुणजपान् रुद्रयागान् च राजा स्वयं कृतवान् देशे च कारितवान्। किन्तु फलं शून्यम् एव। अन्ते राजा प्रकठीकृतवान् – मेघाः यथा वर्षन्ति तथा यः प्रयत्नं करोति तं कनकैः अभिषिञ्चामि इति। कनकाभिषेकवार्ता रामशर्मा अपि श्रुतवान्। सः रहसि पुत्रम् आहूय महता उत्साहेन उक्तवान् – वत्स! कतिपयदिनेभ्यः पूर्वं हिमालयम् अहं गतवान् इति भवन् जानाति एव। तत्र हिमालये एकं सिद्धपुरुषं भक्त्या श्रद्धया च सेवितवान्। सन्तुष्टः सिद्धपुरुषः मम कृते अद्भुतशक्तिजनकं मन्त्रम् उपदिष्टवान्। तस्य मन्त्रस्य शक्त्या यथा मेघाः वर्षेयुः तथा कर्तुं शक्नोमि।

पितुः वचनं श्रुत्वा आश्चर्येण आनन्देन च कृष्णशर्मा उक्तवान् – आश्चर्यम् एतत्! मेघाः यथा वर्षेयुः तथा कर्तुं मन्त्रशक्तिः किं सम्पादिता? तात! जनाः अनावृष्ट्या नरकवेदनाम् अनुभवन्तः सन्ति। मन्त्रशक्त्या अनावृष्टिं निवार्य सर्वेषां सन्तोषं जनयतु इति। राज्यस्य जनस्य च उपकारः तु करणियः एव। किन्तु अस्मदीयम् अपि किञ्चित् आलोचनीयम्। एतद्विषयं राज्ञे अनिवेद्य एव यदि अहं कार्यं करिष्यामि तदा वृष्टेः कारणम् अहम् एव इति राजा कथं जानीयात्? कथं वा कनकैः माम् एव अभिषिञ्चेत्? अतः राज्ञे निवेद्य एव अग्रे पदं स्थापयामि इति रामशर्मा उक्तवान्।

कृष्णशर्मा कदापि पितरं न प्रतिवदति स्म। अद्य तु किञ्चित् धैर्येण पितरं उद्दिश्य तात! अस्माकं वृत्या वयं सुखेन एव जीवामः। कनकाभिषेकेण अस्माकं किं प्रयोजनम्? अत्याशा अनर्थाय इति उक्तवान्। पुत्रस्य वचनम् श्रुत्वा क्रुद्धः रामशर्मा पुत्रं भर्त्सयन् उक्तवान् – मूढ! न जानाति लोकव्यवहारम्। तूष्णीं तिष्ठतु। अपूर्वः एषः मन्त्रः भवता अपि ज्ञातव्यः। अहम् उपादिशामि श्रद्धया गृह्णातु इति। अनन्तरं तं मन्त्रं पुत्राय अपि उपदिश्य तदनुष्ठानक्रमं सूचितवान् – स्नानं कृत्वा शुचिः भूत्वा प्रथमं परमेश्वरं स्मरतु। अनन्तरम् उत्तराभिमुखम् एकेन पादेन स्थित्वा एतं मन्त्रं त्रिवारम् उच्चारयतु। तदा भवता अभिप्रेतस्य अर्थस्य सिद्धिः भविष्यति। अनन्तरम् उपसंहर्तुम् तेन एव क्रमेण अन्यः त्रिवारं पठेत्। अतः भवते अपि मन्त्रम् उपदिष्टवान् इति।

रामशर्मा महाराजस्य समीपं गत्वा स्वसामर्थ्यं निवेदितवान्। एतत् श्रुत्वा सुन्तुष्टः राजा प्रार्थितवान् कृपया शीघ्रातिशीघ्रम् अनावृष्टिं निवारयतु इति। वैशालीनगरस्य उत्तरस्यां दिशि ईश्वरदेवालयः अस्ति। रामशर्मा तत्र गत्वा कूपोदकेन स्नानं कृत्वा देवालयस्य पुरतः आगतवान्। एकेन पादेन स्थित्वा त्रिवारं मन्त्रम् उच्चारितवान्।

निर्मले अपि आकाशे झटिति एव मेघाः उदिताः। चतसृषु अपि दिक्षु गगनतलं कृष्णमेघैः आवृत्म्। मेघध्वनिः सर्वत्र व्यापृतः। विद्युत् अपि प्रकाशते स्म। वृक्षान् कम्पयन् वायुः अपि याति स्म। बहोः कालात् अनन्तरं जनाः महतीं वृष्टिं दृष्टावन्तः। जनाः आनन्देन उत्साहेन च मार्गे नर्तितुम् आरब्धवन्तः। तेषां सन्तोषस्य पारम् एव न आसीत्। राजा वृष्टौ आद्रीभवन् परिवारेण सह ईश्वरदेवालयम् आगतवान्। तत्र स्थितं रामशर्माणं नमस्कृत्य उक्तवान् महात्मन्! भवतः अनुग्रहेण राज्यं रक्षितम्। यावत् वृष्टिं स्थगयितुं सूचयामि तावत् मेघाः एवम् एव वर्षन्तु। अनन्तरं विशाले सुवर्णमये शरावे सुवर्णानि रत्नानि च पूरयित्वा राजा रामशर्मणे दत्वा प्रतिनिवृत्तवान्।

देवालस्य बहिः धाराकारेण मेघाः वर्षन्तः आसन्। निर्जनः देवालयः। तत्र दीपस्य प्रकाशे रामशर्मा रत्नानि गणयन् आसीत्। एतत्सर्वं वीक्षमाणाः चत्वारः चोराः रामशर्मणः गलं गृहीत्वा मारितवन्तः। तत्र स्थितानि सुवर्णानि रत्नानि च अपहृत्य पलायितवन्तः सायङ्कालपर्यन्तं मेघः वर्षन् एव आसीत्। वृष्टिः पर्याप्ता इति मन्त्रिभिः सह आलोच्य राजा वृष्टिं स्थगयितुं सूचनां दातुं मन्त्रिणम् एव प्रेषितवान्। मन्त्री ईश्वरालयम् आगत्य हतं रामशर्माणं दृष्ट्वा आश्चर्यचकितः अभवत्। अनुक्षणम् एव राज्ञः समीपम् आगत्य वार्ता निवेदितवान्।

दुःखकरम् अन्याय्यं च वृत्तान्तं श्रुत्वा राजाचिन्ताक्रान्तः। वृष्टिं स्थगयितुं रामशर्मणः पुत्रः जानीयात् इति राजा मन्त्रिणं कृष्णशर्मणः समीपं प्रेषितवान्। मन्त्री शीघ्रातिशीघ्रं रामशर्मणः गृहं गत्वा रामशर्मणः मरणवार्ता पुत्रायः निवेद्य प्रार्थितवान् कृपया वृष्टिं स्थगयतु। अन्यथा जलेन प्रलयः एव भवेत् इति। पितुः मरणवार्ता श्रुत्वा कृष्णशर्मा दुःखेन विलपितुम् आरब्धवान्। तस्या माता अनुजा च उच्चैः रोदितुम् एव प्रवृत्तवत्यौ। मन्त्री तेषां दुरवस्थां दृष्ट्वा स्वयम् अपि खिन्नः शनैः शनैः उक्तवान् आर्य! कृष्णशर्मन्! मातः! वत्से! स्माश्वसन्तु। अनावृष्ट्या शुष्कीभूय विशीर्णा वैशालीनगरी पूज्येन रामशर्मणा रक्षिता। नीचाः तस्य वधं कृत्वा भवतः तथा प्रजाजनान् शोकसागरे निमज्जितवन्तः। तान् प्रयत्नशतेन अपि अन्विष्य राजा दण्डयिष्यति एव। किन्तु इदानीं जलेन प्रलयं प्राप्यमानं राज्यं रामशर्मणः पुत्रेण भवता एव रक्षणीयम्। राजा एवम् एव प्रार्थयते।

किञ्चित्कालानन्तरं कृष्णशर्मा दुःखानिरोधं कृत्वा स्नानं समाप्य आगतवान्। गृहस्य द्वारे एकेन पादेन स्थित्वा नेत्रद्वयम् अपि निमील्य शिवं ध्यायन् उपसंहरणमन्त्रं त्रिवारं पठितवान्। वर्षन्ती वृष्टिः झटिति एव स्थगिता। जनाः सन्तोषेण नर्तनं कृतवन्तः। मन्त्री कृष्णशर्माणं शिरसा नमस्कृत्य आर्य! कृष्णशर्मन्! भवतः पितरं महाराजः यथा सम्मानितवान् ततः अपि द्विगुणिततया भवन्तं श्वः सम्मानयिष्यति। श्वः अहम् एव स्वयम् आगत्य भवन्तं गजे आरोप्य राजास्थानं नेष्यामि इति उक्त्वा प्रतिनिवृत्तः। परेद्युः मन्त्री छत्रेण चामरेण राजेन परिवारेण च सह कृष्णशर्माणं नेतुं तस्य गृहम् आगतवान्। किन्तु तस्य गृहं तदा कीलितम् आसीत्। कृष्णशर्मा तस्य माता अनुजा च कुत्र गताः इति केनापि न ज्ञातम्। मन्त्री तु कीलितं गृहं आश्चर्येण दृष्ट्वा व्याकुलितः अभवत्।

वेतालः एवं कथां समाप्य राजन्! कृष्णशर्मा राजसम्मानं निराकृत्य गृहम् अपि त्यक्त्वा किमर्थं गतवान्? तस्य पित्रा महता श्रमेण सम्पादिता अपूर्वा मन्त्रशक्तिः तस्य वशे आसीत् खलु? तया शक्त्या राज्ञः आदरपात्रं भूत्वा वैशालीनगरे एव सुखेन जीवितुं शक्यम् आसीत् खलु? धनेन हेतुना पितुः एव स्वस्य अपि प्राणापायः सम्भवेत् इति कृष्णशर्मा किं भीतः? अथवा कारणान्तरम् अस्ति वा? राजन्! एतेषां सन्देहानाम् उत्तरं जानन् अपि यदि न वदति तदा भवतः शिरः सहस्रधा भिन्नं भवति इति उक्त्वा तूष्णिम् अभवत्।

राजा त्रिविक्रमः एवं प्रत्युत्तरं दत्तवान् – यथा पिता न तथा पुत्रः। पिता तु अत्याशाग्रस्तः। कृष्णशर्मा यत् अस्ति तेन तृप्तः भवति स्म। एतच्च पित्रा सह तस्य सम्भाषणतः एव ज्ञायते। धनाशया एव यद्यपि तस्य पिता हतः। तथापि तस्मात् भीतः सन् कृषणशर्मा गृहं न त्यक्तवान्। पितृसकाशात् सम्पादितायाः शक्तेः प्रयोगं परोपकारार्थम् एव कृष्णाशर्मा करोति स्म। सद्यःकाले वैशालीनगरे तस्याः शक्तेः आवश्यकता न आसीत्। चोरेभ्यः भीतिः तु नास्ति एव यतः तस्य धनार्जने अत्याशा न आसीत् एव। राजसम्मानं निराकृत्य गृहत्यागे कारणं तु अधिकधनार्जने विघ्नाः पुनःपुनः आगच्छेयुः इत्येव। पितृमरणेन एषः पाठः शिक्षितः इति।

एवं राज्ञः मौनभङ्गे जाते वेतालः शवेन सह अदृश्यः भूत्वा यथापूर्वं शाखायां लम्बमानः आसीत्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.