एकस्मिन् ग्रामे रामः नाम कृषिकः आसीत्। तस्य पित्रार्जिता किञ्चित् भूमिः आसीत्। रामः अतीव अलसः। श्रमेण सम्पादयितुं तस्य मनः न प्रवर्तते स्म। अतः तस्य पत्नी सर्वदा कृषिं न इच्छति चेत् मास्तु नाम। उपविश्य एव किमपि वाणिज्यं करोतु इति तर्जयति स्म।
रामः तु अस्मासु इदानीं का न्यूनता अस्ति? सुखेन एव जीवनं प्रचलति किल इति वदति स्म। सुखम् इत्यस्य अर्थः केवलं भोजनम् एव इति वा? भवत्याः कृते हारम् आभरणानि च कारयामि इति बहु दिनेभ्यः वदन् एव अस्ति। अद्यापि न कारितम्। निरीक्षणेन अहं श्रान्ता। भवतः आयेन अस्मिन् जन्मनि एतत् न शक्यते इति चिन्तयामि। किं वदामि मम अदृष्टम् इति पत्नी वदति स्म। रामः सर्वं श्रुत्वा अपि मौनं तिष्ठति स्म।
रामस्य मनसि अपि पत्न्याः कृते आभरणानि कारणीयानि इति आशा आसीत्। पत्नी आभरणानि धरति चेत् बन्धुषु गौरवं वर्धते इति सः अपि जानाति स्म। किन्तु स्वकीयेन आयेन केवलम् उदरम्भरणं भवति स्म। किञ्चिदपि सञ्चयः न शक्यते स्म।
एकस्मिन् दिने मित्रस्य समीपां गत्वा धनं सम्पादयितुं कः मार्गः सुलभः इति पृष्टवान्। सः बहु सूचनाः दत्तवान्। किन्तु रामः एकाम् अपि न अङ्गीकृतवान्। भवान् सर्वान् अपि क्लिष्टान् मार्गान् वदति। एते मार्गाः मह्यं न रोचन्ते। एकस्मिन् एव दिने सुलभेन बहु धनं येन लभ्यते तादृशः एकः मार्गः मम अपेक्षितः इति उक्तवान् रामः। कोऽयं विचारः भोः भवतः? एकस्मिन् एव दिने धनम् आवश्यकं चेत् चौर्यं करोतु। अन्यः मार्गः नास्ति इति उक्तवान् स्नेहितः।
रामः मनसि एव चिन्तितावान् चौर्यम् एव समीचीनम्। अस्मिन् ग्रामे सर्वे परिचिताः सन्ति। अतः अन्यं ग्रामं गत्वा तत्र चौर्यं करोमि इति। अपरस्मिन् दिने प्रातः एव उत्थाय रामः पत्नीम् आहूय अहं ग्रामान्तरं गत्वा धनं सम्पाद्य आगच्छामि। आगमनानन्तरं भवत्याः कृते सुवर्णहारं कारयामि। एतत् तु सत्यम्। भवत्याः अभीष्टं पूरयामि। गृहे सावधानेन तिष्टतु इति उक्त्वा गतवान्।
मध्याह्ने सः अन्यं ग्रामं गतवान्। तस्य ग्रामस्य विपणिं प्राप्तवान्। विपण्यां महत् वाणिज्यं प्रचलत् आसीत्। रामः तत्र विपण्यां यः कोऽपि धनिकः स्यात्। तम् अन्विष्य रात्रौ तस्य गृहं गत्वा चौर्यं करोमि इति चिन्तयित्वा एकैकम् अपि सध्यानं पश्यन् सञ्चरति स्म। सः तस्यां विपण्यां कृषिकदम्पतीं दृष्टवान्। तौ द्रष्टुं न धनिकौ। किन्तु तयोः सम्भाषणं श्रुत्वा रामः चकितः अभवत्। सुवर्णाभरणस्य स्यूतं पृथक् स्थापयतु। अन्यवस्तुभिः सह मेलनं न करोतु। गृहां गत्वा शीघ्रं तं स्यूतम् अन्तः स्थापयतु इति पतिः उक्तवान्।
तत् वचनं श्रुत्वा रामः तत्रैव स्थितवान्। अद्य मम समस्या परिहृता। धनं नीत्वा आभरणानि आनयामि इति चिन्तितवान् आसम्। इदानीं तु सिद्धम् आभरणम् एव लब्धम् इव। अहो मम सौभाग्यम् इति चिन्तयन् सः अतीव सन्तुष्टः। रामः ध्यानेन तौ दम्पतीं अनुसृतवान्। तयोः पृष्ठतः एव अटितवान्। सायं ताभ्यां सह एव तयोः ग्रामम् आगतवान्। रात्रौ रामः तयोः गृहं गत्वा भोः अहं दूरात् आगतवान्। एषः प्रदेशः मम अपरिचितः। रात्रौ भवतः गृहे स्थातुं मम कृते अवकाशः दातव्यः इति प्रार्थितवान्। सः कृषिकः आदरेण अवश्यम् अस्तु। आनन्देन तिष्ठतु। अद्य किं यावत्पर्यन्तम् अस्मिन् ग्रामे भवान् तिष्ठति तावत्पर्यन्तम् अत्र एव वसतु इति उक्तवान्।
तस्मिन् दिने रात्रौ कृषिकस्य पत्नी रामस्य कृते मिष्टान्नभोजनं परिवेषितवती। अधिकं खादामि चेत् रात्रौ निद्रा आगच्छति। तदा चौर्यं कर्तुम् न शक्यते इति चिन्तयित्वा किञ्चित् एव भुक्तवान् रामः। रात्रौ निद्राकरणतः पूर्वं कृषिकः पत्नीम् आहूय उक्तवान् – सुवर्णाभरणस्य स्यूतः सुरक्षितः अस्ति किल? अलक्ष्यं क्रियते चेत् मूषिकाः स्यूतं कर्तयेयुः इति। तदा पत्नी उक्तवती अत्रैव उपरि कपाटिकायां स्थापितवती अहम् इति। तत् वचनं श्रुत्वा रामः मनसि एव मम कार्यं फलितम् इति चिन्तितवान्। सः तत् स्थानां सम्यक् दृष्ट्वा शयनं कृतवान्। मध्यरात्रे सः उत्थाय तयोः कृषिकदम्पत्योः शयनगृहं गतवान्।
कृषिकः गाढनिद्रायां मग्नः आसीत्। तस्य पत्नी अपि आपादमस्तकं शरीरम् आच्छाद्य गाढं सुप्तवती आसीत्। एतौ अतीव अजागरूकौ। एतावत् सुवर्णम् एवम् एव स्थापयित्वा निर्भयेन कः वा निद्रां करोति। तथापि मम सौभाग्येन एव एवम् अभवत् इति चिन्तयन् रामः कपाटिका सामीपं गतवान्। कपाटिकायां एकः स्यूतः आसीत्। सः स्यूतः किञ्चित् बृहदाकारकः भारयुतः च आसीत्। केवलम् आभरणेन स्यूतः एतावान् भारयुतः न भवति। धान्येषु आभराणं स्थापितं स्यात् इति चिन्तयित्वा रामः स्यूतं वलेन आकृष्टवान्। किन्तु तास्मिन् साहसे सः तत्रैव स्थितम् एकम् आसनं पातितवान्।
अस्मिन् कोलाहले कृषिकाः जागरितः। महान्तं शब्दं श्रुत्वा तस्य पत्नी अपि जागरिता। रामः तयोः पुरतः लज्जया नतमस्तकः भूत्वा स्थितवान्। पलायितुम् अपि तस्य अवकाशः न आसीत्। रे! भवान् वा? भवतः तत्र किं कार्यम् आसीत् इति कृषिकः पृष्टवान्। रामः तूष्णीं स्थितवान्। तदा कृषिकः आभरणम् आवश्यकं वा? तस्मिन् स्यूते किमपि नास्ति। सः स्यूतः उत्तमबीजैः पूरितः आस्ति तावदेव। तत्र बीजान् विना अन्यत् किमपि नास्ति इति उक्त्वा उच्चैः हसितवान्। द्रष्टुं मान्यः इव अस्ति भवान्! चौर्यं करोति वा इति पत्नी पृष्टवती।
रामः – अहं न चोरः। भवन्तः बहु सज्जनाः। अपरिचितेषु भवन्तः एवं सौजन्यं प्रदर्शयन्ति चेत् महते कष्टाय भवति। अतः सुवर्णम् अन्यत्र स्थापयित्वा भवत्सु किञ्चित् भयम् उत्पाद्य अनन्तरं ददामि इति चिन्तितवान् आसम्। किन्तु स्यूते आभराणानि न आसन्। अतः भवद्भिः अहं वञ्चितः इति उक्तवान्।
कृषिकः पुनः हसन् उक्तवान् – भवतः उद्देशः यः कोऽपि भवतु। अस्माकम् उद्देशः न तथा। अस्माकं गृहे सुवर्णस्य नाम अपि नास्ति। चतुर्वषपर्यन्तम् अहं अन्येषां भूमौ कृषिं कृतवान्। धनं सङ्गृह्य अहं किञ्चित् भूमिं क्रीतवान्। अस्यां भूमौ कृषिं करोमि चेत् एकस्मिन् वर्षे एव अहं बहूनि आभरणानि क्रेतुं शक्नोमि। बहुदिनेभ्यः स्थितं तस्याः अभीष्टं साधयामि इति अस्ति विश्वासः। अतः एव भीजस्य एव आभरणम् इति नाम दत्वा व्यवहारः कृतः अस्माभिः इति।
किञ्चित् प्रदेशे कृषि क्रियते चेत् एकस्मिन् एव वर्षे पत्न्याः कृते एषः कृषिकः बहूनि आभरणानि कारयितुं शक्नोति। मम तु अस्य अपेक्षया अधिकपरिमिता भूमिः अस्ति। आलस्यं त्यक्त्वा कार्यं करोमि चेत् अधिकं सम्पादयितुं शक्नोमि। पत्न्याः कृते सुवर्णमालां किं सकलानि आभरणानि कारयितुं शक्नोमि इति चिन्तयित्वा रामः तयोः दम्पत्योः कृतज्ञतां समर्पितवान्।
भवतोः सहवासेन मम अज्ञानं दूरं गतम् इतःपरं अहं श्रमेण कृषिकार्यं करोमि इति उक्त्वा सः स्वगृहं गतवान्।