ब्रह्मदत्तः काशीं पालयन् आसीत्। तेषु दिनेषु बोधिसत्वः वानररूपेण जन्म प्राप्तवान्। तस्य नाम आसीत् नन्दीयः। नन्दीयस्य एकः सहोदरः अपि आसीत्। नन्दीयः हिमालयपर्वतप्रदेशे निवसताम् अशीतिसहस्रवानराणां नायकः आसीत्। नन्दीयस्य माता वृद्धा। तस्याः पालनपोषणं नन्दीयस्य एव। नन्दीयः तदीयेन अनुजेन सह प्रतिदिनम् अरण्यसञ्चारं कृत्वा मधुराणि विविधफलानि आनयति स्म। सेवकद्वारा तानि फलानि मातुः समीपं प्रेषयति स्म।
एकस्मिन् दिने नन्दीयः मातरं द्रष्टुम् आगतवान्। मातरं दृष्ट्वा चकितः खिन्नः च नन्दीयः उक्तवान् अम्ब भवती किमर्थम् एवं दुर्बला जाता? अहं तु प्रतिदिनं मधुराणि फलानि यथेष्टं प्रेषितवान् एव। तानि भवती न खादति वा? किमर्थं भवती एवं दुर्बला? कोऽपि रोगः भवतीं न बाधते किल इति। पुत्र भवान् प्रतिदिनं फलानि प्रेषितवान् वा? मया कदापि तानि न प्राप्तानि एव। यदि पौष्टिकानि फलानि लभ्येरन् अहं कुतः दुर्बला भवामि स्म? वृद्धा अहम् स्वयं बहिः गत्वा आहारं सम्पादयितुम् अशक्ता इति उक्तवती सा माता।
नन्दीयः एतत् श्रुत्वा खिन्नः। किं प्रवृत्तं स्यात् इति सः ज्ञातवान्। त्वरयाहिमालयं प्राप्तवान्। तत्र अनुजं समग्रं वृत्तान्तम् श्रावयित्वा उक्तवान् अनुज अहं गृहे स्थित्वा मातुः योगक्षेमस्य व्यवस्थां करिष्यामि। भवान् अत्र एव स्थित्वा अस्माकं गणस्य व्यवस्थां परिशीलयतु इति। सहोदर अहम् अपि भवता सह आगमिष्यामि। मातुः योगक्षेमव्यवस्थ्तायां साहाय्यं करिष्यामि इति उक्तवान् अनुजः। एवं चिन्तयित्वा उभौ अपि गृहं प्राप्तवन्तौ। तत्र एकस्मिन् विशालवृक्षे उत्तमं गृहं निर्माय तत्र मातरं स्थापितवन्तौ। श्रद्धया तस्याः सेवां कर्तुम् आरब्धवन्तौ।
तेषु दिनेषु कश्चित् ब्राह्मणपुत्रः तक्षशिलायां प्रसिद्धस्य गुरोः समीपे विद्याभ्यासं कुर्वन् आसीत्। विद्याभ्यासं समाप्य सः स्वप्रदेशं गन्तुं गुरोः अनुमतिं पृष्टवान्। गुरुः शिष्यम् उपदिष्टवान् शिष्योत्तम! भवान् श्रद्धया विद्याम् अर्जितवान्। एतेन अहं सन्तुष्टाः अस्मि। भवता अविचार्य कदापि कार्यं न करणीयम्। अविचार्य कृतं चेत् भवतः नाशः अपि भवेत्। अतः जागरूकः भवतु। एषः एव मम उपदेशः इति। अनन्तरम् आशीर्वादपूर्वकं तं प्रेषितवान्।
गुरुणा अनुमतः सः युवकः काशीनगरं प्राप्तवान्। विवाहितः भूत्वा गृहस्थधर्मम् अपि आश्रितवान्। उदरपूरणार्थं सः कमपि निश्चितं मार्गां न अनुसृतवान्। एवम् एव दिनानि अतीतानि। अन्ते सः मृगयावृत्तिम् आश्रितवान्। पशुपक्षिणां मारणं कृत्वा मांसविक्रयणं कुर्वन् सम्पादितेन धनेन कुटुम्बपोषणं करोति स्म। ब्राह्मणस्य मृगया निषिद्धा। एतत् जानन् अपि सः मृगयां वृत्तिरूपेण आश्रितवान्। सः वा किं करोति? कथञ्चित् उदरं पूरणीयं किल?
एकस्मिन् दिने समग्रे अरण्ये अटिते अपि कुत्रापि कोऽपि पशुः न लब्धः। निराशः सः प्रत्यागमनसमये एकं वृक्षं दृष्टवान्। तदा तत्र नन्दीयः मातरं भोजयित्वा तस्याः पृष्ठतः अनुजेन सह उपविष्टः आसीत्। ते तं युवकं दृष्टवन्तः। रिक्तहस्तः कथम् अहं गृहं गमिष्यामि इति सः युवकः चिन्तितवान्। वृद्धमातरं वानरीम् उद्दिश्य बाणप्रयोगार्थां सिद्धः अभवत्। एतत् नन्दीयः दृष्टवान्। सः अनुजम् उक्तवन् अनुज तत्र पश्यतु सः युवकः इदानीं मातरम् उद्दिश्य बाणप्रयोगां करोति। अहं भाणस्य लक्ष्यः भविष्यामि। मम मरणानन्तरं भवान् मातुः पालनपोषणादिकं करोतु। एवम् उक्त्वा सः वृक्षतः अधः आगतवान्।
तत्र तं युवकम् उक्तवान् मित्र भवान् मम मातरं न मारयतु। सा च वृद्धा। तस्याः मारणस्य अपेक्षया भवान् माम् एव मारयतु इति। अस्तु नाम इति वदन् सः दुष्टः ब्राह्मणयुवकः नन्दीयम् एव मारितवान्। एतावता अपि सः युवकः न तृप्तः। नन्दीयस्य मारणानन्तरं सः पुनः अपि वृद्धमातरं मारयितुम् उद्युक्तः। एतत् दृष्ट्वा नन्दीयस्य अनुजः अधः आगतवान्। नन्दीयेन उक्तानि वचनानि पुनरुच्चरितवान्। युवकः तस्य वचनानि अङ्गीकृतवान्। तथैव तम् सहोदरं निर्दयं मारितवान् च। युवकः चिन्तितवान् अद्य एतावत् एव पर्याप्तम् इति। किन्तु अन्यक्षणे एव तस्य विचाराः परिवृत्तः। निर्दयः सः तस्याः तृतीयायाः वृद्धायाः वानर्याः उपरि अपि बाणप्रयोगं कृतवान्। तां मारितवान् च।
अनन्तरं सः त्रीन् अपि वानरान् एकस्मिन् दण्डे बद्ध्वा स्वगृहं गतवन्। ग्रामस्य सीमायाम् एव तेन वार्ता प्राप्ता यत् तदीयं गृहम् अग्निना ज्वलत् अस्ति। पत्नीपुत्रादयः अन्तः एव सन्ति इति। सः धावन् महता धैर्येण दह्यमानं गृहं प्रविष्टावान्। तदा अकस्मात् भूमिः विभक्ता। एषः कया अपि शक्त्या अधः नीयमानः इव भूमिकुहरं प्रविष्टः। सः मनसि एव खेदम् अनुभूतवान् मदीयः आचार्यः उक्तवान् आसीत् यत् क्रूरं कर्म न करणीयम् इति। तथापि अहम् कृतवान्। तस्य फलम् इदानीं मया अनुभूयते। इदानीं पश्चात्तापेन किं प्रयोजनम्? अहं विनाकारणं निरपराधिनां वानराणां हननं कृतवान्। एवं यदि मया न कृतं स्यात् तर्हि मम गृहं न अज्वालयिष्यत् पत्नीपुत्राः न अमरिष्यन् च इति। एवम् चिन्तयता तेन नरकलोकः प्राप्तः।