Sanskrit Learners Club

Where we Learn from Each Other

Curse is also Boon

Source - Sanskrit Chandamama |

| December |

| 1984

Seetarama was a poor villager. He used to sell fruits in market and lived with his wife Nagamba. Once when he was returning home, on the way in the forest suddenly he felt his basket became heavy. He found Forest Goddess wanted to ride on his shoulders and blessed him with a boon. But he asked for a basket full of mango fruits. His wife unhappy with his act fired him and what happened next why the forest goddess cursed him, how it turned to his favor is the story.

शापोऽपि वरतुल्यः

पुरा धर्माङ्गणनगरे सीतारामः इति कश्चित् वणिक् आसीत्। सः फलवाटिकासु गत्वा विविधफलानि क्रीत्वा नगरस्य मार्गे मार्गे प्रातः कालतः सायं पर्यन्तं सञ्चरन् तेषां विक्रयनं करोति स्म। तदा तदा फलविक्रयणार्थं नगरं परितः स्थितान् ग्रामान् अपि गच्छति स्म। एवंरीत्या सः जीवननिर्वहणं करोति स्म।

एकदा सीतारामः फलानि गृहीत्वा रामपुरं गतवान्। तद्दिने तत्र साप्ताहिकं वाणिज्यम् आसीत्। महान् जनसम्मर्दः आसीत्। अतः सर्वाणि फलानि सलीलं विक्रीतानि। सायङ्काले सीतारामः रिक्तं फलकण्डोलं मस्तके स्थापयित्वा गृहं प्रति प्रस्थितवान्। रामपुरतः धर्माङ्गणपर्यन्तम् एकम् अरण्यम् आसीत्। सर्वत्र अन्धकारः जातः। तदा मस्तके स्थितः रिक्तकण्डोलः सहसा गुरुभूतः जातः। अये! किमिदं जातम्!

एतत् विचित्रं दृष्ट्वा भीत्या सः किञ्चित् कम्पितः। किन्तु उत्तरक्षणे धैर्यम् अवलम्य्य कण्डोलं मस्तकतः अवतार्य भूमौ स्थापितवान्। कण्डोलः रिक्तः एव आसीत्। अहो! प्रायः अहमेव भ्रान्तः इति चिन्तयन् सीतारामः पुनः कण्डोलं मस्तके स्थापयित्वा अग्रे प्रस्थितः तदा कण्डोलः पुनः पूर्ववत् भारभूतः जातः। का इयं माया! नूनं कस्यचित् पिशाचस्य उपद्रवः एषः इति चिन्तयन् सीतारामः भयग्रस्तः अभवत्। वत्स सीतारम! किं भितः इति एकः सुमधुरः कण्ठस्वरः श्रुतः।

तत् वचनं श्रुत्वा सीतारामः धैर्यं प्राप्य कुतः भीतिः? मया कः अपराधः कृतः? भयं किमपि नास्ति। कः भवान्? कस्मात् स्थानात् वदति? मम कण्डोलस्य भारस्य भवान् एव कारणं वा इति पृष्टवान्। भवतः संशयः यथार्थः एव। किन्तु न अहं पिशाचो वा भूतो वा। अहं वनदेवता अस्मि। मानवस्य मस्तके उपविश्य किञ्चित् दूरं सुखेन गन्तव्यम् इति चिरात् मम महती आशा आसीत्। अद्य भवता मम आशा सफलीकृता। इदानीं भवतः किमपि उपकारं कर्तुम् इच्छामि। तत्र दृश्यते खलु अश्वत्थवृक्षः तत्रैव मम वासस्थानम् अस्ति। माम् एवमेव वहन् तावत्पर्यन्तं नयतु इति वनदेवता उक्तवती।

अस्तु इति उक्त्वा सीतारामः महता कष्टेन अश्वत्थवृक्षपर्यन्तं वनदेवतां वहन् गतवान्। अलं एतावता। महान् प्रमोदः जातः। कण्डोलम् अधः अवतारयतु इति वनदेवता सन्तोषेण उक्तवती। सीतारामः कण्डोलं शनैः अधः स्थापितवान्। वनदेवता कण्डोलतः अवतीर्य दृष्टिगोचरा भूत्वा भवान् यत् इच्छति तत् पृच्छतु इति उक्तवति। अहं किमपि न इच्छामि। एतावता एव विमोचनं दत्तवती खलु तादेव मम भाग्यम् इति दीर्घं निश्वसन् सीतारामः उक्तवान्।

संशयः मास्तु सीताराम! धैर्येण पृच्छतु इति पुनः वनदेवता आग्रहपूर्वकं पृष्टवती। एवं तर्हि मम रिक्तः कण्डोलः मधुरैः आम्रफलैः यथा पूर्णः भवेत् तथा करोतु। श्वः अन्यं ग्रामं गत्वा विक्रयणं करोमि इति उक्तवान् सीतारामः। एतावत् अल्पं प्रयोजनं पृच्छति वा? अस्तु यदा भवान् स्वीयग्रामसमीपं गच्छति तदा कण्डोलः फलैः पूर्णः भविष्यति इति वनदेवता उक्तवती। सीतारामः स्वीयम् असन्तोषं प्रकटयन् उक्तवान् भवती यत् दातुम् इच्छति तत् अत्र एव ददातु। विलम्बः किमर्थम्? भवती प्रायः मां वञ्चयति इति।

तस्य वचनं श्रुत्वा वनदेवता उच्चैः हसन्ती नूनं भवान् अतीव मुग्धः। भवतः ग्रामः इतः वहुदूरे अस्ति। तावत्पर्यन्तं फलयुक्तकण्डोलवहने क्लेशदायकं भवति इति अहं तथा उक्तवती। भवतु भवतः इच्छानुसारेण इदानीम् एव भवतः कण्डोलः मधुरैः आम्रैः पूर्णः भवति इति उक्त्वा वनदेवता अगोचरा अभवत्। सीतारमः फलकण्डोलं मस्तके वहन् गृहं गतवान्। फलपूर्णं कण्डोलं दृष्ट्वा तस्य पत्नी नागम्बा हन्त हन्त! किमिदं भोः? अद्य विपण्यां न कोऽपि फलानि क्रीतवान् वा इति पृष्टवती। सीतारामः सर्वं वृत्तान्तं तस्याः पुरतः कथितवान्।

तत्सर्वं श्रुत्वा सा क्रोधेन दुःखेन च हा हन्त कीदृशी मन्दबुद्धिः भवतः। एतादृशः सुवर्णावकाशः नष्टाः किल? महाशक्तिसम्पन्नायाः वनदेवतायाः पुरतः केवलं फलानां प्रार्थना वा? यथा अस्माकं दारिद्रयस्य नाशः भवेत् तथा बहुमूल्यानि रत्नानि या माणिक्यानि वा प्रष्टुम् अपि विवेकः न आसीत् वा? कीदृशी मूर्खता इति प्रलपितवती। अनन्तरं नागाम्बा कण्डोलतः एकं गृहीत्वा छुरिकया तस्य एकं शकलं छित्वा खादितवती। तदा महता आश्चर्येण अहो! कीदृशी स्वादुता। मम जन्मनः आरभ्य एतादृशं स्वादुफलं न खादितवती। भवान् अपि खादतु। एकैकस्य फलस्य दशरूप्यकाणि इति वदतु। जनाः अहमहमिकया क्रीणन्ति इति उक्तवती।

परेद्युः सीतारमः वेङ्कटपुरं गत्वा तत्र विपण्याम् एकैकस्य फलस्य दशरूप्यकाणि इति वदन् उपविष्टवान्। तस्य वचनं श्रुत्वा जनाः हसन्तः तथैव गतवन्तः। अन्ते एकः धनवान् एकं फलं क्रीत्वा तस्य स्वादुताम् आस्वाद्य महता आनन्देन पुनः दशफलानि क्रीतवान्। तम् दृष्ट्वा अन्ये जनाः उत्तरक्षणे एव अवशिष्टानि सर्वाणि फलानि क्रीतवन्तः। सीतारामः तस्मिन् दिने दशगुणितं लाभं प्राप्तवान्। तेन अतीव सन्तुष्टः सः गृहं गतवान्। अनन्तरं सीतारामः यथाक्रमम् एकं फलवाटिकां गत्वा उत्तमानि आम्रफलानि क्रीत्वा वेङ्कटपुरस्य पार्श्वे स्थितं ग्रामं गतवान्। किन्तु तत्र तस्य फलानि न कोऽपि क्रीतवान्। ह्यः वेङ्कटपुरे यादृशानि फलानि अनीतानि तादृशानि एव आनयतु इति उक्त्वा गतवन्तः। तेन सीतारामः चिन्ताग्रस्तः जातः।

सायङ्कालानन्तरं सीतारामः वनदेवतायाः अश्वत्थवृक्षस्य समीपं गत्वा उच्चस्वरेण भोः वनदेवते! भवती शुभकामनया मह्यं यत् दत्तावती तेन इदानीं मम महत् अनिष्टं जातमस्ति इति आक्रोशं कर्तुम् आरब्धवान्। तदा वनदेवता तस्य पुरतः प्रत्यक्षा भूत्वा वत्स कुतः? किं जातम् इति पृष्टवती। सीतारामः जातां घटनां कथितवान्। वनदेवता तस्य विषये दयार्द्रा भूत्वा एवं जातं वा? भवतु। अन्यत् किमपि पृच्छतु दास्यामि इति उक्तवती। तर्हि मह्यं एतत्कण्डोलपूर्णं सुवर्णमेव ददातु इति पृष्टवान् सीतारामः। इदं गृह्णातु। किन्तु जागरूकतया एतत् नयतु इति उक्त्वा वनदेवता तिरोभूता।

सीतारामः सुवर्णपूर्णं कण्डोलं मस्तके स्थापयन् गृहं प्रति प्रस्थितवान्। किन्तु मार्गे वीरभद्रः इति कश्चित् कुख्यातः चोरः सहसा तस्य पुरतः आगत्य आम्रफलानां कण्डोलं अधः स्थापयित्वा तूष्णीं धावतु। किमपि प्रत्युत्तरं मास्तु इति आग्रहात् उक्तवान्। आम्रफलानां कृते प्राणान् अपि त्यजामि इति वचनं श्रुत्वा वीरभद्रः आश्चर्येण अहमेव वीरभद्रः जानाति वा इति उक्त्वा कठिप्रदेशे स्थितं खड्गं गृहीतवान्। द्वयोः मध्ये परस्परम् आक्रमणं सञ्जातम्। महाबलिष्ठः चोरः वीरभद्रः सीतारामं हन्तुं न अपेक्षितवान्। केवलां तं भापयितुं तस्य भुजे खड्गेन एकं क्षतं कृतवान्।

सीतारामः उच्चैः आक्रोशं कुर्वन रे वीरभद्र! एतावत् सुवर्णम् अपहृत्य भवान् कदापि सुखेन न जीवति इति उक्त्वा ततः धावितावान्। वीरभद्रस्य सम्पूर्णविषयं महाराजः जानाति स्म। तं हत्वा वा जीवन्तम् एव वा यः आनयति तस्मै लक्षरूप्यकाणि बहुमानरूपेण दीयन्ते इति सः उद्घोषणं कारितवान् आसीत्। परेद्युः सीतारामः अश्वत्थवृक्षस्य समीपं गत्वा वनदेवताम् आहूय जातं सर्वं वृत्तान्तम् उक्तवान्। तस्य कथनं श्रुत्वा वनदेवतायाः मुखं क्रोधेन आरक्तं जातम्। भवान् अतीव मन्दभाग्यः। इतःपरं कदापि अस्य अश्वत्थवृक्षस्य छायामपि न स्पृशतु इति सा उक्तवती।

तस्याः वचनं श्रुत्वा सीतारामः अपि क्रोधेन यदा भवती मम मस्तकस्थिते कण्डोले उपविश्टवती तदारभ्य मम दुष्कालस्य आरम्भः अभवत् इति निन्दितवान् तत्वचनं श्रुत्वा वनदेवता पूर्वापेक्षया अधिककोपेन रे क्षुद्रमानव! माम् एव भवान् भाययति वा? भवतः दुर्लक्षणं मुखं अत्र पुनः कदापि न प्रदर्शयतु। अपि च अद्य भवतः मुखे प्रथमतया यः द्रक्ष्यति सः रक्तं वमन् मरिष्यति। गच्छतु इतः इति शापं दत्त्वा अगोचरा जाता। दुःखेन चिन्तयन् अधोमुखः भूत्वा सीतारामः गच्छति स्म। तदा पार्श्वस्थवृक्षतः महान् अट्टहासशब्दः श्रुतः।

सीतारामः तस्मिन् पार्श्वे दृष्टवान्। किं रे पुनः सुवर्णं न आनीतवान् वा इति पृच्छन् चोरः वीरभद्रः तस्य पुरतः आगतवान्। तत्क्षणमेव हा इति आक्रोशनं कुर्वन् रक्तं वमन् तत्रैव पतित्वा प्राणान् त्यक्तवान्। तदा सहसा सीतारामाः महाराजस्य उद्घोषणं स्मृतवान्। सः चोरस्य शवं भुजे आरोप्य नगरं गतवान्। तेन सह सम्यक् मुष्टामुष्टिकलहं कृत्वा तम् अहं हतवान् इति ग्रामस्थान् कथितवान्। अनन्तरं सप्ताहाभ्यन्तरे महाराजः सीतारामम् आहूय वीरभद्रस्य नाशनेन सन्तुष्टः सन् लक्षरूप्यकाणि बहुमानरूपेण दत्तवान्।

वनदेवता क्रोधेन शापं दत्तवती। किन्तु सः शापः अपि अनुग्रहरूपः एव जातः इति सीतारामः महान्तं सन्तोषं प्राप्तवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.