Sanskrit Learners Club

Where we Learn from Each Other

Ambaapur

Source - Sanskrit Chandamama |

| December |

| 1984

Once a king Chakradhara felt his palace is very old and instead of renovating and remodeling it, better to leave the palace and build a new one. He went in search of a place and found a beautiful and lovely place. There he found an old hut in which lived an old lady of 90 years old. The king’s staff persuaded her to leave the hut and get compensation. But she did not leave and what she said was a lesson learnt by the king. Then what happened is the story.

अम्बापुरम्

पूर्वम् अनङ्गराज्यम् चक्रधरमहाराजः परिपालयति स्म। तदीयं राजभवनम् अतीव पुरातनम् आसीत्। सहस्रशवर्षेभ्यः पूर्वम् एतत् भवनं निर्मितम् आसीत्। महाराजः चिन्तितवान् गृहस्य समीकरणम् अपव्ययाय एव। महता व्ययेन समीकृतं चेत् अपि एतत् शोभायमानं न दृश्यते इति।

चक्रधरः एतस्य पुरातनभवनस्य विषये एव सर्वदा चिन्तयति। आत्मग्लानिम् अनुभवति। अन्ते सः मनसि एकं निर्णयम् अङ्गीकृतवान् पुरातनभवने निवासः महाराजस्य मम अगौरवकरम्। अतः अहम् एतत्क्षणे एव एतत्गृहं त्यक्त्वा निर्गच्छामि। यत्र सुन्दरं स्थलं दृश्यते तत्र नवीनं राजभवनं निर्मापयिष्यामि इति। एतत्समनन्तरम् एव सः स्वपरिवारेण सह ततः निर्गतवान्। सुन्दरं स्थलं अन्विश्य गच्छन् एकस्याः नद्याः तीरं प्राप्तवान्।

नदीतीरप्रदेशस्य सौन्दर्यं दृष्ट्वा राजा परमानन्दितः। अवर्णनीयेन आनन्देन सः पुलकितः। नदीतीरे सर्वत्र हरिद्वर्णः दृश्यते स्म। उन्नताः वृक्षाः शीतलः सुगन्धयुतः च वायुः! पक्षिणां मधुरः कलरवः एतस्य प्रदेशस्य रमणीयतां वर्धयति स्म। नद्याः कलकलनिनादः मञ्जुलतया श्रूयते स्म। एतं प्रदेशम् आगतः महाराजः नवोत्साहं प्राप्तवान्। राजा निश्चितवान् एषः प्रदेशः अतीव रमणीयः अस्ति। जलविहारार्थं पार्श्वे एव नदी अपि अस्ति। अस्मिन्नेव विशालप्रदेशे मदीयं राजभवानं निर्मापयामि इति। अतः एषः प्रदेशः कस्य इति विचार्य आगच्छन्तु इति सेवकान् आज्ञापितवान्।

सेवकाः तस्य प्रदेशस्य स्वामिनम् अन्विष्यन्तः ततः निर्गताः। समीपे एव तैः एकः कुटीरः दृष्टः। सर्वे कुटीरस्य समीपं गतवन्तः। राजा अपि तान् अनुसृतवान्। गृहस्य अन्तः नवतिवर्षीया एका वृद्धा उपविष्टा आसीत्। स्वयं महाराजः तदीयाः परिवारजनाः च मम कुटीरम् आगतवन्तः इति ज्ञात्वा सा सन्तुष्टा। आदरपूर्वकं सर्वेषां सत्कारं कृत्वा सा पृष्टवती महानुभावाः भवन्तः किमर्थम् अत्र आगताः इति अहं न जानामि। मत्तः किमपि अपेक्षन्ते वा इति।

तदा मन्त्री उक्तवान् आर्ये एतं प्रदेशं दृष्ट्वा अस्माकं प्रभुः आकृष्टः अस्ति। अत्र एकं राजभवनं निर्मातव्यम् इति महाराजस्य इच्छा। एतदर्थं विशालः प्रदेशः अपेक्षितः किल? अतः भवत्याः कुटिरम् इतः निष्कासयितुम् इच्छामः। भवती प्रतिफलरूपेण किम् इच्छति वदतु इति। तदा वृद्धा उक्तवती मन्त्रिमहोदय महाराजस्य भवननिर्माणे अहं किं विरोधं प्रकटायामि वा? राजभवननिर्माणं मम अपि सन्तोषाय एव। किन्तु पश्यतु एषः कुटीरः मम प्रपितामहस्य प्रपितामहेन ततोऽपि पूर्वजेन वा निर्मितः। इदानीम् अहम् वृद्धा अस्मि। दारिद्र्यपीडिता अहां कुटीरस्य समीकरणे अपि असमर्था। तथाऽपि अहम् इतः अन्यत्र न गच्छामि। दैवम् अनुकूलं चेत् कदाचित् अहं कुटीरस्य समीकरणं कारयिष्यामि एव। मरणतः पूर्वम् एतत् साधयित्वा गृहं मम पुत्र्यै दातुम् इच्छामि अहम्। अतः कृपया क्षाम्यतु एतत् कुटीरम् अहं न त्यजामि।

मन्त्री वृद्धां पुनः बोधितवान् आर्ये! भवत्याः वचनम् अहम् अङ्गीकरोमि। किन्तु अशक्यस्य विषये भवत्या आशा न प्रदर्शनीया। भवती एतत् लघुप्रदेशं त्यजतु। प्रतिफलरूपेण राज्ये भवती यत्र इच्छति तत्र दशगुणिता भूमिः दीयते। अथवा धनम् एव आवश्यकं चेत् भवती यावात् इच्छति तावत् दीयते। भवत्याः इच्छां निस्सङ्कोचं वदतु। एतत्क्षणे एव तां पूरयिष्यामः वयम्। एतत् श्रुत्वा वृद्धा निर्भयपूर्वकं उक्तवती महोदय अहं विशालं प्रदेशां वा धनराशिं वा न इच्छामि। पूर्वजैः निर्मितम् एतं कुटीरं त्यक्तवा गन्तुम् अहं न इच्छामि एव। यदि इच्छति भवदीयः महाराजः अस्मिन् विशाले प्रदेशे अन्यत्र कुत्रापि राजभवनस्य निर्माणं करोतु नाम। महाराजं वदतु पुनः कुटीरत्यागविषये आग्रहः न करणीयः इति।

वृद्धायाः एतत् वचनं श्रुत्वा राजपरिवारस्य सर्वे सदस्याः कुपिताः। मन्त्री कोपेन उक्तवान् वृद्धे भवती केन सह वार्तालापं कुर्वती अस्ति इति स्मरति किल? अल्पः कुटीरः कुत्र? राजा कुत्र? कीदृशम् औद्धत्यम् एतत्! रे भटा! इदानीम् एव एतत् कुटीरम् उन्मूलयन्तु इति। तदा राजा अग्रे आगत्य सर्वान् शान्तं स्थातुम् उक्तवान्। यतः सः एकः एव वृद्धायाः वचनानि सश्रद्धं श्रुतवान् आसीत्। वचनस्य मर्म अपि ज्ञातवान् आसीत्। वृधायाः वचनेन महाराजस्य अज्ञानं दूरङ्गतम् आसीत्।

जन्मस्थानविषये वृद्धायाः ममतां पूर्वजानां विषये श्रद्धां भक्तिं च दृष्ट्वा राजा विस्मितः। एतेन आत्मना यः सङ्कल्पः कृतः आसीत् साः कीदृशः दोषपूर्णः इति राजा ज्ञातवान्। वृद्धायाः यावान् विवेकः अस्ति तावान् विवेकः मम नास्ति किल इति राजा खेदम् अनुभूतवान्। अनन्तरं राजा मन्त्रिनं परिवारसदस्यान् च समीपे आहूय उक्तवान् एतया वृद्धया अम्बया अहं सम्यक् शिक्षितः। पुरातनस्य राजभवनस्य जीर्णोद्धारपूर्वकं मया पूर्वजानां गौरवां रक्षणीयम् आसीत्। किन्तु अहं मदीयं कर्तव्यं विस्मृतवान्। भाग्यवशात् वयम् अत्र आगतवन्तः। एषा अम्बा मदीयं कर्तव्यं स्मारितवती।

इदानीम् अहं राजभवनं न प्रविशामि। अस्य वृक्षस्य अधः एव निवसामि। अत्र एव स्थित्वा राजभवनस्य जीर्णोद्धारं करिष्यामि। एवं पूर्वजैः निर्मितं भवनं यदा नवीकृतं भविष्यति तदा एव राजभवने मम प्रवेशः भविष्यति। तावत्पर्यन्तं मम वासः अत्र एव। एवं राजा स्वकीयं निर्णयम् उद्घोषितवान्। महाराजस्य वचनस्य तात्पर्यं कैश्चित् एव ज्ञातम्। अवशिष्टाः सर्वे महाराजः मतिविकलः इति चिन्तितवन्तः। राजा तु तद्दिनात् एव वृक्षस्य अधः स्वकीयां वसतिम् आरब्धवान्।

अल्पे एव काले सः प्रदेशः नगररूपेण परिवर्तितः। अस्मिन् नगरे यथेष्टं सस्यसमृद्धिः अपि अस्ति। अतः नगरस्य आधुनिकता ग्रामस्य सौकर्यम् उभयम् अपि तत्र सम्मिलितम् आसीत्। अस्मिन् नगरे कुटीराः निर्मिताः। प्रासादाः राजभवनानि च निर्मितानि। तथापि वृद्धायाः सः पुरातनः कुटीरः अबाधितम् आसीत्। यतः राजाज्ञा एव तथा आसीत् यत् केनापि वृद्धायाः कुटीरः न निष्कासनीयः इति। वृद्धायाः विषये कृतज्ञतां प्रकटयन् राजा तस्याः कुटीरं नवीकारितवान्। एतावदेव न तत्परिसरे यत् नगरं निर्मितं तस्य नाम अम्बापुरम् इत्येव निश्चितवान्।

एतदनन्तरं महाराजः चक्रधरः वंशपरम्परातः प्राप्तं प्राचीनं राजभवनम् अपि नवीकारितवान्। स्वयम् एव कार्यं परिशीलयन् तत् भवनं सुन्दरं सुदृढं च कारितवान्। इदानीं तत् भवनं सद्योनिर्मितमिव शोभते! चक्रधरः तत् राजभवनं स्वकीयराजकार्यानां केन्द्रं कृतवान्। किन्तु वसतिः तु अम्बापुरे निर्मिते स्वभवने एव। प्रतिदिनं पूर्वजनिर्मितं तत् राजभवनं गत्वा राजकार्याणि सर्वाणि समाप्य प्रत्यागच्छति स्म सः। एवम् अम्बापुरे निवसन् राजा सुखेन जीवति स्म। तस्य प्रजाः अपि सुखेन जीवन्ति स्म।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.