प्राचीनकाले आत्रेयपुरे पङ्कजनाभः नाम धनिकः आसीत्। तस्य सेवकः गिरीशः। सः बहु विस्मरणशीलः आसीत्। किन्तु सः कर्मशीलः। निन्दितः अपि कुपितः न भवति। अतः प्रमादे कृते अपि धनिकः तं क्षाम्यति।
एकस्यां रात्रौ धनिकः उदरवेदनया पीडितः अभवत्। सः गिरीशम् आहूय – वैद्यस्य शेषाचार्यस्य गृहं गत्वा उदरवेदनायाः औषधम् आनयतु इति उक्त्वा प्रेषितवान्। गिरीशः वैद्यस्य गृहं गत्वा पञ्चदशनिमेषेषु औषधम् आनीतवान्। धनिकः औषधं सेवितवान्। तथापि उदरवेदना न शान्ता न न्यूना च। प्रातःकालपर्यन्तम् उदरवेदनया सः निद्राम् अपि न कृतवान्।
परस्मिन् दिने वैद्यः शेषाचार्यः धनिकस्य गृहम् आगतवान्। शिरोवेदना शान्ता वा इति पृष्टवान्। धनिकः कोपेन उक्तवान् – मम शिरोवेदना इति कः उक्तवान्? उदरवेदनायाः औषधम् आनेतुं गिरीशं प्रेषितवान्। भवान् शिरोवेदनार्थम् औषधं दत्वा प्रेषितवान् वा? अहो! उदरवेदनया मम प्राणाः निर्गताः एव इति रात्रौ अहं चिन्तितवान्। वैद्यः शेषाचार्यः आश्चर्येण उक्तवान् – अये! भवान् उदरवेदना इति वदति! गिरीशः आगत्य भवन्तं शिरोवेदना बाधते इत्युक्तवान्। अतः अहं शिरोवेदनायाः औषधं प्रेषितवान्।
गिरीशः एव अपराधं कृतवान् इति धनिकः कुपितः। गतरात्रौ अनुभूताम् उदरवेदनां स्मृत्वा तस्य कोपः वर्धितः च। धनिकः कोपेन गिरीशं निन्दन् – मूर्ख! समग्रा रात्रि उदरवेदनया निद्रां विना यापिता। अत्र भवान् एव कारणम्। अथवा मम एव अत्र दोषः। अहं विस्मरणशीलं भवन्तं मम गृहे सेवकत्वेन नियोजितवान् किल? इतःपरम् एकं क्षणम् अपि मा तिष्ठतु इति उक्तवान्। गिरीशस्य वेतनादिव्यवहारं सर्वं समाप्य प्रेषितवान् च।
परस्मिन् दिने यथापूर्वं गिरीशः धनिकस्य गृहे कार्यं कर्तुम् आरब्धवान्। धनिकः कोपेन पृष्टवान् – गिरीश! ह्यः एव उक्तवान् इतःपरं भवान् मम गृहस्य कर्मकरः न इति। अद्य पुनः किमर्थम् आगतवान्? हन्त! सर्वं विस्मृतम्। अतः एव पुनः आगतम्। क्षम्यताम् इदानीम् एव गच्छामि इति गिरीशः उक्तवान्।
अनन्तरं धनग्रन्थिं समर्पयन् गिरीशः उक्तवान् – एतत् धनं पेटिकायां स्थापयितुं ह्यः दत्तम् इति मन्ये। विस्मृत्य अहं नीतवान् क्षम्यताम् इति। अनन्तरं पूर्वदिने वेतनरूपेण दत्तं धनं धनिकस्य पुरतः स्थापयित्वा सः गतवान् एव।
गिरीशस्य अद्भुतं विस्मरणं दृष्ट्वा धनिकस्य हृदयं दयया आर्द्रम् अभवत्। सः गिरीशम् आहूय उक्तवान् रे! बुद्धिहीन! तत् धनं भवदीयम् एव। ह्यः भवदीयं सर्वं व्यवहारं समाप्य अन्तिमं वेतनं दत्तवान्। तदेव एतत् स्वीकृत्य गच्छतु।
आम्! इदानीं स्मृतवान्। एतत् मम धनम् एव। इति उक्त्वा गिरीशः तत् धनं स्वीकृत्य प्रस्थितवान्। रे गिरीश! तिष्ठतु! अन्यत्र कुत्रापि मा गच्छतु। यथापूर्वं मम गृहे एव कर्म करोतु इति धनिकः उक्तवान्। परस्मिन् दिने विस्मरणरोगस्य औषधम् अस्ति चेत् तत् आनेतुम् अन्यं सेवकं वैद्यालयं प्रति धनिकः प्रेषितवान्।