Sanskrit Learners Club

Where we Learn from Each Other

Capable

Source - Sanskrit Chandamama |

| June |

| 1984

Once king Padmananda in disguise was travelling in a village. Suddenly he became sick and one farmer took care of him. The farmer’s second son Dandaka, was rude and fearless. He was not assisting his father in farm works. Worried about his future, his father asked to place him in a job in city. The king took Dandaka with him and found the nature of Dandaka is not suitable to appoint him in his kingdom. How, one of his minister Shamantaka brought change in the mind of Dandaka and shaped the village boy’s future is the story.

समर्थः

दन्तपुरे पद्मनन्दः इति महाराजः। सः सर्वदा वेषपरिवर्तनं कृत्वा देशसञ्चारं करोति। एकदा सः एकस्मिन् ग्रामे सञ्चारं करोति स्म। तदा अकस्मात् तस्य अतीव अनारोग्यम् अभवत्। पद्मनन्दः कः इति तस्मिन् ग्रामे कोऽपि न जानाति। तथाऽपि सीतारामः इति एकः कृषिकः पद्मनन्दस्य वैद्यकीयम् उपचारम् च कारितवान्। दिनत्रयपर्यन्तं पद्मनन्दः तस्य गृहे एव आसीत्। इदानीं सः सम्पूर्णस्वस्थः।

अनन्तरं पद्मनन्दः ग्रामतः प्रस्थितवान्। गमनसमये सः सीतारामम् उक्तवान् – भवान् मम कृते बहु उपकारं कृतवान्। तत् अहं कदापि न विस्मरामि। अतः अहं भवतः प्रत्युपकारं कर्तुम् इच्छामि। भवान् किमपि इच्छति चेत् राजधानीम् आगच्छतु। महाराजस्य कृते अहं बहु परिचितः। अतः भवतः कार्यम् अवश्यं सिद्ध्यति इति स्वयम् एव महाराजः इति सः न उक्तवान्।

कृषिकः सविनयम् उक्तवान् – न न अहं प्रत्युपकारां किमपि न इच्छामि। अहं तु मम कर्तव्यं कृतवान् तावदेव इति। अनन्तरं सः पुनः उक्तवान् मम द्वीतीयः पुत्रः दण्डकः इति अस्ति। सः कृषिकार्यं न जानाति। तस्य कृते नगरे कुत्रचित् उद्योगः दापनीयः इति विचारः अस्ति। किन्तु सः बहु गर्विष्ठः। अधिकारिभिः सह कथं व्यवहारः करणीयः इत्यपि न जानाति। अतः तस्य विषये किं करणीयम् इति चिन्तयन् अस्मि इति।

पद्मनन्दः उक्तवान् – तर्हि एवं करोतु। भवतः पुत्रं मया सह प्रेषयतु। सः कथं पाठनीयः इति अहं जानामि। अहम् उपायान्तरेण तम् पाठयामि। समुचितम् उद्योगम् अपि दापयामि। तस्य जीवनं यथा निश्चिन्तं भवेत् तथा व्यवस्थां करोमि। इतःपरं भवान् तस्य विषये चिन्तां न करोतु इति। राजधानीं गन्तुं दण्डकस्य अपि बहु इच्छा आसीत्। इदानीम् अवकाशः लब्धः। सः पद्मनन्दनेन सह प्रस्थितवान्।

प्रयाणं बहु दीर्घम् आसीत्। प्रयाणसमये पद्मनन्दः दण्डकस्य स्वभावं ज्ञातवान्। वस्तुतः दण्डकः अविमृश्यकारी शीघ्रकोपी च इति सः ज्ञातवान्। राजास्थाने उद्योगी भवितुम् एषः अर्हः न इति सः निश्चयं कृतवान्। किन्तु तस्य पितुः कृते वचनं दत्तम् आसीत् किल? तदर्थं किमपि करणीयम् एव आसीत्। पद्मनन्दः राजधानीं आगत्य एकस्यां धर्मशालायां दण्डकस्य वसतिव्यवस्थां कृतवान्।

राजास्थाने शमन्तकः इति कश्चन अधिकारी आसीत्। सः राज्यस्य आयव्ययं पश्यति स्म। तस्य अधीने दश सहाधिकारिणः आसन्। तेषु एकैकस्य अधीने अपि द्वादशगणकाः आसन्। शमन्तकः अतीव समर्थः अधिकारी। सः सर्वैः अपि सम्यक् कार्यं कारयितुं शक्नोति इति तस्य विषये आस्थाने महद्गौरवम् आसीत्।

पद्मनन्दः शमन्तकम् उक्तवान् – दण्डकः इति एकः युवकः अस्ति। सः भवतः अधीने कार्यं करोतु। सः किञ्चित् गर्विष्ठः शीघ्रकोपी अपि। भवान् दण्डयति चेत् अपि तस्य भीतिः नास्ति। उद्योगतः निष्कासयति इत्यपि चिन्ता नास्ति। एतादृशः अविवेकी सः। तथाऽपि सः भवता पाठनीयः। यथा सः समीचीनः उद्योगी भवेत् तथा तं भवान् पाठयतु। शमन्तकः उक्तवान् अस्तु महाराज! अहं तं सम्यक् पाठयामि। तस्य विषये इतःपरं चिन्ता एव मास्तु इति।

अपरस्मिन् दिने दण्डकः शमन्तकस्य समीपम् आगतवान्। शमन्तकः दण्डकं कांश्चित् प्रश्नान् पृष्टवान्। दण्डकः तु औद्धत्येन सर्वेषां प्रश्नानाम् उत्तरं दत्तवान्। किन्तु तेन शमन्तकः न कुपितः। सः उक्तवान् बहु समीचीनम्। भवतः उत्तराणि श्रुत्वा मम बहु आनन्दः अभवत्। भवतः कृते समीचीनाम् उद्योगवयस्थां करोमि। प्रतिमासं पञ्चाशत् दीनाराणां वेतनं ददामि। भवतु किल?! दण्डकः सन्तोषेण एतत् अङ्गीकृतवान्।

शमन्तकः एकं पुरुषं प्रदर्श्य दण्डकम् उक्तवान् पश्यतु सः भवतः अधिकारी। सः यथा वदति तथा भवान् कार्यं करोतु इति। दण्डकः दिनद्वयं कार्यं कृतवान्। अपरस्मिन् दिने दण्डकस्य अधिकारी शमन्तकसमीपम् आगत्य उक्तवान् – भोः! सः दण्डकः स्वयं किमपि कार्यं न करोति। अन्येषां कार्यं कर्तुम् अवकाशम् अपि न ददाति। तेन किमपि प्रयोजनं नास्ति। तं पाठयितुम् अहं न शक्नोमि क्षाम्यतु इति।

एतत् श्रुत्वा कुपितः शमन्तकः उक्तवान् – भवतः अधीने विद्यमानकर्मकरैः कार्यं कारयितुं भवान् न शक्नोति किम्? यथाकथञ्चित् दण्डकेन कार्यं कारणीयम् एव। तेन कारयितुं न शक्नोति चेत् भवान् एव स्वयं तत्कार्यं करोतु इति। सः तु दण्डकेन कार्यं कारयितुम् असमर्थः। दण्डकस्य कार्याणि अपि स्वयमेव कृतवान्। एतदर्थं दण्डकस्य विषये तस्य महान् क्रोधः। अतः सः प्रतिदिनं दण्डकं भापयति स्म। भवान् एवं करोति इति महाराजः न जानाति। यदि सः जानाति तर्हि भवन्तं निर्दयं दण्डयति। अहं दयाशीलः अस्मि। अतः एव महाराजं न सूचितवान्। भवान् जागरूकः भवतु इति।

परन्तु दण्डकः न भीतः। महाराजः अन्यान् कथं दण्डयति इति सः दृष्टवान्। तथाऽपि सः न भीतः। पूर्ववत् एव कार्यं करोति स्म। कानिचन दिनानि अतीतानि। एकवारं पद्मनन्दराजः शमन्तकम् आहूय पृष्टवान् दण्डकः कथम् अस्ति? श्रद्धया कार्यं करोति वा इति। अथ किम्? सः इदानीं किञ्चित् परिष्कृतः अस्ति। तस्य विषये चिन्ता मास्तु इति शमन्तकः उक्तवान्। महाराजस्य तृप्तिः न अभवत्। सः अन्येषां द्वारा दण्डकस्य विषयं ज्ञातवान्। पुनः शमन्तकं तर्जितवान् – किं भोः! दण्डकः परिष्कृतः अस्ति इति असत्यम् एव उक्तवान्? किन्तु सः पूर्ववत् एव अस्ति इति।

मया बुद्ध्या एव तथा कृतं महाराज! सः अधिकारी दण्डकेन कार्यं कारयति। यदि कारयितुं न शक्नोति तर्हि सः असमर्थः इत्येव अर्थः। तदर्थं दण्डरूपेण दण्डकस्य कार्यं स्वयं करोति। तावदेव इति शमन्तकः उक्तवान्। सः अधिकारी असमर्थः चेत् अन्यस्य अधिकारिणः अधीने दण्डकः नियोजनीयः आसीत्। किमर्थं तथा न कृतवान् इति महाराजः पृष्टवान्।

शमन्तकः उत्तरं दत्तवान् दण्डकस्य स्वभावं सर्वे अपि अधिकारिणः जानन्ति। ते सर्वे तं स्वीकर्तुं न इच्छन्ति इति। एवं तर्हि दण्डकं पाठयितुं भवान् असमर्थः इत्येव सिद्धम्। सत्यं किल इति महाराजः पृष्टवान्। शमन्तकः उक्तवान् तथा न महाराज! यद्यपि दण्डकः कार्यं न करोति तथाऽपि तस्य कार्यं अन्यः करोति किल? अतः कार्यं प्रचलति एव इति।

महाराजः उक्तवान् – कार्यं प्रचलेत् परन्तु दण्डकः करोति वा? सः तु पूर्ववत् अप्रयोजकः एव अस्ति। यदि भवान् तेन कार्यं कारयति तदा एव भवान् समर्थः इति निरूपितं भवति। अस्तु तदर्थं मम कालावकाशः अपेक्षितः इति शमन्तकः उक्तवान्। महाराजः एतत् अङ्गीकृतवान्।

अपरस्मिन् दिने शमन्तकः दण्डकम् उक्तवान् भवान् राजास्थाने उद्योगे स्थातुम् इच्छति वा न वा? दण्डकस्य तु आस्थानं बहु प्रियम्। अत्र अधिकः व्ययः अपि न आसीत्। वेतनम् अपि यथेष्टम् लभ्यते स्म। अतः सः नगरजीवनम् एव इच्छति स्म। अतः एव सः उक्तवान् अहम् अत्रैव उद्योगम् इच्छामि इति।

शमन्तकः किञ्चित्कालं चिन्तयित्वा उक्तवान् – दण्दकः बहु गर्विष्ठः शीघ्रकोपी इति भवतः विषये अन्ये अधिकारिणः वदन्ति। किन्तु अहं तत् न विश्वसिमि। जनेषु वृत्तिमात्सर्यं भवति स्म। अतः एव ते तथा वदन्ति इति मन्ये। मम तु भवान् विनयशीलः एव इति भासते। अहम् एव किञ्चित्कालपर्यन्तं भवतः परीक्षां करोमि। अन्य अधिकारिणां वचनं सत्यं चेत् भवन्तम् उद्योगतः निष्कासयामि। भवान् समर्थः इति निरूपितं भवति चेत् तम् अधिकारिणम् उद्योगतः निष्कासयामि। भवतः वेतनवृद्धिम् अपि करोमि इति।

तद्दिनतः दण्डकस्य व्यवहारे महत्परिवर्तनम् अभवत्। सः अत्यन्तं विनयशीलः अभवत्। शीघ्रमेव सः उद्योगे समर्थः इति नाम अपि प्राप्तवान्। एतद्विषयं ज्ञात्वा महाराजः आश्चर्येण शमन्तकं पृष्टवान् – कथं दण्डकः एवं परिवर्तितः? भवान् किं कृतवान् इति।

शमन्तकः उक्तवान् – प्रथमं दण्डकाय राजास्थानस्य सुखभोगानां परिचयं कारितवान्। अनन्तरम् अहं तम् उक्तवान् “भवतः अधिकारी भवतः विषये आक्षेपं करोति। परन्तु तदहं न विश्वसिमि। यदि भवान् समर्थः इति निरूपितः भवति तर्हि तम् अधिकारिणम् उद्योगतः निष्कासयामि इति। एतेन दण्डकः प्रभावितः। अतः सः यथाकथञ्चित् आत्मानं समर्थं निरूपयितुं निश्चयं कृतवान्। अनन्तरं सः एव अभ्यासः अभवत्। सः अपि समर्थः अभवत् इति।

शमन्तकस्य उत्तरेण महाराजः तृप्तः। सः शमन्तकं सत्कृतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.