एमन् देशे सानानगरं राजा मुबारकः परिपालयति स्म। तरुणः सः अविमृश्यकारी। प्रजानाम् अपराधम् अविचार्य एव दण्डयति स्म। तेन निरपराधिनः अपि दण्ड्यन्ते स्म। अतः सर्वे अपि राज्ञा सह जागरूकतया व्यवहरन्ति स्म।
एकदा राजा मृगयाविहारार्थं अरण्यं गतवान्। तेन सह केचन भटाः आप्तसेवकः सलीम् अपि प्रस्थितवन्तः। मृगयां विहरन् राजा हरिणम् एकं दृष्टवान्। अनुक्षणम् एव हरिणम् लक्ष्यीकृत्य बाणं प्रयुक्तवान्। किन्तु हरिणः उत्प्लुत्य अधावत्। तेन हरिणः बाणात् च्युतः अभवत्। क्रुद्धः राजा भाटान् आज्ञापितवान् तम् एतं हरिणं गृह्णन्तु। भटाः वृक्षेषु निलिनाः सन्तः धावितुं प्रवृत्ताः। किञ्चित् दूरे धावन्तं हरिणं दृष्ट्वा तं राज्ञः अभिमुखं परावर्तितवन्तः। एतस्मिन् समये आप्तसेवकः सलीमः हरिणम् उद्दिश्य बाणं मुक्तवान्। लक्ष्यात् च्युतः बाणः हरिणाभीमुखं आगच्छतः राज्ञः कर्णं रन्ध्रीकृत्य अगच्छत्।
एतस्य शिरः छिद्यताम् इति क्रुद्धः राजा भटान् आज्ञापितावान्। सलीमः राज्ञः अग्रे जानुना उपविश्य सविनयं प्रार्थितवान् महाप्रभो! क्षम्यताम्! पलायमानं हरिणम् उद्दिष्य बाणं मुक्तवान्। लक्ष्यात् च्युतः बाणः अभिमुखम् आगतस्य भवतः कर्णे पतितः। अकस्मात् एषः प्रमादः संवृत्तः। अतः दयया मां क्षाम्यतु। तेन च तृप्तः देवः कदाचित् विपत्तौ भवन्तम् अपि रक्षेत्।
एतया प्रार्थनया राज्ञः हृदयं करुणया आर्द्रम् अभवत। अतः सः तस्य शिरश्छेदं न कारितवान्। सर्वे अपि आनन्देन नगरं प्रतिनिवृत्तवन्तः। किन्तु परस्मिन् दिने एव सलीमः कुत्रापि न दृष्टः। वर्षद्वयम् अतीतम्। समुद्रमध्ये स्थितस्य कस्यचित् द्वीपस्य अपि एषः मुबारकः एव अधिपतिः आसीत्। सः प्रतिवर्षम् अपि तत्र गत्वा आगच्छति स्म। एतस्मिन् वर्षे अपि नौकया गन्तुं प्रस्थितवान्। किन्तु चण्डमारुतेन उत्पन्नैः बृहत्तरङ्गैः जलमध्ये तस्य नौका निमग्ना।
जले पतितः राजा काष्टखण्डम् गृहीत्वा एकं दिवारात्रं समुद्रे प्लवमानः आसीत्। एवं प्लवमानः अन्ते कस्यापि द्वीपस्य तीरं प्राप्तवान्। शनैः शनैः उत्थाय राजा दृष्टवान्। तत्र कोऽपि न दृष्टः। अतः सः दुर्गस्य अभिमुखं प्रस्थितवान्। अज्ञाते एतस्मिन् राज्ये कोऽपि परिचितः न आसीत्। राज्ञः तस्य केशाः विकीर्णाः। धृतानि वस्त्राणि अपि छिन्नानि। सः भिक्षुकः इव दृश्यते स्म। अतः अहं राजा इति स्वयम् उक्तं चेत् अपि कोऽपि तं न विश्वसिति। बुभुक्षया बहुश्रान्तः च। सद्यः किं करणीयम् इति चिन्तयन् दुर्गस्य पार्श्वे एकस्यां शिलायाम् शा्यनं कृतवान्। श्रान्त्या अनुक्षणम् एव निद्रा समागता। निद्रावस्थायाम् एव तेन पादप्रहारवेदना अनुभूता। झटिति एव उत्थाय सः परितः दृष्टवान्।
एषः किमर्थं मारितः इति शवम् एकं प्रदर्श्य भटाः राजानं पृष्टवन्तः। राजा मुबारकः शवं दृष्ट्वा आश्चर्येण उक्तवान् एषः मया न मारितः। इदमिदानीं शवं पश्यन् अस्मि। अहम् अत्रत्यः अपि न। समुद्रे अकस्मात् पतितः प्लवमानः तीरं प्राप्तवान्। एतस्य वधस्य मम च सम्बन्धः नास्ति। एतत् सर्वं राज्ञः अग्रे निवेदयतु इति वदन्तः ते स्वराजस्य समीपे तं नीतवन्तः। श्वः एतस्य व्यवहारं पश्यामि इति उक्त्वा राजा मुबारकं कारागृहं प्रेवेशितवान्।
मुबारकः चिन्तितवान् अहो! मम शिरश्छेदनार्थं राजा न आज्ञापितवान्। अहम् चेत् अविचार्य शिरश्छेदनाज्ञां कुर्याम् एव। हन्त! पूर्वं मया कति निरपराधिनः शूलम् आरोपिताः! कारागृहे एकः गवाक्षः आसीत्। गवाक्षस्य पार्श्वे एकः काकः उपविश्य रटति स्म। एतत् श्रुत्वा क्रुद्धः मुबारकः काकं उद्दिश्य पाषाणखण्डम् एकं क्षिप्तवान्। लक्ष्यात् च्युतः पाषाणखण्डः बहिः पतितः। हन्त! शीघ्रकोपतः इदानीम् अपि अहं न मुक्तः इति मुबारकः मनसा चिन्तितवान्।
द्वित्राः निमेषाः अतीताः। भटाः कारागृहस्य द्वारम् उद्घाट्य अन्तः आगताः। मुबारकस्य पाणिद्वयं पादद्वयं च बलात्कारेण गृहीत्वा बहिः क्षिप्तवन्तः। क्षिप्तः मुबारकः बहिः स्थितानां तरुणानां मध्ये पतितः। तेषु युवराजः अपि आसीत्। मुबारकेण क्षिप्तः पाषाणखण्डः युवराजस्य वामकर्णे पतितः आसीत् येन जातात् क्षतात् रक्तं स्रवति स्म। युवराजः मुबारकं दृष्ट्वा दन्तान् निष्पीडयन् भटान् आज्ञापितवान् मदोन्मत्तस्य एतस्य शिरः छिद्यताम्।
भूमौ पतितं मुबारकं भटाः उत्थाप्य नेतुं प्रवृत्ताः। तिष्ठन्तु इति वदन् युवराजः मुबारकस्य समीपम् आगतवान्। मुबारकस्य वामकर्णं गृहीत्वा परीक्षमाणः युवराजः पृष्टवान् एतस्मिन् कर्णे किम् एतत् बृहत् रन्ध्रम्? मुबारकः युवराजं नमस्कृत्य उक्तवान् – युवराज! काकम् उद्दिश्य क्षिप्तः पाषाणखण्डः भवतः कर्णे अकस्मात् पतितः। तथैव केनापि तरुणेन मुक्तः बाणः अकस्मात् मम कर्णे पतितः येन एतत् बृहत् रन्ध्रम् अभवत।
सः तरुणः कथंकारं दण्डितः इति पृष्टवान् युवराजः। सः तरुणः न दण्डितः मया क्षान्तः इति उक्तवान् मुबारकः। अहम् अपि तथा एव क्षन्तव्यः इति इच्छति ननु मुबारकमहाराज इति पृष्टवान् युवराजः। युवराजेन उक्तं स्वकीयं नाम श्रुत्वा मुबारकः आश्चर्यचकितः भूत्वा तस्य मुखं दृष्टवान्। पूर्वं आप्तसेवकः यः सलीमः सः एव एषः युवराजः इति अभिज्ञातवान्।
युवराजः मुबारकं प्रीत्या आलिङ्ग्य उक्तवान् राजन्! मां भवान् अभिज्ञातवान् इति भवतः मुखभावेन एव ज्ञायते। भवतः आप्तसेवकः सलीमः एव अहम्। पूर्वं कदाचित् पित्रा सह अहं कलहं कृतवान्। तन्निमित्तं अहं मम देशं त्यक्त्वा भवतः राज्यं प्रविष्टवान्। तत्र सञ्चारं कुर्वन् उद्योगावकाशं प्रतीक्षमाणः आसन्। दैववशात् भवतः आस्थाने उद्योगं प्राप्तवान् आप्तसेवकः च अभवम्। पिता मम अन्वेषणे मग्नः आसीत्। तेन सर्वत्र गुप्तचराः प्रेषिताः। तथा प्रेषिताः गुप्तचराः माम् अन्विष्य उक्तवन्तः युवराज! भवतः पित्रा प्रेषिताः गुप्तचराः वयम्। पिता भवन्तं स्मृत्वा बहु खिद्यति। कृपया अस्माकं राज्याम् आगच्छतु। पितरं च समाश्वसितु इति। एतां वार्तां श्रुत्वा भवन्तम् अनिवेद्य एव त्वरया एतं देशम् आगतवान् इति।
राजा मुबारकः सन्तोषस्य पारं गतवान्। युवराजः तं स्वपितुः समीपे नीत्वा प्रवृत्तं सर्वं निवेदितवान्। अनन्तरं राजोचितं सम्माननं कृत्वा बहुमूल्यानि उपायनानि च दत्वा महानौकया युवराजः मुबारकं सानानगरं प्रति प्रेषितवान्।