विदेहराजस्य एकापुत्री आसीत्। वज्रप्रभा इति तस्याः नाम। एकदा सा उद्यानवने बहुकालपर्यन्तं क्रीडितवती। ततः सहसा हन्त! नितरां श्रान्ता अस्मि इति दीर्घं निश्वस्य अन्तःपुरं गत्वा तत्र पर्यङ्के उपविष्टवती। क्रीडासमये तया सह तिस्रः दास्यः आसन्। सम्भ्रान्ताः ताः तत्क्षणं तस्याः शुश्रूषां कृतवत्यः। ताः तस्याः सख्यः अपि आसन्।
वज्रप्रभा हंसतूलिकातल्पे विश्रान्तिं लब्धवती। तदा सा इदानीम् एकं प्रश्नं पृच्छामि। उद्याने मम आयासस्य कारणं किम्? भवतीषु या समीचीनम् उत्तरं ददाति सा मम रत्नहारं प्राप्तुम् अर्हति इति सखीः उक्तवती। दास्यः परस्परं दृष्टवत्यः। अनन्तरं तासु मरीचिका नाम दासी यदि उत्तरं समीचीनं न भवति तर्हि भवती किं करोति? तदपि ज्ञातव्यं किल इति पृष्टवती। तदा रत्नहारस्य स्थाने कपोलद्वयस्य चपेटिकाद्वयं लभ्यते इति वज्रप्रभा उक्तवती।
तदा मरीचिका राजकुमारीम् उक्तवती – तर्हि अहं मम भाग्यपरीक्षां करोमि। बहुकालपर्यन्तं राजकुमारी नेत्रनिमीलनक्रीडायां निरता आसीत्। तदेव आयासस्य कारणम्। मध्याह्नस्य तीव्रे आतपे तथा धावनेन आयासः अवश्यं भवति एव। केवलं भवती एव तादृशं श्रमं सोढुं शक्नोति। अन्या चेत् मूर्छामेव प्राप्नोति स्म इति। तदा वज्रप्रभा क्रोधेन मरीचिकायाः कपोलद्वयम् अपि वेगेन ताडितवती। तत् दृष्ट्वा अन्ये दास्यौ सम्यक् हसित्वत्यौ।
अनन्तरं मरुद्वती नाम द्वितीया दासी – उद्यानसरोवरस्य जले दीर्घकालिकतरणमेव राजकुमार्याः आयासस्य कारणम्। तावत् तरणं पुरुषाणामपि दुस्साध्यम्। भवती तु बहुसमीचीनतया तरणं कृतवती। प्रथमं नेत्रेनिमीलनक्रीडातः आयासः आसीत्। तदुपरि पुनः सरोवरजले तरणेन महान् श्रमः जातः इति उक्तवती।
पुनः वज्रप्रभा क्रोधेन मरुद्वत्याः कपोलद्वयमपि ताडितवती। अनन्तरं मन्दाकिनी नाम तृतीया दासी तु – राजकुमार्याः आयसस्य कारणं न धावनं न वा तरणम्। अद्य राजकुमारी स्वयमेव लताभ्यः पुष्पावचयं कृतवती। तदेव आयासस्य कारणम्। सा अञ्जलिमितानि पुष्पाणि आनीय मालां कर्तुं मम हस्ते दत्तवती। तदा एव तस्याः आयासम् अहं लक्षितवती इति उक्तवती।
मन्दाकिन्याः वचनं श्रुत्वा वज्रप्रभा सन्तोषेण शय्यातः उत्थितवती। रत्नहारं मन्दाकिन्याः कण्ठे योजितवती। मरीचिकायाः मरुद्वत्याः च अतीव आश्चर्यम् अभवत्। किञ्चित्कालानन्तरं वज्रप्रभा निद्रामग्ना जाता। तदा मरीचिका मरुद्वती च मन्दाकिन्याः हस्तं गृहीत्वा अन्तःपुरस्य एकस्मिन् कोणे बलात्कारेण आनीय – रे मन्दाकिनि! अस्माकं राजकुमार्याः रूपरेखाविलासादयः कीदृशाः इति भवती न जानाति वा? अस्माकं राजकुमारी यद्यपि स्थूलकाया तथापि न जडा। अपि च धृष्टा अपि इति भवती एव कदाचित् उक्तवती। स्मरति किल इति पृष्टवत्यौ।
आम् सत्यमेव। तेन इदानीं किं जातम् इति मन्दाकिनी पृष्टवती। तादृशी राजकुमारी इदानीम् अञ्जलिप्रमाणकं पुष्पावचयं कृत्वा श्रान्ता भवति वा? सा तादृशी सुकुमारी अस्ति वा? भवती मिथ्यावादिनी अस्ति। भवती केवलं स्वार्थसाधनाय एवम् उक्तवती किल इति मरीचिका मरुद्वती च मन्दाकिनीं भर्त्सितवत्यौ।
तदा मन्दाकिनी किञ्चित् हसित्वा – अहं मिथ्यावादिनी न। अन्येषां मनसां दुःखं यथा न भवति तथा अस्माभिः वक्तव्यम्। साधारणतया राजकुमार्यः लावण्यवत्यः कुसुमकोमलाश्च भवन्ति। किन्तु अस्माकं राजकुमारी सम्पूर्णतया तद्भिन्ना एव। तं विषयं राजकुमारी स्वयं जानाति अपि। अतः एव स्वकीयरूपस्य सूचकं वचनं यः कोऽपि वदति चेत् सा न सहते। तदर्थम् एव सा अस्मान् परीक्षितवती इति उक्तवती।
एवं तर्हि अस्माकं वचनैः राजकुमारी स्थूला कर्कशा च अस्ति इत्यर्थः जायते इति किल भवत्याः अभिप्रायः इति मरीचिका क्रोधेन पृष्टवती। मास्तु कोपः। मम वचनं किञ्चित् शृण्वन्तु इति उक्त्वा मन्दाकिनी पुनः उक्तवती। राजकुमारी तीक्ष्णे आतपे अपि उद्याने सर्वत्र धावन्ती नेत्रनिमीलनक्रीडायां मग्ना आसीत् इति उक्तम्। किञ्च सरोवरे बहुकालपर्यन्तं तरनं कृतवती इति उक्त्वा एतत् सर्वं पुरुषाणामपि दुःसाध्यम् इति उक्तम्। एतानि वचनानि स्वकीयस्थूलकायत्वस्य सूचकानि इति मत्वा सा कोपेन ताडितवती। अहं तु तस्याः मनोभावं सम्यक् जानामि। अतः एव पुष्पावचयेन एव भवत्याः आयासः अभवत् इति अहम् उक्तवती। तेन तस्याः महती तृप्तिः अभवत्। अन्यमनुष्याणां इङ्गितज्ञानम् नास्ति चेत् एवमेव अनर्थः भवति। बहुमानस्य स्थाने चपेटिकाप्राप्तिः।
अस्तु वयं तिस्रः अपि प्रियसख्यः किल? एषः रत्नहारः अस्माकं सर्वासाम् अपि भवतु। अस्य भागत्रयं कुर्मः इति। मन्दाकिन्याः वचनेन मरीचिकायाः मरुद्वत्याश्च तृप्तिः सन्तोषश्च अभवत्। वज्रप्रभासदृशीनां राजकुमारीणां समीपे कथं व्यवहर्तव्यम् इति भवत्याः वचनेन समीचीनं ज्ञानं प्राप्तम्। एषः रत्नहारः भवत्याः एव भवतु। तस्य विभागः मास्तु। अद्य नूतनं व्यवहारसूत्रं लब्धम्। तदेव पर्याप्तम् इति ते सख्यौ मन्दाकिनीम् आदरेण अभिनन्दितवत्यौ।