पर्शियादेशे शिराजनामकं नगरं प्रमुखं वाणिज्यकेन्द्रम् आसीत्। तथैव यात्रास्थलम् अपि आसीत्। अत्र सर्वदा विविधप्रान्तीयाः जनाः गमनागमनं कुर्वन्ति स्म। एतन्नगरम् आगन्तृभिः एकेन अरण्यमार्गेण आगन्तव्यम् आसीत्। अरण्ये एकः विचित्रः पक्षी तदा तदा दृश्यते स्म। ये पक्षिण्ं दृष्टवन्ताः ते वदन्ति स्म एतादृशं सुन्दरं पक्षिणं वयम् अन्यत्र कुत्रापि न दृष्टवन्तः इति। पक्षिणः मधुरगानं श्रुत्वा ते पक्षिगानं गन्धर्वगानम् अतिरिच्यते इति वदन्ति स्म।
एतं विचित्रं पक्षिणं ग्रहीतुं बहवः बहुधा प्रयत्नं कृतवन्तः। एवं प्रयत्नं कृवत्सु न केवलं धनिकपुत्राः अन्यान्यराज्यानां राजकुमाराः अपि प्रविष्टाः आसन्। किन्तु अत्र आश्चर्यस्य विषयः आसीत् यत् एवम् गतवत्सु कोऽपि न प्रत्यागतवान्। ते सर्वे तत्रैव शिलामूर्तयः सञ्जाताः। एतस्य विचित्रपक्षिणः वार्तां शिराजगनगरस्य राजकुमारी अपि श्रुतवती। तं पक्षिणम् आत्मसात्कर्तुं तस्याः इच्छा जाता। सा पितरं संसूच्य एकं डिण्डिमघोषं कारितवती यः तं विचित्रपक्षिणम् आनीय ददाति तं राजकुमारी परिणेष्यति इति।
तस्मिन् नगरे धनिकपरिवारे उत्पन्नाः त्रयः युवकाः आसन्। ते बाल्यात् आरभ्य एकत्र क्रीडन्तः इदानीं परस्परम् आत्मीयाः आसन्। तेषु एकः राजकुमारीं परिणेतुम् इच्छन् पक्षिणं ग्रहीतुम् अरण्यं प्रस्थितः। यात्रिकान् पृच्छन् सः अन्ते पक्षिणः समीपं गतवान्। तदा मध्याह्नः आसीत्। युवकः पक्षिणं ग्रहीतुं प्रवृत्तः। तदा पक्षिणा मधुरस्वरेण गानम् आरब्धम्। पक्षिणः गानं श्रुत्वा युवकः तत्र मग्नः जातः। गानस्वरेण सः स्वकीयं स्वरम् अपि योजितवान्। किन्तु द्वयोः स्वरयोः मध्ये एकरूपता न आसीत्। युवकः तत्रैव शिलारूपतां प्राप्तवान्।
एकमासः अतीतः। स्वमित्रस्य अनागमनं दृष्ट्वा द्वितीयः पक्षिणां ग्रहीतुं गतवान्। राजकुमारीं परिणेतुं तस्य अपि प्रबला इच्छा आसीत्। किन्तु सः अपि न प्रतिनिवृत्तः। पुनः एकमासानन्तरं तृतीयः नाम्ना हानीफः अरण्यं प्रस्थितः। हितचिन्तकाः मा गच्छतु इति उक्तवन्तः। तदा हानीफः उक्तवान् तं पक्षिणं ग्रहीतुं वा राजकुमारीं परिणेतुं वा अहं न इच्छामि। अहं मित्राणाम् आन्वेषणार्थं गच्छन् अस्मि। यदि शक्यम् तान् आनयामि। तदर्थं मदीयान् प्राणान् अर्पयितुम् अपि अहं सिद्धः इति।
हानीफः अरण्ये सञ्चरन् एकत्र तं पक्षिणं दृष्टवान्। युवकं दृष्ट्वा पक्षी मधुरस्वरेण गातुं प्रारभत। हानीफः पक्षिणः सङ्गीतेन वशीकृतः। सङीतम् अनुकर्तुं सः चिन्तितवान्। रसभङ्गः भवेत् इति चिन्तयित्वा सः महता कष्टेन आत्मानं निगृहीतवान्। पक्षिणः समीपं गतवान्। पक्षिणा सङ्गीतं स्थगितम्। सधैर्यं हस्तं प्रसार्य हानीफः पक्षिणं विना आयासं हस्ते गृहीतवान्। हानीफः प्रीत्या पक्षिणः शिरः आमृशन् उक्तवान् भवतः सौन्दर्यम् अनुपमम्। भवादृशः अन्यः पक्षी जगति नास्ति एव। भवान् मम मित्रयोः प्राणान् अनुग्रहीतुं शक्नोति किम् इति।
शिरः कम्पयता पक्षिणा उक्तम् अवश्यं शक्नोमि। भवतः इच्छाम् इदानीम् एव पूरयामि। उड्डयनार्थं अनुमतिं ददातु। अहं शिलारूपेण परिवर्तितयोः भवतः मित्रयोः उपरि उड्डयनं करोमि इति। हानीफः पक्षिणं बन्धात् मुक्तं कृतवान्। शिलारूपेण स्थितयोः मित्रयोः उपरि पक्षिणा द्विवारम् उड्डयनं कृतम्। तत्क्षणे एव उभौ अपि स्नेहितौ पूर्वरूपतां प्राप्तवन्तौ।
हनीफः स्वस्कन्धस्य उपरि आगत्य उपविष्टां पक्षिणं पुनः उक्तवान् भवतः सौन्दर्येण मुग्धाः केचन भवन्तं ग्रहीतुम् आगत्य शिलारूपेण परिवर्तिताः सन्ति किल? किमर्थं भवान् तान् अपि मानवान् न करोति इति। एवं कर्तुं मम किं कष्टम् इति वदन् पक्षी सर्वासां शिलामूर्तिनाम् उपरि द्विवारम् उड्डयनम् अकरोत्। अपरक्षणे एव सर्वे अपि मानवरूपेण प्रत्यक्षाः जाताः। सर्वे हानीफं प्रति कृतज्ञताम् उक्त्वा स्वग्रामं गतवन्तः।
अनन्तरं हानीफः पक्षिणम् उक्तवान् अहं भवताः उपकारं कदाऽपि न विस्मरामि। अहं भवन्तं निवेदयितुम् इच्छामि यत् कृपया भवान् मया सह नगरम् आगच्छातु इति। निश्चयेन आगच्छामि इति पक्षिणा उक्तं मञ्जुलस्वरेण।
हानीफः आत्मना सह आनीतं पञ्जरम् उद्घाटितवान्। तदा मम वामपादे स्थितम् अङ्गुलीयकं दृष्टवान् किल भवान्? तत् स्वीकृत्य भवतः अङ्गुल्यां धारयतु। विपत्तिसमये तत् उपकरोति इति उक्त्वा पक्षिणा अङ्गुलीयकं दत्तं पञ्जरं प्रविष्टं च।
हानीफः अङ्गुलीयकं स्वीकृत्य अङ्गुल्यां धृतवान्। अनन्तरां पञ्जरं स्वीकृत्य मित्राभ्यां सह नगरं प्रतिनिवृत्तः। मार्गे रात्रिः संवृत्ता। अतः त्रयः अपि एकस्य वृक्षस्य अधः शयनं कृतवन्तः। अर्धरात्रसमयः। हानीफः गाढनिद्रायां मग्नः। दुष्टयोः मित्रयोः मध्ये कश्चन रहस्यवार्तालापः जातः। अनन्तरं तौ हानीफस्य मुखे वस्त्रं संस्थाप्य हस्तपादौ बद्धवन्तौ। समीपस्थे एकस्मिन् पुरातनकूपे तं क्षिप्तवन्तौ च।
अदृष्टवशात् कूपे जलस्य स्थाने कोमलाः सिकताः शुष्कपत्राणि इत्यादयः आसन्। अतः हानीफः विशेषतया न व्रणितः। किन्तु पतनसमये भीत्या मूर्च्छां गतः। किञ्चित्कालानन्तरां मूर्च्छातः जागरितः साः पार्श्वे उपविष्टं कृष्णवर्णीयं विशालशरीरम् भूतं दृष्टवान्। एकक्षणं सः भीतः। तथापि भूतस्य विनयभावं स्मरण् धैर्येण पृष्टवान् भवान् कः इति।
अहं भवताः अङ्गुलीयके निवसन् भूतः अस्मि। भवतः पतनसमये केनाऽपि शिलाखण्डेन अङ्गुलीयकं घृष्टम्। तदा अहं नियमानुसारं प्रत्यक्षः जातः। भवतः आज्ञायाः परिपालकः अहम्। इदानीं किं करणीयम् आज्ञापयतु इति भूतः पृष्टवान्। हानीफः उक्तवान् प्रथमं भवान् मां कूपतः उन्नयतु। अनन्तरं किं करणीयम् इति पुनरपि सूचयामि इति। अनुक्षणम् एव भूतः तम् उन्नीय कूपतः बहिः आनीतावान्।
तत्र हानीफः पश्यति मित्रद्वयम् अपि नास्ति पञ्जरम् अपि नास्ति! सः भूतम् आदिष्टवान् शीघ्रं मां नगरं प्रापयतु इति। एतदनुसारं भूतः हानीफं नगरं प्रापितवान्। तत्समये नगरे विचित्रा पक्षी प्राप्तः इति कृत्वा महान् उत्सवः प्रचलन् आसीत्। किन्तु राजभवनस्य पुरतः हानीफस्य मित्रयोः मध्ये विवादः प्रचलति स्म। उभौ अपि वदतः मया एव पक्षी ग्रहीतः इति । राजा तु वस्तुस्थितिं ज्ञातुम् असमर्थः आसीत्।
हानीफः महाराजस्य समीपां गत्वा उक्तवान् राजन्! वस्तुस्थितिं ज्ञातुम् पक्षिणम् एव पृच्छतु। तेन विना आयासं विवादः निर्णीतः भविष्यति इति। राजा खेदेन उक्तवान् पक्षी किमपि न वदति। अतः एव एवं कष्टम् आगतम् इति। तदा हानीफः उक्तवान् तर्हि पक्षिणं मम समीपम् आनयतु। अहां पक्षिणः सत्यं वाचयामि इति।
राजकुमार्याः अन्तःपुरे स्थितः पक्षी हानीफसमीपम् आनीतः। हानीफः पक्षिणं पृष्टावान् मित्र सत्यं वदतु! अरण्ये भवन्तं काः गृहीतवान् इति। तदा पक्षिणा उक्तम् प्रथमं मां बन्धात् विमुक्तं करोतु। पञ्जरे वन्धी भूत्वा अहं कस्यापि प्रश्नस्य उत्तरं न वदामि इति। पक्षिणः विमोचनां कर्तुं राजकुमार्याः अनुमतिः पृष्टा। वस्तुतः येन पक्षी गृहीत्वा आनीतः तेनैव सह राजकुमार्याः विवाहः भवेत् किल? अतः राजाकुमारी सत्यं ज्ञातुम् इच्छन्ती पक्षिणः विमोचनम् अङ्गीकृतवती।
पञ्जरस्य द्वारम् उद्घाटितम्। पक्षी हानीफस्य स्कन्धे उपविश्य द्विवारम् अवदत् अरण्ये भवान् एव मां गृहीतवान्। भवान् एव मां गृहीतवान् इति। पक्षिणः वचनं श्रुत्वा दुष्टौ तौ स्नेहितौ पलायनं कर्तुम् आरब्धवन्तौ। किन्तु महाराजस्य भटाः तौ बन्धयित्वा आनीतवन्तः। कुपितः राजा भटान् आदिष्टावान् दुष्टयोः एतयोः शिरश्छेदनं कुर्वन्तु इति।
तदा हानीफः राजानं प्रार्थितवान् महाप्रभो! एतौ क्षाम्यतु भवान्। अरण्ये शिलारूपेण स्थितयोः एतयोः जीवदानम् अहम् एव कारितवान्। अतः एतयोः मरणं द्रष्टुम् अहं न इच्छामि इति। हनीफस्य इष्टानुसारं राजा तयोः क्षमादानं कृतवान्।
सः विचित्रः पक्षी हानीफस्य स्कन्धतः उड्डीय अरण्यं गतवान्। राजकुमार्या सह हानीफस्य विवाहः महता वैभवेन प्रवृत्तः। एतदन्तरं हानीफः राजाकुमार्या सह तं विचित्रं पक्षिणं द्रष्टुं वर्षे एकवारम् आरण्यं गच्छति स्म। तत्र यदा पक्षी मञ्जुलस्वरेण गायति तदा उभाभ्याम् अपि आत्मनः नियन्त्रणं क्रियते स्म। मनसा एव आनन्दः अनुभूयते स्म।