वेतालस्य अन्यथा गतिः न आसीत्। अन्यत्र कुत्रापि गन्तुम् अशक्तः सः तम् एव शवं प्रविश्य तस्य एव वृक्षस्य ताम् एव शाखाम् अवलम्य्य लम्बमानाः त्रिविक्रमं निरीक्षमाणः आसित्। तथैव राजा त्रिविक्रमः पुनः आगत्य वृक्षम् आरुह्य शवं गृहीत्वा स्कन्धे आरोप्य मौनमुद्रया श्मशानं प्रति गन्तुं प्रवृत्तः। तदा शवान्तर्गतः वेतालः साधु! साधु! महाराज! भवतः एतावतः साहसस्य श्रमस्य च किं वा प्रयोजनं तच्च कदा वा लभ्येत इति अहं न जानामि। किन्तु एकं विशेषविषयं वदामि। सः विषयः भवतः अपि मार्गदर्शकः भवेत्। केचन महता क्लेशेन कार्यं साधयन्ति। किन्तु अन्ते लब्धं फलम् अगृहीत्वा तथैव परित्यजन्ति। अस्य उदाहरणरूपेन एकां कथां वदामि। कथायाः श्रवणेन भवतः श्रमः न्यूनः भवेत् इति उक्त्वा कथां आरब्धवान्।
सुमन्त्रः बाल्ये एव मातापितृविहीनः जातः। अतः तत्र तत्र अटन्तं तं बालम् अनाथं दृष्ट्वा एकः मुनिः दयया स्वीयम् आश्रमम् नीतवान्। तत्र गुरुकुले सुमन्त्रः श्रद्धया गुरुसेवां कुर्वन् विद्याभ्यासं कृतवान्। सः गुरोः प्रियशिष्यः जातः। अनन्तरं सुमन्त्रस्य हस्ते एकं योग्यतापत्रं दत्त्वा मुनिः वत्स भवतः विद्याभ्यासः समाप्तः। भवान् इदानीं समीपे वा दूरे वा अपेक्षितं राज्यं गच्छतु। यः कोऽपि राजा स्वकीये आस्थाने भवते उद्योगं दास्यति इति उक्त्वा आशीर्वचनपुरस्सरं तं प्रेषितवान्।
सुमन्त्रः रोहितपुरं प्रस्थितवान्। रोहितपुरस्य महाराजस्य दर्शनम् एव तस्य लक्ष्यम् आसीत्। किन्तु किञ्चिद्दूरं गत्वा अनन्तरं भ्रान्त्या रोहितपुरमार्गं त्यक्त्वा अन्यं मार्गां गृहीतवान्। सायङ्कालः जातः। सूर्यः अस्तं गतः। तदा सः अरण्यमध्ये आसीत्। इदानीं रात्रिः कुत्र यापनीया इति समस्या प्राप्ता। तदर्थं सः परितः अन्विष्यन् समीपे एव एकम् अल्पं शैलं दृष्टवान्। शैलस्य उपरि एकं शिथिलगृहम् अपि दृष्टम्। कथञ्चित् शैलम् आरुह्य तत् गृहम् गन्तव्यम् इति निश्चित्य सुमन्त्रः तं शैलं प्रस्थितः।
शैलस्य उपत्यकायां कश्चित् युवकः तूष्णीं स्थितवान् आसीत्। तस्य वस्त्रभूषणानि बहुमूल्यकानि आसन्। तेन सः यस्यकस्यचित् देशस्य युवराजः इव दृश्यते स्म। तम् दृष्ट्वा सुमन्त्रः यद्यपि प्रथमम् आश्चर्यचकितः जातः तथापि रात्रौ सहनिवासार्थम् एकः लब्धः इति सन्तोषं प्राप्य सः स्मयमानः तस्य समीपं गत्वा नमस्कारं कृतवान्। सः युवकः प्रतिनमस्कारं न कृतवान्। प्रत्युत गम्भीरमुखभावेन किं भवान् अपि भाग्यस्य परीक्षां कर्तुम् आगतवान् वा? किन्तु आवयोः मध्ये केन सः अवकाशः लभ्येत इति ज्ञातुम् इदानीं खड्गयुद्धम् एव अवशिष्टः मार्गः। अतः भवतः समीपे खड्गः अथवा अन्यत् यत् अस्ति तत् गृहीत्वा सिद्धः भवतु इति उक्त्वा सहसा कोशतः खड्गम् आकृष्य सुमन्त्रस्य उपरि आक्रमणं कृतवान्।
सुमन्त्रः आश्चर्येण किम् उक्तं भवता? आवयोः मध्ये खड्गयुद्धं वा? वस्तुतः मम समीपे खड्गादिकं किमपि नास्ति एव। वैरं तु सुतरां नास्ति इति उक्तवान्। एवं तर्हि भवान् अस्याः अमावास्यायाः मध्यरात्रपर्यन्तम् अत्रैव स्थित्वा निरीक्षणं करोतु। अद्य कालरात्रौ मम भाग्यं कीदृशम् इति निश्चयेन ज्ञातुं शक्नोमि अहम् इति सः युवकः अवदत्।
तस्य वचनैः सुमन्त्रस्य आश्चर्यम् अधिकतरं जातम्। सः युवकम् आर्य! अहं पुनः एकवारं वदामि। भवतः वचनानाम् अभिप्रायाः मया न ज्ञातः। भवतः भाग्यपरीक्षाकाले अहं विघ्नभूतः इति भवान् भावयति वा? न हि न हि। अहं केवलम् एकः यात्रिकः। अन्यत्र गच्छन् प्रमादात् एतत् अरण्यम् आगतवान्। तत्र शैलस्य उपरि गृहं दृष्ट्वा रात्रिं तत्र यापयितुं गच्छन् अस्मि। तावदेव इति उक्तवान्। एतत् वचनं श्रुत्वा युवकः शान्तः जातः। अनन्तरं सः आत्मनः आगमनाकारणं सप्रपञ्चं निवेदितवान्।
सः युवकः रोहितपुरस्य युवराजः। एतस्य शैलस्य उपरि वर्तमाने शिथिलगृहे भूतप्रेतादयः वसन्ति। गतपञ्चाशत्वर्षेभ्यः आरभ्य अनेके जनाः एतत् शिथिलगृहां प्रविष्टवन्तः। किन्तु तेषु एकः अपि जीवन् न प्रतिनिवृत्तः। तास्मिन् गृहे एकः हंसतूलिकातल्प: अस्ति। तस्य उपरि स्थितस्य उपधानस्य अधः एकं मन्त्राङ्गुलीयकम् अस्ति। यः अमावास्यायाः अन्धकारे तत्गृहं प्रविश्य तत्र एव स्थित्वा रात्रिं यापयति सः तत् अङ्गुलीयकं प्राप्तुम् अर्हति। तस्य अङ्गुलीयकस्य महत्वम् एवम् अस्ति यत् यः तत् अङ्गुल्यां धारयति सः शतायुः भविष्यति। अद्य अमावास्या। अतः युवराजः तस्मिन् शिथिलगृहे रात्रिं यापयितुं प्रयत्नं करोति।
यः तत् मन्त्राङ्गुलीयकं प्राप्तुम् इच्छति तेन एकाकिना शैलम् आरुह्य भूतप्रेतादिसहितं तत् गृहं गन्तव्यम्। तत्र तल्पे उपविश्य प्रातः पर्यन्तं स्थातव्यम्। मम सौभाग्येन एव भवान् अकस्मात् अत्र आगतवान् इति प्रतिभाति। भवान् अत्रैव मम प्रतीक्षां करोतु। तेन अहमपि सधैर्यं गच्छामि। मम आगमनपर्यन्तम् अत्रैव स्थास्यति खलु इति पृष्टवान् युवराजः। तथा अस्तु इति सुमन्त्रः अङ्गीकृत्य तत्र कस्याश्चित् शिलायाः उपरि उपविशन् भवत्कृते प्रातःपर्यन्तम् अत्रैव उपविशामि। भवतः विजयः भवतु इति मनःपूर्वकं प्रार्थनां करिष्यामि इति उक्तवान्।
सूर्यः अस्तं गतः। अल्पे एव काले अरण्यभागः अन्धकारेण व्याप्तः। युवराजाः शैलम् आरोढुम् आरब्धवान्। सुमन्त्रः शिलायाः उपरि तूष्णीम् उपविश्य अमावास्यायाः अन्धकारे पक्षिणां मृगाणां च विविधान् कण्ठस्वरान् शृण्वन् कालं यापयति स्म। किञ्चित्कालानन्तरं पादध्वनिः श्रुतः। युवराजः शैलतः अवतराति स्म। समीपम् आगतां युवराजं दृष्ट्वा सुमन्त्रः किं जातम्? किमर्थम् एतावत्शीघ्रम् अधः आगतवान् इति पृष्टवान्। युवराजः अधोमुखः कम्पमानेन स्वरेण शैलस्य आरोहणसमये अवर्णनीया महती भीतिः सञ्जाता। अतः प्रत्यागतवान् इति उक्तवान्।
युवराज! भयं किमर्थम्? मनसि ईश्वरस्य ध्यानं कुर्वन् धैर्येण उपरि गच्छतु। भूतप्रेतपिशाचादयः विना कारणं स्वयं कमपि न पीडयन्ति इति उक्तवान् सुमन्त्रः। युवराजः पुनः एकवारं शैलम् आरोढुम् उद्युक्तः। सः किञ्चिदेव दूरं गतवान्। तदा शिथिलगृहस्य पृष्ठभागतः उच्चैः उत्पन्नानि शृगालानां कर्कशरुतानि श्रुतवान्। तस्मिन् एव समये अग्निकणसदृशाः असङ्ख्याकाः खद्योताः शिथिलगृहं परितः डयमानाः दृष्टाः। शृगालस्वरेण एव भीतस्य युवराजस्य एतेषां दर्शनेन अग्निज्वालाभिः शिथिलगृहं व्याप्तम् अस्ति इति भ्रमः अभवत्। तस्य पादौ तत्रैव स्थगितौ।
एवं रीत्या भीतः युवराजः पुनः अधः अवतीर्य सुमन्त्रस्य समीपम् आगत्य भोः मित्र! भूतप्रेतादिभिः व्याप्ते तस्मिन् जीर्णभवने सम्पूर्णां रात्रिं यापयितुम् अहम् असमर्थः। नितरां पराजितः अस्मि इति निराशया उक्तवान्। सुमन्त्रः किञ्चित्कालं पर्यालोच्य निराशा मास्तु युवराज! यदि भवान् आज्ञां ददाति तर्हि अहम् अपि एकवारं प्रयत्नं करोमि इति उक्तवान्। तदर्थं भवान् स्वतन्त्रः। भवन्तं निवारयितुम् अहं कः इति शान्तस्वरेण युवराजः अवदत्।
तदा सुमन्त्रः शैलम् आरुह्य शिथिलगृहं प्राप्तवान्। मार्गमध्ये भयङ्करशब्दान् अपि अशृण्वन् इव किमपि अपश्यन् इव धैर्येण गतवान्। द्वाराणि उद्घाटितानि एव आसन्। अन्तः गाढान्धकारः आसीत्। यदा सः अन्तः प्रविष्टवान् तदा हृदयभेदकैः आक्रोशनशब्दैः अट्टहासध्वनिभिः च तत् गृहमेव कम्पितम् इव। एतत्सर्वं सुमन्त्रेण निरीक्षितम् एव आसीत्। अतः सः निर्भयः सन् तल्पस्य समीपं गत्वा तस्य उपरि उपविष्टवान्। किं रे! शतं वर्षाणि जीवितुम् इच्छा वा? भवतः एषा दुराशा एव अद्य भवतः मरणस्य कारणं भविष्यति इति भीकरः कण्ठस्वरः श्रुतः।
मम तु दीर्घायुषः अपेक्षा नास्ति एव। मदर्थम् अपि अहम् अत्र न आगतवान्। किन्तु अस्यां रात्रौ एवं मम मरणं भविष्यति इति विधिलिखितम् अस्ति चेत् तत् निवारयितुम् इच्छा नास्ति। न शक्यते अपि इति धीरस्वरेण सुमन्त्रः उक्तवान्। अनन्तरं तत् भूतगृहं बहुसमयपर्यन्तं शब्दरहितम् आसीत्। अनन्तरं पुनरपि अट्टहासध्वनिः श्रुतः। हासानन्तरं रोमाञ्चजनकः कश्चित् क्रूरकण्ठः किं रे भूतप्रेतादिविषये भवतः भयम् एव नास्ति वा? भयेन प्रलपन् भवान् भूमौ इतस्ततः लुठन् मरिष्यति। तत् वयं द्रश्यामः इति अस्माकम् इच्छा आसीत्। भवान् तु पाञ्चालिकावत् उपविष्टवान्। किमिदं चित्रम् इति श्रुतः।
जीवतः मनुष्यस्य मृतानां भूतप्रेतानां विषये भयं किमर्थम् इति पृष्टवान् सुमन्त्रः। अनन्तरं पुनः तल्पः इतस्ततः कम्पितुम् आरब्धः। द्वारतः अत्युष्णवायुः अन्तः प्रविष्टः। तस्य वायोः तीक्ष्णध्वनिः कर्णं छिद्रयति इव। अनेके जतुकाः सुमन्त्रस्य मस्तकस्य समीपे एव डयमानाः आसन्। एतेषां कोलाहलानां मध्ये अपि अचलः सुमन्त्रः स्वस्थम् उपविष्टः। तस्य शरीरस्य कापि हानिः न अभवत्। क्रमेण रात्रिः अतीता। प्रकाशः सर्वत्र व्याप्तः। भूतगृहे सर्वाः विकृतचेष्टाः समाप्ताः। तल्पे उपविष्टः सुमन्त्रः उपधानस्य अधः स्थितं अङ्गुलीयकं गृहीतवान्।
अनन्तरं सः शैलम् अवतीर्य आगतवान्। युवराजः तदा शिलायाः उपरि निद्राति स्म। तस्य पार्श्वे स्थितं खड्गम् एव पश्यन् सुमन्त्रः तत्रैव किञ्चित्कालं स्थितवान्। अनन्तरं तम् प्रबोधयितुम् इच्छन् आहूतवान्। पार्श्वे स्थितस्य वृक्षस्य शाखाः कम्पयित्वा शब्दान् उत्पादितवान्। तथापि युवराजः जागृतिं न प्राप्तवान्। सुमन्त्रः पार्श्वे अन्यस्याः शिलायाः उपरि उपविष्टवान्। तदा शैलस्य उपरिभागतः भयङ्करः शब्दः श्रुतः। तेन शब्देन युवराजस्य जागृतिः जाता। सः सुमन्त्रः च आश्चर्येण शैलं दृष्टवन्तौ। सम्पूर्णं शिथिलगृहं छिद्रीभूय युगपत् एव पार्श्वे पतितम्। सर्वे पिशाचाः आक्रोशं कुर्वन्तः आकाशं प्रति धावितवन्तः।
सुमन्त्रः शिथिलगृहतः आनीतं मन्त्राङ्गुलीयकं युवराजस्य हस्ते दत्त्वा गृह्णातु! इदमेव हि मन्त्राङ्गुलीयकं। भूतगृहे लब्धम्। सन्तोषेण धारयतु इति उक्तवान्। मित्र अहम् अतीव भ्रान्तः अस्मि। भवान् तु निश्चयेन एव जीवन् आगतवन्। एतदर्थं भवते किं बहुमानं ददामि इति पृष्ट्वा युवराजः पुनः मम कण्ठे वर्तमानस्य एतस्य रत्नहारस्य मूल्यं दशसहस्रं सुवर्णदीनाराः। भवान् इच्छति चेत् इदानीम् एव भवते ददामि इति उक्तवान्। सुमन्त्रः अत्यन्तविनयेन अहं पण्डितः अस्मि। अध्यापनं ज्ञानलाभार्थम् अध्ययनम् ग्रन्थानां रचना च मम कार्याणि। एतैः एव मम आनन्दः भवति। ऐश्वर्यस्य अपेक्षा नास्ति इति उक्तवान्।
एवं तर्हि भवतः ऋणस्य प्रत्यर्पणं कथं करणीयम् इति युवराजः पृष्टवान्। एतं रत्नहारं मत्परतया भवान् एव विक्रीय तेन लब्धस्य धनस्य दरिद्राणां कृते व्याधिग्रस्तानां कृते च विनियोगं करोतु। इदानीम् अहम् इतः गच्छामि इति सुमन्त्रः गन्तुम् उद्युक्तः। तस्य वचनं श्रुत्वा युवराजः अत्याश्चर्येण कुत्र प्रस्थितः इति पुनः पृष्टवान्। कुत्र गन्तव्यम् इति निर्णयः न कृतः। विष्णुपुरं वा शमन्तपुरं वा गमिष्यामि इति उक्त्वा सुमन्त्रः पुनः क्षणमपि तत्र न स्थित्वा ततः शीघ्रं निर्गतावान्।
इत्थं वेतालः कथां समाप्य महाराज भूतप्रेतानाम् आश्रयस्थानं तत् शिथिलगृहं प्रविष्टः सुमन्त्रः अपूर्वं महत्वपूर्णं च अङ्गुलीयकं किमर्थं युवराजाय दत्तवान्? प्रथमं तस्य गम्यस्थानं रोहितपुरम् आसीत्। किन्तु रोहितपुरस्य युवराजेन सह स्नेहानन्तरम् अपि सः रोहितपुरं न गतवान्। प्रत्युत अपरिचितम् अन्यं प्रदेशं गन्तुं किमर्थं निश्चितवान्? एतेषां सन्देहानाम् उचितम् उत्तरं जानन् अपि न वदति चेत् भवतः शिरः सहस्रधा भग्नं भवति इति उक्त्वा तूष्णीम् अभवत्।
तदा त्रिविक्रमः एवं रीत्या उत्तरं दत्तवान् सुमन्त्रः पण्डितः। अतः भूतप्रेतानाम् उत्पत्तिः कथं भवति इति सः जानाति स्म। ततः पूर्वं ये ये भूतगृहं प्रविष्टवन्तः ते सर्वे भीत्या एव मृताः। अनन्तरं ते एव भूतरूपेण परिणताः इति सः सम्यक् जानाति स्म। किञ्च सुमन्त्रः तत् मन्त्राङ्गुलीयकं स्वसमीपे न स्थापितवान्। यतः युवराजः मन्त्राङ्गुलीयकार्थम् एव आग्रहपूर्वकम् आगतवान् आसीत्। सुमन्त्रः यदि तस्मै न ददाति तर्हि सः सुमन्त्रं हन्तुम् अपि सिद्धः भवेत्। शैलतः यदा सुमन्त्रः अधः अवतीर्णः तदा युवराजः निद्रावशः आसीत्। सुमन्त्रः खड्गेन तं सुलभतया हन्तुं शक्नोति स्म। किन्तु सुमन्त्रः विवेकी आसीत्।
तेन युवराजेन सह सुमन्त्रः रोहितपुरं न गतवान्। तस्य अपि महत् कारणम् अस्ति। युवराजः स्वयं साहसेन मन्त्राङ्गुलीयकं साधितवान् इति लोके कीर्तिं प्राप्तुं युवराजः इच्छति स्म। यदि सुमन्त्रः रोहितपुरं गच्छति तर्हि सः यदाकदाचित् रहस्यं बहिः वदेत् इति युवराजस्य भीतिः आसीत् एव। अतः युवराजः राजास्थानं आगन्तुम् आह्वानम् अदत्त्वा तत्र एव स्वीयं कण्ठहारं बहुमानरूपेण दातुम् उद्युक्तः। तस्य एषः एव अर्थः यत् भवान् इतः परं अस्माकं राज्ये न तिष्ठतु इत्येव। अतः एव सुमन्त्रः रोहितपुरस्य मार्गं त्यक्त्वा अन्यं मार्गम् अनुसृतवान् इति।
एवं रीत्या यदा त्रिविक्रमस्य मौनभङ्गः अभवत् तदा वेतालः शवसहितः उड्डीय गत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्।