Sanskrit Learners Club

Where we Learn from Each Other

Begger’s Luck

Source - Sanskrit Chandamama |

| October |

| 1984

Vikrama is one of the very famous historic king who ruled the present Ujjain of Madhya Pradesh in India. These series of stories about his smartness in resolving complex problems according to Dharmic principles are worth reading. These stories are somewhat lengthier compared to other short stories. I suggest you to think the answer by yourself for the questions asked by the Ghost, before reading, how Vikrama the King resolves the knot.

भिक्षुकस्य भाग्यम्

सा च भयङ्करी रात्रिः। चतुर्दिक्षु अन्धकारः व्याप्तः अस्ति। मेघानां गर्जनं श्मशानस्य भीकरतां वर्धयति। वायुना कम्पमानाः वृक्षाः पानमत्ताः इव इतस्ततः आन्दोलमानाः सन्ति। तथापि त्रिविक्रमः दृढसङ्कल्पेन स्वकार्यं कुर्वन् अस्ति। सः पुनः अपि वृक्षस्य समीपम् आगतवान्। वृक्षम् आरुह्य शवं स्वस्कन्धस्य उपरि संस्थाप्य ततः निर्गतः। तदा शवे स्थितः वेतालः वक्तुम् आरब्धवान्।

राजन्! भवतः सङ्कल्पः सिद्धिः च श्लाघनीयः एव। किन्तु एकः संशयः यदर्थां कार्यं कुर्वन् अस्ति तत् सिध्यति वा? भाग्ये एव यदि न उल्लिखितं तर्हि तत् कथं वा लभ्येत? पूर्वार्जितपुण्यं विना क्रियमाणः सर्वः अपि प्रयत्नः व्यर्थः एव। एतावदेव न। कदाचित् समीपम् उपस्थितं फलम् हस्तच्युतं भवेत्। उदाहरणार्थम् अहम् एकां अन्धवृद्धस्य कथां वदामि। एतेन भवतः मार्गायासः अपि परिहृतः भवेत्।

एकस्मिन् ग्रामे एकः अन्धः भिक्षुकः आसीत्। तस्य ग्रामस्य अन्तभागे एकः विशालः वृक्षः आसीत्। तस्य वृक्षस्य छाया एव भिक्षुकस्य गृहम्। सः दिने भिक्षार्थम् इतस्ततः अटति। रात्रौ वृक्षस्य छायायां विश्रान्तिम् अनुभवति। एवमेव तस्य जीवनं प्रचलति स्म। एकदा पार्श्वग्रामे रथयात्रा प्रवृत्ता। भिक्षायाचनार्थं भिक्षुकः रथयात्रां गतवान्। रात्रौ प्रत्यागमनसमये सः ग्रामस्य कुल्यायां पतितः। वेदनया मन्दं रोदितुम् आरब्धवान्। तदा कश्चित् आगत्य हस्तसाहाय्यं यच्छन् उक्तवान् तात! उत्तिष्ठतु। भवान् कुल्यां न दृष्टवान् वा इति।

न भोः पुत्र! अहम् अन्धः अस्मि। भिक्षायाचनार्थं पार्श्वग्रामस्य रथयात्रां गतवान् आसम्। भवान् समीपे एव विद्यमानस्य महावृक्षस्य समीपं मां नेतुं शक्नोति वा इति वदन् वृद्धः उत्थातुं प्रयत्नं कृतवान्। अपरिचितस्य साहाय्येन गच्छन् वृद्धः अन्धः पृष्टवान् भवान् कः? अद्य एव एतं ग्रामम् आगतवान् इति भाति। भवतः वचनं सत्यं अहम् अत्र अद्य एव आगतवान्। किन्तु अन्धः भवान् एतत् कथं ज्ञातवान् इति अन्धेन सह गच्छन् सः अपरिचितः पृष्टवान्।

मदीयम् अर्धम् आयुः अस्मिन् एव ग्रामे यापितं मया। सर्वेषां ध्वनेः परिचयः अस्ति मम। कस्यापि गृहस्स्य अतिथिः वा भवान्? भिक्षुकः एकहस्तेन स्कन्धं गृहीत्वा अपरहस्तेन स्वदण्डं गृहीत्वा गच्छन् आसीत्। पतनकारणतः सः इदानीम् अपि सम्यक् चलितुं न शक्नोति स्म। अहं कस्यापि अतिथिः न। भाग्यवञ्चितः कश्चित् असहायः अस्मि। किमपि कार्यम् अन्विष्यन् एतं ग्रामम् आगतवान्। प्रातःकालतः आहारः न लब्धः। अतः आकण्ठं जलं पीत्वा छायायां सुप्तः आसम्। तदा धम् इति पतनशब्दः श्रुतः। अतः भवतः समीपम् आगतवान्।

भवतः माता पिता वा नास्ति वा? मातापितरौ बाल्ये एव दिवङ्गतौ। अनन्तरं पितृव्यः मां पोषितवान्। दौर्भाग्यवशात् गतमासे पितृव्यः अपि दिवङ्गतः। गृहोद्योगकौशलं किमपि अहं न जानामि। इदानीं किं करणीयम् इति न स्फुरति। बहुदिनतः प्रयत्ने कृते अपि उद्योगः कुत्रापि न लब्धः। भवता सूचितस्य वृक्षस्य समीपम् आगतौ आवाम्। इदानीं वेदना कथम् अस्ति इति वदन् सः गन्तुं प्रवृत्तः। चिरं जीवतु पुत्र! इदानीम् वेदना किञ्चित् न्यूना। अरे नाम न सूचितवान् भवान्। इदानीं रात्रौ कुत्र वा गच्छति?

मम नाम रमणः। पूर्वं यत्र शयनं कृतवान् आसम् तत्र एव गच्छामि। भिक्षुकः हसन् उक्तवान् निराश्रयस्य भवतः तत्र किम्? अत्र किम्? अत्र एव शयनं करोतु। वृक्षस्य छायायां सुखं निद्रां करोतु। भिक्षुकस्य प्रीतिपूर्वकं वचनं श्रुत्वा रमणः स्वपितृव्यं स्मृतवान्। तद्दिने रात्रौ तत्र एव शयनं कृतवान्। ततः आरभ्य तदेव रमणस्य गृहम् अभवत्।

रमणः प्रतिदिनं भिक्षुकं मन्दिरसमीपे वा मार्गस्य पार्श्वे वा उपवेशयति स्म। भिक्षया लब्धेन उभयोः अपि उदरपोषणं प्रचलति स्म। सायं रमणः भिक्षुकं वृक्षसमीपम् आनयति स्म। एकदा मध्याह्नसमयः। आतपपीडितः भिक्षुकः उपविष्टः एव सुप्तः आसीत्। तदा कश्चित् धनिकः पुरुषः भिक्षुकस्य समीपम् आगतवान्। भिक्षापात्रे धनस्य स्यूतं स्थापयित्वा गतवान् च। स्यूते खाद्यवस्तूनि भवेयुः इति चिन्तयन् रमणः स्यूतम् उद्घाटितवान्। अरे! किम् आश्चर्यम्! बहूनि सुवर्णनाण्यकानि सन्ति तत्र! रमणः आश्चर्यचकितः अभवत्।

धनिकः प्रमादवशात् स्यूतं तत्र स्थापितवान् स्यात् इति चिन्तयन् रमणः तं स्यूतं स्वीकृत्य धावितवान्। धनिकस्य समीपं गत्वा उक्तवान् स्यूते सुवर्णनाण्यकानि सन्ति। धनिकः उक्तवान् भवान् भिक्षुकस्य पुत्रः वा? भाग्यशाली भवान्। इतःपरं भवतोः भिक्षायाचनस्य आवश्यकता न भविष्यति। रमणः इदानीम् अपि न विश्वसिति। धनिकः चेदपि यः कोऽपि एतावन्ति सुवर्णनाण्यकानि भिक्षारूपेण दातुं शक्नोति वा इत्येषः भावः तस्य मुखे प्रतिभाति स्म।

कदाचित् वाणिज्ये अहं निरीक्षापेक्षया अधिकलाभं प्राप्नोमि। तादृशसन्दर्भेषु देवस्य कृते नारिकेलफलस्य समर्पणेन मम तृप्तिः न भवति। अतः अहं लाभे कञ्चित् भागं दरिद्राय ददामि। यदि दरिद्रस्य जीवनं समृद्धं भविष्यति तर्हि मया पुण्यं सम्पादितं भवति किल इति उक्त्वा धनिकः ततः निर्गतः।

एतदनन्तरं रमणस्य मनसि विचारः उत्पन्नः कस्यचित् दरिद्रस्य जीवनं समृद्धं भवतु इति दृष्ट्या एव धनिकः दानं कृतवान्। जीवनं समृद्धं कर्तुं मया एव इदानीं किमर्थं प्रयत्नः न करणीयः इति। रमणः नगरमार्गम् अनुसृतवान्। नगरं गत्वा सः तत्र शाकविक्रयणम् आरब्धवान्। केषुचित् एव वर्षेषु तेन सहस्रशः रूप्यकाणि सम्पादितानि। धनिकेषु अन्यतमत्वेन सः जनैः गण्यते स्म। धनिकः कश्चित् वणिक् सुलोचना नामिकया स्वपुत्र्या सह तस्य विवाहं कारितवान्।

सुलोचना बुद्धिमती विवेकिनी च। सा पत्युः विषये एतावत् एव जानाति यत् ग्रामात् आगतः रमणः नगरे अकस्मात् वाणिज्यम् आरब्धवान् इति। द्वित्रवर्षाणाम् अनन्तरं कश्चित् शाकविक्रयिकः रमणस्य गृहम् आगतवान्। सः रमणस्य ग्रामे एव निवसति स्म। सः रमणस्य पितृव्यस्य मरणं रमणस्य ग्रामत्यागम् सर्वं सुलोचनायौ निवेदितवान्। एतत् श्रुत्वा सुलोचनायाः कुतूहलम् अधिकं जातम्। अल्पे एव समये पतिः कथम् एतावत् धनं सम्पादितवान् इति सा ज्ञातुम् इष्टवती।

सायङ्काले रमणः गृहम् आगतावान्। तदा सुलोचना स्वकुतूहलं निवेदितवती। सुलोचनायाः वचनेन रमणः जागरितः इव म्लानः च। गाढनिद्रातः कश्चित् तम् उत्थापितवान् इव। रमणस्य मौनं दृष्ट्वा सुलोचना चिन्तितवती अत्र किमपि रहस्यम् अस्ति। सा पुनः तद्विषये पृष्टवती। पत्न्याः समीपे असत्यं वक्तुम् अनिच्छन् रमणः पापमूलकेन सम्पादितेन धनेन एतत् वाणिज्यम् आरब्धवान् इति एतावदेव अहं वक्तुम् इच्छामि। एतद्विषये अधिकं मा पृच्छतु इति उक्तवान्। तदा सुलोचना उक्तवती पूर्वं कदाचित् पापम् आचरितं स्यात्। किन्तु पापस्य परिहारः अपि कश्चन भवति एव। आत्मीयैः सह समालोचनया कोऽपि मार्गः स्फुरति। पापपरिहारेण मनसः शान्तिः लभ्यते इति।

सुलोचनायाः वचनेन रमणः मनसः समाधानं प्राप्तवान्। अनन्तरं सः पूर्वतनं समग्रं वृत्तान्तं पत्न्यौ निवेदितवान्। अन्ते उक्तवान् च इदनीम् अपि सः अन्धः भिक्षुकः प्रायः जीवति। अतः सः किमर्थम् अस्माभिः स्वगृहं न आनेतव्यः? एवं पापस्य परिहारः कर्तुं शक्यते किल इति। सुलोचना चिन्तितवती माम पतिः अधर्मेण धनं सम्पादितवान् स्यात्। तथापि सः सज्जनः एव इति। पत्युः पूर्वकथां श्रुत्वा तस्याः नेत्रतः अश्रूणि आगतानि। अश्रूणि मार्जयन्ती सा उक्तवति भवता एतत् कार्यं पूर्वम् एव करणियम् आसीत्। भवता वृथा विलम्बः कृतः इति।

सः अत्र आगन्तुं न सिद्धः चेत् इति रमणः सन्देहं प्रकटितवान्। तदा अहम् एव गत्वा तम् आनेष्यामि। इदानीं तु गमनसमये भवान् किञ्चित् धनम् अपि नयतु। सः आगन्तुं न सिद्धः चेत् धनं दत्वा आगच्छतु इति उक्तवती सुलोचना। रमणः झटिति उत्थाय मुखादिकं प्रक्षालितवान्। किञ्चित् उपहारं स्वीकृतवान्। अनन्तरं सः पञ्चसहस्ररूप्यकाणि स्वीकृत्य तत्क्षणे एव भिक्षुकस्य ग्रामं प्रस्थितः।

ग्रामप्राप्तौ रात्रिसमयः आगतः आसीत्। रामणः वृक्षस्य समीपं गत्वा दृष्टवान्। किन्तु तत्र भिक्षुकः नास्ति! वसतिचिह्नम् अपि किमपि न दृश्यते। एतेन रमणः खिन्नः चिन्तामग्नः च। इदानीं किं करणीयम् इति चिन्तयन् सः तथैव एकक्षणं स्थितवान्। किं पश्यति अत्र? अन्धः भिक्ष्कः इदानीं शिवालये निवसति इति ग्रामीणः कश्चित् उक्तवान्। रमणः वेगेन देवालयसमीपं गतवान्। तत्र स्थितम् एकं ग्रामीणं पृष्टवान् अत्र कश्चित् अन्धः भिक्षुकः निवसति वा? सः ग्रामीणः देवालयस्य पुरतः उपविश्य धूमपानं कुर्वन् आसीत्। परीक्षादृष्ट्या सः रमणम् एकवारं सम्यक् परिशीलितवान्। रमणस्य कण्ठे स्थिते रत्नहारे तस्य दृष्टिः क्षणकालं स्थिता आसीत्। अनन्तरं सः उक्तवान् किम्? अन्धः भिक्षुकः इति? आम् सः अत्र एव निवसति। अल्पे एव काले सः आगमिष्यति इति।

रमणः शिवालयस्य अन्तः प्रविष्टवान्। स्तम्भम् आधारीकृत्य उपविष्टवान्। श्रान्तिकारणतः तथैव निद्रां प्राप्तवान्। अल्पे एव काले तेन शिरसि दण्डप्रहारः अनुभूतः। रमणः झटिति जागरितः परितः दृष्टवान्। कश्चित् धनस्यूतं स्वीकृत्य पलायमानः अस्ति। रमणः अन्धकारे अपि ज्ञातवान् पूर्वं भिक्षुकविषये यं पृष्टवान् आसीत् सः एव चौर्यं कृतवान् इति। वेदनाम् असहमानः रमणः चीत्कारं कृतवान्। तेन समीपे सुप्तस्य भिक्षुकस्य निद्राभङ्गः जातः। समीपम् आगच्छन्तं भिक्षुकं दृष्ट्वा रमणः उक्तवान् तात! अहं पापी रमणः अस्मि। मां क्षाम्यतु भवान्।

इतः गमने किं कारणम्? गमनानन्तरं किं किं प्रवृत्तम्? इत्यदिकं सर्वं भिक्षुकाय निवेदितवान् रमणः। अनन्तरं इदानीं मम गृहं गच्छावः इति अनुरोधम् अपि कृतवान्। भिक्षुकः प्रथमं रमणस्य शिरासि जातस्य व्रणस्य उपरि वस्त्रपट्टिकां बन्धितवान्। पुनश्च मनसि किमपि चिन्तयन् हसित्वा तूष्णिम् उपविष्टवान्। वदतु तात! तर्हि मया सह आगमिषयति किल? मम पत्नी आपि भवन्तम् आनेतुम् अनुरोधं कृतवती। यदि भवान् न आगमिष्यति तर्हि भवन्तं नेतुं सा स्वयम् आगमिष्यति इति वदन् रमणः भिक्षुकस्य स्कन्धस्य उपरि प्रीत्या हस्तं स्थापितवान्।

तदा भिक्षुकः उक्तवान् भाग्यं कियत् बलयुतं भवति! यत् भाग्ये न लिखितं तत् कथञ्चित् अपि न प्राप्यते एव। अतः एव भवान् मम कृते दातुं यत् धनम् आनीतवान् तत् चोरः चोरितवान्। तदपि भगवतः पुरतः! इतःपूर्वम् अपि सुवर्णनाण्यकानां स्यूतः मया एव प्राप्तः आसीत्। किन्तु तस्य अनुभोगः मम भाग्ये न लिखितम् आसीत्। भवतः भाग्ये आसीत्। अतः भवान् तत् उपयोक्तुं शक्तवान्। प्रसिद्धः धनिकः सञ्जातः च। ललाटे लिखितं परिमार्जयितुं न शक्यते। भाग्यम् एव मानवं नियन्त्रयति इत्यपि वक्तुं शक्यते। मम भाग्यं तु स्पष्टम्। तत् दीर्घा रात्रिः इव। तत्र पुनः सूर्योदयः नास्ति एव। अतः अहं भवता सह न आगमिष्यामि। प्रातः काले भवान् स्वगृहं गन्तुं शक्नोति इति।

रमणः किमपि वक्तुम् असमर्थः। सः तूष्णीम् उपविष्टवान्। रात्रिः एवम् एव अतीता। प्रातःकाले दैन्यं प्रकटयन् रमणः भिक्षुकं पृष्टवान् तात! भवान् न आगमिष्यति एव? भिक्षुकः निराकृतिं सूचयन् शिरः कम्पितवान्। अनन्तरं स्वसमीपे स्थिते स्यूते हस्तं प्रसार्य किञ्चित् धनं बहिः आनीतवान्। तत् रमणस्य हस्ते दत्वा उक्तवान् एतत् मार्गव्ययार्थम् भवतः समीपे भवतु। तात! इतःपरं किम् अहम् वदामि? स्वकीयम् आरोग्यं रक्षतु। भाग्ये लिखितम् अस्ति चेत् पुनः मिलामः इति उक्तवा हताशः रमणः अश्रूणि मुञ्चन् नगरं गतवान्।

वेतालः एवं कथां समाप्य उक्तवान् महाराज! भिक्षुकेन प्रथमं सुवर्णनाण्यकानां स्यूतः यः प्राप्तः आसीत् तं रमणः नीतवान्। द्वितीयवारं रमणः पञ्चसहस्ररूप्यकाणि आनीतवान्। तदपि केनापि चोरितम्। एतत् द्वयम् अपि दौर्भाग्यवशात् जातम्। किन्तु सर्वम् अपि भाग्यवशात् जातम् इत्यपि वक्तुं न शक्यते। यतः रमणः यदा आहूतवान् तदा तेन सह भिक्षुकः नगरं गन्तुं शक्नोति स्म। तथापि न गतवान्। तर्हि अत्र कस्य दोषः? उत्तरं जानन् अपि भवान् न वदति चेत् भवतः शिरः सहस्रधा भग्नं भवेत्।

भिक्षुकः रमणेन सह नगरं गन्तुं शक्नोति स्म सत्यम्। किन्तु दौर्भाग्यं निवारितं भवेत् इति आशा तु न आसीत्। यतः दौर्भाग्यं भिक्षुकं छाया इव सर्वदा अनुसरति स्म। अतः एव प्रथमवारं धनं रमणः स्वीकृत्य गतवान्। द्वितीयवारं चोरः चोरितवान्। यदि अहं रमणस्य गृहं गमिष्यामि तर्हि दौर्भाग्यं तम् अपि पीडयति इति भिक्षुकः दृढं विश्वसिति स्म। भिक्षुकः रमणं पुत्रम् इव प्रीत्या पश्यति स्म। रमणस्य हितार्थं मरणपर्यन्तम् अपि भिक्षुकजीवनं यापयितुं सः सिद्धः आसीत्। अतः एव सः अवसरे प्राप्ते अपि रमणेन सह नगरं न गतवान्।

एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवे स्थितः वेतालः पुनः गत्वा वृक्षम् आश्रितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.