SanskritLearners.Club

Where we Learn from Each Other

Handicap

Source - Sanskrit Chandamama |

| July |

| 1984

Sudhir was very handsome by birth. Everyone in the village praised his handsomeness and because of that he became pride of his outlook. In that village four handicaps were also living. Sudhir with his playful nature and out of pride about his physique used to make fun of those handicaps. One day, they all cursed him and that made him to stop making fun of handicaps. But, when he got married and his wife was about to deliver a baby, Sudhir was fearful about the curse and how he took remedial steps to come out of that fear is the story.

विकलाङ्गाः

सुधीरः जन्मतः एव सुन्दरः बालकः। ग्रामीणाः तम् दृष्ट्वा आकृष्टाः भवन्ति। सर्वेऽपि सुधीरः सुन्दरः इति प्रशंसां कुर्वन्ति। एतेन सुधीरः गर्विष्ठः जातः। यदा सः युवकः जातः तदा अपि स्वभावे परिवर्तनं न जातम्।

तस्मिन् ग्रामे एका काणा वालिका आसीत्। एकः वक्रनासिकः बालकः दुर्बलहस्तः भिक्षुकः पङ्गुः वृद्धः च आसन्। सुधीरः एतान् विकलाङ्गान् यदा यदा पश्यति तदा सर्वदा कटुवचनैः तान् निन्दति अपमानयति च। कदाचित् उद्देशपूर्वकं तेषां समीपं गत्वा विविधबालिशचेष्टाभिः तान् पीडयति।

सुधीरस्य माता स्वपुत्रस्य एतादृशं व्यवहारम् दृष्ट्वा खिन्ना भवति। यदाकदाचित् हितवचनानि च उपदिशति – पुत्र! विकलाङ्गानां कृते सर्वदा साहाय्यं करणीयम्। उपहासः पीडा इत्यादिकं तु कदाऽपि न करणीयम्। केनापि कारणेन ते विकलाङ्गाः सञ्जाताः। अत्र तेषाम् अपराधः नास्ति एव। ते सर्वदा दयया द्रष्टव्याः। तेषां पीडनं तु महापापकरम् इति। किन्तु एतानि वचनानि सुधीरः न शृणोति एव।

एकदा ते चत्वारः विकलाङ्गाः अपि एकत्र आसन्। सुधीरः तत्र गत्वा उपहासेन दुष्टचेष्टया च तान् बहु पीडितवान्। तेन कुपिताः ते सुधीरं ताडयितुम् एव आगतवन्तः। किन्तु सुधीरः तान् उपहसन् अट्टहासं च कुर्वन् ततः पलायितवान्। तदा ते चत्वारः अपि आत्मनः असहायतां स्मृत्वा रोदनं कुर्वन्तः कोपेन आक्रोशन्तः उच्चैः उक्तवन्तः – अरे दुष्ट! वयं भवते किं कष्टम् दत्तवन्तः? विनाकारणं किमर्थम् अस्मान् पीडयति? परपीडनस्य फलम् अवश्यम् अनुभोक्तव्यम् एव। अस्माकम् एषः शापः भवन्तं कदाचित् बाधते एव पश्यतु इति।

तेषाम् एतद्वचनं श्रुत्वा सुधीरः हसन् उपेक्षां प्रदर्शितवान्। तथापि तस्य मनसि शापस्य काऽपि भीतिः प्रविष्टा। तेन च सुधीरस्य धैर्यम् एव कुण्ठितम् जातम्। ततः आरभ्य सुधीरः तान् उद्दिश्य पीडनम् उपहासं च त्यक्तवान्। केषुचित् एव दिनेषु सुधीरस्य पिता ग्रामं त्यक्त्वा नगरं गतवान्। तत्रैव वासं कृतवान् च। सुधीरः यदा प्राप्तवयस्कः जातः तदा सुन्दर्या एकया कन्यया सह तस्य विवाहम् अपि कृतवान्।

गच्छति काले सुधीरस्य मातापितरौ दिवंगतौ। किन्तु पित्रा यथेष्टम् सम्पत्तिः सम्पादिता आसीत्। अतः सुधीरस्य कष्टं न जातम्। सः सुखसन्तोषेण जीवनं यापयन् आसीत्। सुधीरः पत्नीं महत्या प्रीत्या पश्यति स्म। एकदा सा गर्भिणी जाता। नवमे मासे आसन्ने सति सुधीरः पत्नीं तस्याः मातृगृहं प्रापय्य प्रत्यागतवान्। तस्य मनसि जनिष्यमाणस्य शिशोः एव चिन्ता। तद्दिने रात्रौ सुधीरः बहुकालपर्यन्तं निद्रां न प्राप्तवान्। तदा ग्रमस्य सर्वाः घटनाः अपि तस्य स्मृतिपटले आगत्य गताः। आत्मना कृतं विकलाङ्गानाम् अवहेलनं सः स्मृतवान्। कदाचित् पङ्गुः वृद्धः अन्यौः सह ताडयितुम् आगतवान् आसीत् इत्यपि सः स्मृतवान्। शापवाक्यानि कर्णे प्रतिध्वनितानि। एतत्सर्वं स्मृत्वा मनः भयेन कम्पते स्म। क्रमेण सः चिन्तां कुर्वन् एव निद्रावशं गतः।

अल्पे एव काले पत्नी पुत्रं प्रसुतवती इति वार्ता आगता। सुधीरः पुत्रं द्रष्टुम् अत्युत्साहेन गतवान्। किन्तु पुत्रस्य एकम् एव नेत्रम्! वक्रा नासिका बलहीनः हस्तः! सः पादेन पङ्गुः अपि! एतादृशं पुत्रं दृष्ट्वा सुधीरः मूर्च्छां गतः। किन्तु सुधीरस्य पत्नी तु सन्तोषेण उक्तवती – पश्यतु अस्माकं पुत्रः कथं सुन्दरः अस्ति इति। सुधीरस्य पुरतः एव सा पुत्रं प्रीत्या आलिङ्गितवती।

काकः अपि स्वपुत्रं सुन्दरम् एव मन्यते। शिशुः यथाकथमपि भवतु मातुः तु सः प्रियतरः एव। एतं विषयं स्मरन् सुधीरः भवत्या वचनं सत्यम्। कीदृशः सुन्दरः एषः पुत्रः इति उक्त्वा दीर्घं निश्वसितवान्। तद्दिनादारभ्य सुधीरः एकं विचित्रं दृष्टवान्। सुधीरस्य पत्नीं अन्यः यः कोऽपि वा शिशुः विकलाङ्गः इति न उक्तवान्। सर्वे अपि शिशुः सुन्दरः अस्ति इत्येव प्रशंसां कुर्वन्ति! अहं धनवान् इति कृत्वा बान्धवाः ममकारेण पत्नी च शिशोः अवहेलनं न कुर्वन्ति इति सुधीरः ज्ञातवान्।

यथा यथा दिनानि गतानि तथा तथा सुधीरस्य चिन्ता अपि वर्धते। पुत्रः विकलाङ्गः इति तु सत्यम् एव। यदा एषः क्रीडितुं गच्छति तदा अन्ये बालाः एतम् उपहसन्ति। अतः सर्वदा एषः बालः मम समीपे वा मातुः समीपे वा स्थापनीयः। यदा माता वा पिता वा पार्श्वे भवति तदा तु कोऽपि न उपहसति। इत्येवं चिन्तयित्वा सुधीरः सर्वदा पुत्रं स्वसमीपे एव स्थापयति स्म। बाल्ये विकलाङ्गानाम् उपहासः यदा कृतः तदा तैः कियत् सङ्कटम् अनुभूतं स्यात् इति इदानीं सुधीरः ज्ञातवान्। विकलाङ्गानां शापकारणतः एव मम एतादृशः पुत्रः जातः इति सुधीरः निश्चितवान्।

एतेषु एव दिनेषु सुधीरस्य गृहस्य समीपे धर्मशालां एकः सन्यासी आगतवान्। जनाः वदन्ति स्म यत् एषः सन्यासी महात्मा अस्ति। अद्भुताः शक्तयः सन्यासिना सम्पादिताः सन्ति इति। सुधीरः सन्यासिनं स्वगृहम् आहूय सत्कृतवान्। अनन्तरं तस्मै स्वपुत्रं प्रदर्शितवान्। सन्यासी बालकं दृष्ट्वा उक्तवान् गृहदीपकः एषः पुत्रः! बहुभाग्यशाली भवान् इति। सुधीरः पुत्रं गृहस्य अन्तः प्रेषितवान्। सन्यासिनः पुरतः स्वकीयां मनोव्यथां निवेदितवान्। बाल्ये कृतम् अपराधम् अपि निवेदितवान्।

एतत्सर्वं श्रुत्वा सन्यासी एकक्षणं गम्भीरः जातः। किञ्चित्कालं नेत्रे निमील्य आलोच्य अनन्तरम् उक्तवान् भवान् शीघ्रम् एव ग्रामं गच्छतु। येषां विकलाङ्गानां अपमानः पूर्वं कृतः तान् क्षमां प्रार्थयतु। किन्तु इदानीं पङ्गुः वृद्धः न जीवति। ग्रामे एकत्र तस्य स्मारकस्थलम् अस्ति। भवान् तत्र अपि गत्वा क्षमां प्रार्थयतु। एतेन भवतः पुत्रस्य विकलाङ्गता दूरीभविष्यति इति। सुधीरः तद्दिने एव स्वग्रामं गतवान् तत्र आत्मनः परिचयम् उक्त्वा क्षमां प्रार्थितवान्।

तदा ते सर्वे उक्तवन्तः अयि भोः! शत्रोः अपि अस्मादृशाः पुत्राः न भवन्तु इति वयम् इच्छामः। अन्येषाम् अहितं चिन्तितं चेत् अस्माकम् एव अहितं भविष्यति। अस्माकं क्षमादानेन भवतः पुत्रस्य विकलाङ्गता अपगच्छति इत्येतत् सत्यं चेत् वयं मनःपूर्वकं भवन्तं क्षाम्यामः इति। तेषां प्रीतिपूर्वकेण सद्व्यवहारेण सन्तुष्टः सुधीरः एकैकस्य अपि दश सुवर्णनाण्यकानि दत्तवान्। अनन्तरं वृद्धपङ्गोः स्मारकस्थानं गतवान्। तात! अहम् उन्मत्तः सन् भवन्तं पङ्गुः इति उक्त्वा अपमानितवान्। भवान् कृपया क्षाम्यतु मम पुत्रम् आशिषा अनुगृह्णातु इति सः सगद्गदं प्रर्थितवान्।

अपरस्मिन् क्षणे एव सुधीरस्य निद्रा भग्ना। स्वप्ने वा मया अपमानिताः क्षमाम् अनुगृहितवन्तः इति सः सन्तुष्टः अभवत्। एतदनन्तरम् एकसप्ताहाभ्यन्तरे एव श्वशुरगृहतः वार्ता आगता – पुत्रः जातः प्रसवः ससुखम् आसीत्। शिशुः माता च कुशलिनौ इति।

सुधीरः सद्यः एव श्वशुरगृहं धावितवान्। सुन्दरं कान्तिमन्तं पुत्रं दृष्ट्वा बाल्ये मया अपमानिताः चत्वारः विकलाङ्गाः अपि वस्तुतः क्षमाम् अनुगृहीतवन्तः। अतः एव सुन्दरः पुत्रः जातः इति स्वपत्नीम् उक्तवान् सन्तोषेण।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.