Sanskrit Learners Club

Where we Learn from Each Other

The Secret of Donation

Source - Sanskrit Chandamama |

| May |

| 1984

Vishnudatta is a puranic story teller. He once went to a village to discourse a lecture. In that village Ramagupta was a wealth person. The village residents wanted to conduct the function at his house and he happily accepted it. He thought of donating a handsome reward to Vishnudatta. But, when he found others were giving less than what he planned he changed his mind to donate richly. But, how he changed his mind later and rewarded more than what he planned earlier is the story.

दानरहस्यम्

एकस्मिन् ग्रामे विष्णुदत्तः इति एकः हरिदासः (हरिकथावाचकः) अस्ति। सः ग्रामं ग्रामं गत्वा श्रोतारः यथा आनन्दं प्राप्नुवन्ति तथा हरिकथां वदति। जनाः धनं सन्तोषेण ददति। अनेन मार्गेण विष्णुदत्तः जीवननिर्वहणं करोति।

एकदा विष्णुदत्तः एकं ग्रामं प्रति गतवान्। तत्रत्याः जनाः सन्तोषेण विष्णुदत्तेन हरिकथां वाचयितुं निश्चयं कृतवन्तः। तस्मिन् ग्रामे रामगुप्तः इति एकः धनिकः आसीत्। अतः तत्रैव कार्यक्रमं कुर्मः इति जनाः निश्चयं कृत्वा विष्णुदत्तेन सह रामगुप्तस्य गृहं गत्वा तस्य समीपे एवम् उक्तवन्तः। भोः! एतेन विष्णुदत्तेन हरिकथां वाचयितुं वयं सर्वे निश्चयं कृतवन्तः। सः कार्यक्रमः भवतः गृहे भवतु। कार्यक्रमानन्तरं वयं यथाशक्ति धनं दत्वा सम्मानं कुर्मः।

यद्यपि रामगुप्तः एतादृशविषये अनासक्तः तथापि एतेन कार्यक्रमेण अहं गौरवस्य पात्रं भवामि इति आलोच्य उक्तवान् – अस्तु नाम बहु समीचीनम्। अत्रैव कार्यक्रमः भवतु इति सर्वे निश्चयं कृतवन्तः चेत् अहं धन्यः। कार्यक्रमं चालयामः। अपि च विष्णुदत्तस्य वसतिरपि अत्रैव भवतु।

रामगुप्तगृहस्य अङ्गणे मण्टपस्य निर्माणम् कृत्वा वेदिकानिर्माणम् अपि कृतवन्तः। रात्रौ वेदिकायाः मध्ये देवस्य चित्रं स्थापयित्वा दीपमपि ज्वालितवन्तः। देवस्य समीपे शरावं स्थापितवन्तः। हरिकथां श्रोतुं सर्वे मण्टपे उपविष्टवन्तः। तेषु केचित् जनाः कथायाः आरम्भे एव यथाशक्ति धनं समर्पितवन्तः। अन्ये केचित् कथायाः अन्ते समर्पयितुं निश्चयं कृतवन्तः। धनिकः रामगुप्तः विष्णुदत्तस्य कृते दातुम् एकं राङ्कवं शतं रूप्यकाणि च सज्जीकृत्य प्रकोष्ठे स्थापयित्वा कथां श्रोतुम् आगतवान्।

तस्मिन् एव ग्रामे श्यामगुप्तः इति एकः आसीत्। सः कथायाः पूर्वम् आगत्य शरावे चत्वारि रूप्यकाणि समर्पितवान्। विष्णुदत्तस्य कृते न्यूनमूल्यम् एकं राङ्कवं च दत्तवान्। यद्यपि सः श्यामगुप्तः धनिकः एव। यदि हरिकथा कार्यक्रमः तस्य गृहे एव स्यात् तदा सः इतोऽपि अधिकधनेन सम्मानयितुं समर्थः।

धनिकः रामगुप्तः तु समीपे एव उपविश्य सर्वं पश्यन् एव आसीत् – सर्वे कति ददाति इति। सर्वेषाम् अपेक्षया श्यामगुप्तः एव अधिकं दत्तवान्। एतत् दृष्ट्वा रामगुप्तस्य मनसि एकः विचारः समुत्पन्नः – मया किमर्थं शतं रूप्यकाणि अधिकमूल्यराङ्कवं च दातव्यानि? मयापि दश रूप्यकाणि एकं सामान्यं वस्त्रं च दीयन्ते चेत् अलम्।

विष्णुदत्तः तु बहु बुद्धिमान्। एतादृशान् बहून् कार्यक्रमान् सः दृष्टवान्। सः दृष्ट्या एव अन्येषां मनः ज्ञातुं समर्थः। तस्य कथावाचनसमये रामगुप्तः केनापि व्याजेन प्रकोष्ठं गतवान्। तत्र गत्वा पूर्वमेव सज्जीकृतानि राङ्कवं रूप्यकाणि च कपाटिकायां स्थापयित्वा अन्यत् एकं वस्त्रं दश रूप्यकाणि च पेटिकातः बहिः स्थापयित्वा पुनः आगत्य उपविष्टवान्।

विष्णुदत्तः रामगुप्तस्य मनसि कः कः विचारः आगतः इति मुखभावेन विज्ञातवान्। सः अन्तः गत्वा किं कृतवान् इत्यपि ज्ञातवान्। अतः रामगुप्तस्य आगमनानन्तरम् एतां कथां आरब्धवान्। कर्णः महादाता। याचकानां कृते नास्ति इति कदापि न वदति। एकस्मिन् दिने कर्णः स्नानार्थं गन्तुं प्रवृत्तः। तदा एकः ब्राह्मणः याचितुम् आगतवान् इति सेवकः उक्तवान्। कर्णः तं ब्राह्मणम् आनयतु मम समीपे इति आज्ञापितवान्। ब्राह्मणः यदा आगतवान् तदा कर्णः वामहस्ते सुवर्णपात्रं स्थापयित्वा तत्र स्थितेन तैलेन दक्षिणहस्तेन शरीरे लेपनं कुर्वन् आसीती।

महाराज! अहं दरिद्रः ब्राह्मणः। भवते यद् रोचते तद् ददातु इति ब्राह्मणः उक्तवान्। तत्क्षणे एव महादाता कर्णः वामहस्ते स्थितं सुवर्णपात्रं तथैव ब्राह्मणस्य कृते दत्तवान्। ब्राह्मणः सन्तोषेण तत् स्वीकृत्य भोः महादातः! भवान् किमर्थं वामहस्तेन दानं दत्तवान्? सर्वेऽपि दक्षिणहस्तेन एव ददति इति पृष्टवान्। तदा कर्णः स्मयमानः एवम् उक्तवान् – एषः विषयः सर्वैः ज्ञातव्यः। सङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम्। एतत् सुवर्णपात्रं भवतः कृते दातव्यम् इति सङ्कल्पं कृतवान्। तदा एतत् पात्रं वामहस्ते आसीत्। एतत् दक्षिणहस्ते स्वीकृत्य दानसमयाभ्यन्तरे मम बुद्धिः अन्यथा अपि भवेत्। अतः वामहस्ते स्थितं पात्रं तेन एव हस्तेन दत्तवान्। एतेदेव दानरहस्यम्।

एवं कथां समाप्य प्रकृतकथां विष्णुदत्तः अनुवर्तितवान्। अनया कथया रामगुप्तस्य कपोलद्वयेऽपि चपेटिकानुभवः अभवत्। हरिकथा समाप्तेः अनन्तरं विष्णुदत्तस्य कृते पूर्वसङ्कल्पितापेक्षया अपि द्विगुणितं धनं कनकं राङ्कवञ्च दत्तवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.