षिराजनगरस्य समीपे एकस्मिन् ग्रामे रजाकः नाम कश्चित् आसीत्। तस्य पितृपितामहाः सर्वेऽपि बहुधनिकाः आसन्। किन्तु रजाकः यदा प्राप्तवयस्कः जातः तदा पितुः सर्वस्वमपि नष्टम्। अस्यामेव चिन्तायाम् पिता मृतः। रजाकः दरिद्रः सञ्जातः। अन्ते तस्य एकं जीर्णं गृहं एकं लघु गृहं च अवशिष्टम्।
रजाकः एकाकी सन् पिता यस्मिन् जीर्णे गृहे आसीत् तस्मिन् जीर्णगृहे एव आसीत्। पार्श्वे स्थितं लघुगृहं भाटाकार्थं दत्तवान्। तस्मिन् गृहे उषितः गृहस्थः प्रतिमासं पञ्चरजतनाणकानि ददाति स्म। रजाकः तद्धनस्य व्ययं न करोति स्म। प्रतिमासं गृहस्थेन दत्तं धनं एकस्मिन् अश्मपात्रे संस्थाप्य तत्पात्रं गृहसमीपे स्थितायाः वाप्याः समीपे गर्ते निगूढं स्थापयति स्म। यतः रजाकः यस्मिन् गृहे आसीत् तस्य गृहस्य द्वारादिकं किमपि नासीत्।
रजाकगृहस्य किञ्चिद्दूरे एकः कुटीरः आसित्। तस्मिन् कुटीरे कश्चित् आसीत्। सः बहु अलसः दुर्बुद्धिः च। सः स्नेहव्याजेन रजाकस्य गृहम् आगत्य रजाकः धनं कुत्र निगूहति इति ज्ञातुं बहुधा प्रयतितवान्। बहूनि दिनानि तेन तद्रहस्यं ज्ञातुं न शक्तम्। अतः एकस्मिन् दिने सः अलसः रहस्यस्थले स्थित्वा रात्रिसमये रजाकेन एकस्मिन् अश्मपात्रे धनं विगणय्य स्थापितं दृष्टवान्।
एवं ज्ञात्वा एकस्मिन् दिने रात्रौ रजाकस्य निद्रासमये सः दुष्टः आगत्य निगूहितं धनपात्रं नीतवान्। कुटीरं गत्वा धनं गणितवान्। पात्रे षष्टिरजतनाणकानि आसन्। तेन तस्य बहु सन्तोषः जातः। अपरेद्युः रजाकः गृहस्थेन दत्तं धनं पात्रे स्थापयितुं वाप्याः समीपे गत्वा पश्यति तत्र पात्रं नास्ति। एतत् कार्यं तेन दुष्टेनैव कृतम्। यतः सः दुष्टः बहुवारम् अहं कुत्र धनं निगूहामि इति परीक्षितवान्। अतः तेनैव मम धनं अपहृतम्। केनापि उपायेन सः दण्डनीयः इति रजाकः चिन्तितवान्।
अलसस्तु अहं षष्टिरजतनाणकानि सम्पादितवान्। मम विषये रजाकः संशयितः न भवेत्। अतः अद्यापि तस्य गृहं गत्वा तस्य समीपे किञ्चित् वार्तालापं कृत्वा आगच्छामि। यदि अहं न गच्छामि तर्हि तस्य संशयः भवेत् इति विचिन्त्य रजकस्य गृहम् आगतवान्। दूरे आगच्छन्तम् अलसं दृष्ट्वा रजाकः तत्क्षणे एव स्वस्य समीपे स्थितानि पञ्चरजतनाणकानि द्वारे विकीर्णवान्।
द्वारे एव अन्तर्मुखाम् उपविश्य आत्मगतं कथयन् इव आसीत्। अद्य अस्मपात्रे एतानि पञ्चरजतनाणकानि स्थापयामि चेत् आहत्य पञ्चषष्टिरजतनाणकानि भवन्ति। इतोऽपि पञ्चत्रिंशत्नाणकानि यदि योजयामि तदा शतं नाणकानि भवन्ति इति। अलसः समीपे आगत्य तेन उक्तं सर्वं श्रुतवान्। रजाकः अलसं दृष्ट्वा सद्यः एव पञ्चनाणकानि हस्ते आदाय स्वागतं कृतवान्।
अलसस्य एवं चिन्ता जाता एतानि पञ्चनाणकानि अपि अपहरणीयानि। रजाकाः अश्मपात्रं तथैव अस्ति इति जानाति। एतानि पञ्चनाणकानि तस्मिन् पात्रे यदा स्थापयति तदा तत्रत्यानि नाणकानि गणयति। अतः मया अपहृतं धनपात्रं पूर्वं यथा आसीत् तथैव स्थापयामि चेत् अद्य तस्मिन् पात्रे पञ्चनाणकानि रजाकः स्थापयति। अपरेद्युः पञ्चषष्टिनाणकानि लभ्यन्ते।
किन्तु प्रातःसमये तत् अश्मपात्रं मया तत्र स्थापयितुं कथं शक्यते? रजाकः अत्रैव भवति किल? केन व्याजेन तं दूरं प्रेषयामि इति क्षणं विचार्य एकम् उपायं योजितवान्। धनलोभेन एतादृशस्य अलसस्य बुद्धिरपि तीक्ष्णा जाता। अहो धनस्य शक्ति!
अलसः मित्रं मित्र! आवां बहुदिनेभ्यः मित्रे। मम एका आशा अस्ति। तत् वदामि वा इति पृष्टवान्। किमिति रजाकः पृष्टवान्। समीपे स्थितां भोजनशालां गत्वा तत्र उभावपि मिलित्वा भूरिभोजनं कुर्वः। भवतः अद्य रात्रौ समयः अस्ति वा इति पृष्टवान् अलसः। किम् एवं पृच्छति भवान्। भवादृशः मित्रम् आह्वयति चेत् मम यत्किमपि कार्यं भवतु त्यक्त्वा आगाच्छामि। महान् सन्तोषः इति रजाकः उत्साहं प्रदर्शितवान्।
तस्यां रात्रौ उभावपि भोजनशालायां मिलितवन्तौ। अलसः भोजनशालायजमानस्य समीपे गत्वा भक्ष्यभोज्यादि सर्वम् सज्जीकर्तुम् आदिशत्। अनन्तरं बहिरागत्य रजाकं प्रति भो मित्र! किमपि मा चिन्तयतु। मया धनम् आनेतुं विस्मृतम्। अतः गृहं गत्वा शीघ्रं धनम् आनयामि इत्युक्त्वा अलसः गतवान्। गतवन्तं तम् दृष्ट्वा रजाकः मनसा एव हसितवान्।
अलसः कुटीरं गत्वा षष्टिनाणकयुक्तं धनपात्रम् आदाय रजाकस्य गृहं गत्वा यथास्थानं स्थापयित्वा शीघ्रं भोजनशालाम् आगतवान्। भूरिभोजनं समाप्तम्। मया कृतेन उपायेन रजाकः वञ्चितः इति अलसः तथैव रजाकोऽपि मया अलसः वञ्चितः इति चिन्तयन्तौ उभावपि बहुसन्तोषेण गृहं गतवन्तौ।
रजाकः भोजनशालातः आगत्य तत्क्षणमेव अलसेन स्थापितं पात्रम् अन्यत्र स्थापयित्वा निद्रितवान्। अलसः अपि स्वकुटीरे धनविषयकं स्वप्नं पश्यन् एव सुखेन निद्रितवान्। परेद्युः सूर्योदयात् प्रागेव अलसः सन् अपि उत्थाय मुखमार्जनादिकं कृतवान्। अद्य रात्रौ पञ्चषष्टिनाणकानि लभ्यन्ते इति मनसि आलोचयन् कुटीरं परितः सन्तोषेण अटितवान्।
ततः अष्टवादनसमये उपाहारमन्दिरं गतवान्। तत्र विविधानि भक्ष्याणि भक्षितवान्। मधुरं पेयं च पीतवान्। रात्रौ धनं लभ्यते इति सर्वं धनम् अपि उपाहारमन्दिरे एव व्ययितवान्। उपाहारमन्दिरस्य यजमानस्य अपि आश्चर्यं कथम् अद्य एषः बहुधनं व्ययीकरोति इति। उपाहारमन्दिरतः प्रस्थाय अलसः अटन् उद्यानम् एकं प्रविश्य वृक्षस्य छायायाम् उपविष्टवान्। तत्रापि रजतनाणकानि एव चिन्तयन् अन्तःसुखम् अनुभवन् आसीत्। यदा मध्याह्नः जातः तदा ततः प्रस्थाय गृहमागत्य किञ्चित् कालां कटे शयितवान्।
शयितस्य लघु निद्रा आगता। यदा सः जागरितः तदा सूर्यः अस्तम् गच्छन् आसीत्। अलसः शीघ्रम् उत्थाय बहिः आगत्य सम्पूर्णं सूर्यास्तं प्रतीक्षमाणः स्थितवान्। अनन्तरं रात्रौ अलसः अश्मपात्रं चोरयितुं रजाकस्य गृहम् आगतवान्। तदा तस्य महान् सन्तोषः। यतः अश्मपात्रे इदानीं पञ्चषष्टिरजतनाणकानि सन्ति इति।
अलसः पूर्वं यत्र अश्मपात्रर्म् आसीत् तत्रैव अन्वेषणं करोति स्म। तदा तस्यपृष्ठभागे कोऽपि हसितवान्। हासं श्रुत्वा अलसः परिवृत्य पश्यति तत्र रजाकः अस्ति। भूरिभोजनं बहु समीचीनम् आसीत्। धन्यवादं वक्तुम् आगतवान् इति रजाकः हसन् एव उक्तवान्। तत्क्षणे एव अलसः बहिः धावितवान्। अनन्तरां तम् अलसं रजाकः कदापि न दृष्टवान्।