Sanskrit Learners Club

Where we Learn from Each Other

Crooked Mind

Source - Sanskrit Chandamama |

| November |

| 1984

This is a Mystical story about the Buddha which are known as Jaataka Kathaa where in it is mentioned about the hundreds of Life taken by Lord Buddha. In this series of stories you will find various Dharmic morale and his teachings to the public. You will find it more interesting to know about the teachings of Buddha and adopting such valuable teachings will surely bring change in your life.

वक्रबुद्धिः

पुरा ब्रहमदत्तः काशीनगरं परिपालयति स्म। तदा एकस्मिन् ग्रामे एकः ब्राह्मणः आसीत्। सः तपः कृत्वा मन्त्रसिद्धिं प्राप्तवान्। तस्य महामन्त्रस्य महत्त्वम् एवंरूपम् आसीत् यत् यदा सर्वे ग्रहाः एकत्र सम्मिलन्ति तदा अस्य मन्त्रस्य पठनं कर्तव्यम्। तदा सुवर्णम् रजतं मौक्तिकं प्रवालं रत्नं माणिक्यम् इत्यादयः सर्वविधाः अमूल्यमणयः वृष्टिवत् आकाशतः पतन्ति स्म। किन्तु एतादृशः ग्रहयोगः बहु विरलतया भवति।

बोधिसत्वः अस्य मन्त्रसिद्धस्य ब्राह्मणस्य शिष्यः आसीत्। आश्रमे अनेके शिष्याः आसन्। किन्तु बोधिसत्वं प्रति गुरोः अत्यधिकप्रीतिः आसीत्। एकदा ब्राह्मणः प्रियशिष्येण सह किञ्चित्कार्यार्थम् आश्रमतः प्रस्थितवान्। गमनसमये एकम् अरण्यां प्रविश्य तत्र अरण्यमार्गे गच्छति स्म। तस्मिन् अरण्ये पञ्चशतचोराः गुप्तरूपेण वसन्ति स्म। ते गुरुशिष्ययोः उपरि आक्रमाणं कृतवन्तः। यद्यपि गुरुशिष्ययोः समीपे अमूल्यवस्तु किमपि नासीत् तथापि ते चोराः तौ न अमुञ्चन्। तेषां चोराणाम् एकः नियमः आसीत्। यदा द्वौ पथिकौ तस्मिन् मार्गे गच्छतः तदा एकस्य गृहं गन्तुम् अवकाशं मिलति। सः गृहं गत्वा चोरैः निर्दिष्टं धनम् आनयति चेत् द्वयोः अपि विमोचनं भवति। नो चेत् द्वयोरपि मरणम्।

यदि पिता पुत्रः च तत्र आगच्छतः तर्हि पिता गृहं गन्तुम् अवकाशं प्राप्नोति। एवमेव मातापुत्र्योः मध्ये माता सहोदर्योः मध्ये एकः गुरुशिष्ययोः मध्ये शिष्यः च धनार्थं गृहं गन्तुम् अवकाशं प्राप्नुवन्ति। यदि न्यूनं धनम् आनयन्ति तर्हि एकस्य विमोचनम् अन्यस्य मरणम् इति चोराणाम् क्रमः आसीत्। एतादृशचोराः ब्राह्मणं बद्ध्वा स्ववशे गृहीतवन्तः। शिष्यं बोधिसत्वं दशसहस्रदीनारान् आनयतु इति आज्ञां कृत्वा प्रेषितवन्तः।

गमनतः पूर्वं बोधिसत्वः गुरुं नमस्कृत्य रहस्यरूपेण गुरुवर्य भीतिः मास्तु। दिनद्वये एव अहं धनं गृहीत्वा प्रत्यागमिष्यामि। भवान् तु कृपया मम एकं विज्ञापनं शृणोतु। अद्य सर्वेषां ग्रहाणां मेलनदिनम् अस्ति। तस्य प्रयोजनं गृहीत्वा अत्र विमोचनं प्राप्तुं भवान् सर्वथा न चिन्तयतु। यदि तथा क्रियते तर्हि भवतः एतेषां चोराणां च महती विपत्तिः सम्भवेत्। एषः धनवर्षण्योगः व्यर्थः भवति इति चिन्ता मास्तु। पुनः यदा कदाचित् एतादृशः योगः अवश्यं सम्भविष्यति एव इति आग्रहपूर्वकं उक्त्वा धनानयनार्थं गतवान्।

किञ्चित्कालनन्तरं सूर्यः अस्तं गतः। ब्राह्मणः चोराणां मध्ये आसीत्। निर्मले आकाशे पूर्णचन्द्रः राजते स्म। तस्य प्रकाशः सर्वत्र प्रसारितः आसीत्। ब्राह्मणः आकाशं चन्द्रं च दृष्ट्वा चिन्तामग्नः जातः। तस्मिन् बन्धने प्रतिक्षणं सः पीडाम् अनुभवति स्म। शिष्यस्य प्रत्यागमनार्थं दिनद्वयम् अपेक्षितम्। तावत्पर्यन्तं चोराणां मध्ये मया कुतः क्लेशः अनुभवनीयः? मम भाग्यवशात् आकाशे ग्रहकूटः सन्निहितः अस्ति। इदानीं मन्त्रपठनेन सुवर्णवर्षणं भवति। तं धनराशिं दृष्ट्वा सन्तुष्टाः चोराः आदरपूर्वकं मम बन्धविमोचनं कुर्वन्ति इति सः आलोचितवान्। एवंरीत्या चिन्तयन् सः प्राह्मणः बोधिसत्वस्य वचनानाम् अन्तरार्थं न गृहीतवान्।

अनन्तरं ब्राह्मणः चोराणां समूहं दृष्ट्वा भवन्तः माम् अत्र कुतः बन्धितवन्तः? धनार्थं खलु इति पृष्टवान्। आम् सत्यम्। धनार्थमेव। न्यूनाति न्यूनं पञ्चसहस्रदीनाराः भवतः शिष्येण आहरणीयाः। तदपेक्षया अपि न्यूनं भवति चेत् नास्ति विमोचनम् इति चोराः उक्तवन्तः। एतावदेव खलु! इदानीं भवन्तः मम वचनम् अनुसृत्य कार्यं कुर्वन्ति चेत् भवत्सु एकैकः अपि सहस्रदीनारान् प्राप्नोति। प्रथमं मम बन्धनशृङ्खलाः अपनयन्तु। शुभजलेन अहं स्नानं करोमि। मदर्थं नूतनवस्त्राणि यच्छन्तु। शीघ्रं विविधानि पुष्पाणि संगृह्य आनयन्तु। धूपदीपसुगन्धादीनि पूजाद्रव्याणि आनीय सज्जीकुर्वन्तु। अनन्तरं यत् सम्भवति तत् भवतामेव प्रत्यक्षं भवति इति।

ब्राह्मणः पूजां समाप्य आकाशं पश्यन् अञ्जलिं वद्ध्वा प्रदक्षिणं कुर्वन् सम्पत्करमन्त्रं पठितवान्। तदा आकाशतः नक्षत्राणि इव सुवर्णरजतरत्नादयः वृष्टिरूपेण भूमौ अपतन्। चोराः तु आश्चर्येण सन्तोषेण च पुलकिताः भूत्वा शीघ्रं शीघ्रं तं धनराशिम् अशेषतया सङ्गृहीतवन्तः। अनन्तरं तं धनराशिं गृहीत्वा अग्रे प्रस्थिताः चोराः स्वीयसमूहेन सह आगन्तुम् ब्राह्मणम् अपि आहूतवन्तः।

कुतः मया आगन्तव्यम्? भवताम् इष्टसिद्धिः अभवत् किल इति ब्राह्मणः पृष्टवान्। एतत् सर्वं मन्त्रप्राप्तं धनम्। एतेन धनेन अस्माकं व्यवहारार्थं प्रयोजनं भवति वा न वा इति परीक्षानन्तरम् एव भवतः विमोचनम्। चलन्तु इति उक्तवन्तः चोराः। गत्यन्तराभावात् ब्राह्मणः तैः सह प्रस्थितः। किञ्चिद्दूरे अन्यः महान् चोरसमूहः भयङ्करैः मारकायुधैः सन्नद्धः दृष्टः। तेन समूहेन प्रथमसमूहस्य उपरि आक्रमणं कृतम्। कुतः इदम् आक्रमणम् इति प्रथमसमूहस्य चोराः पृष्टवन्तः। किम् अन्यत् स्यात् धनार्थमेव! इदानीं कापि चर्चा मास्तु। सर्वं धनम् अत्र स्थापयित्वा गच्छन्तु इति द्वितीयसमूहस्य चोराः उक्तवन्तः।

एतावदेव खलु? पश्यन्तु एतं मन्द्रसिद्धं ब्राह्मणम्। एषः केवलम् आकाशं नमस्कृत्य तिष्ठति। अमूल्याः मणिमाणिक्यादयः वृष्टिवत् पतन्ति। एवं कृत्वा एव इदं सर्वं धनम् अस्मत्कृते एतेन ब्राह्मणेन सम्पादितम् इति उक्तवन्तः प्रथमसमूहस्य चोराः। एतत्सर्वं सत्यं वा इति द्वितीयसमूहस्य चोराः पृष्टवन्तः। आम् सत्यम्! किन्तु… इति वदन् ब्राह्मणः वाक्यं पूरयितुम् असमर्थः भूत्वा मूकवत् स्थितवान्।

किञ्चित् सावधानेन पृच्छन्तु इति उक्त्वा प्रथमचोराः अग्रे गतवन्तः। इदानीं ब्राह्मणः द्वितीयचोराणां हस्ते पतितः। भोः ब्राह्मण! अस्मत्कृते अपि धनं सम्पाद्य यच्छतु इति ते चोराः आग्रहपूर्वकं पीडयितुम् आरब्धवन्तः। निरुपायः ब्राह्मणः दैन्यभावेन भो भो भ्रातरः! इतः पूर्वं मया यत् धनं चोरेभ्याः दत्तं तत् केवलं मन्त्रप्रभावेण प्राप्तं धनम्। न अन्यत्। पुनः एकवर्षानन्तरम् एव तं मन्त्रः प्रयोक्तुं शक्यते। तदर्थं सर्वग्रहकूटः अपेक्षितः। इदानीं सः कूटः व्यपगतः। मम इच्छानुसारेन यदा कदाचित् मन्त्रपठनेन किमपि प्रयोजनं न भवति। पुनः वर्षानन्तरं यदा कूटयोगः भविष्यति तदा भवद्भ्यः धनं प्राप्य दास्यामि इति प्रार्थितवान्।

किन्तु तस्य वचने चोराणां विश्वासः न अभवत्। रे अधमब्राह्मण! अस्मत्तः पूर्वम् आगतेभ्यः अष्टैश्वर्यं प्रदाय भवान् प्रेषितवान्। इदानीं अस्मभ्यं तु वर्षात्मकम् अवधिं पृच्छति वा इति भर्त्सयन्तः हिंसितवन्तः। तया हिंसया विलप्य ब्राह्मणः तत्रैव मृतः। तस्य शवः मार्गपार्श्वे स्थितस्य वृक्षस्य शाखायां चोरैः वद्धः। अनन्तरं सर्वे ते चोराः अत्यावेशेन शीघ्रं शीघ्रं धावन्तः गत्वा प्रथमचोरान् प्राप्य तान् सर्वान् हतवन्तः। तेषां सर्वं धनराशिं स्वयमेव अपहृतवन्तः।

इदानीम् नूतनतया प्राप्तं धनं स्वकीयेषु विभागं कर्तुं ते उद्युक्ताः। तस्मिन् समये तेषु परस्परं भिन्नाभिप्रायेण पक्षद्वयं जातम्। क्रमेण पक्षद्वयोः मध्ये द्वेषः संवृद्धः। महाण् कोलाहलः कलहः च जातः। तदा शताधिकाः चोराः मृताः। अन्ते द्वौ एव चोरौ अवशिष्टौ। तदा तयोः किञ्चित् विवेकः जातः। इतःपरं कलहः मास्तु स्नेहेन भवावः इति निश्चित्य सर्वं धनं समीपे एव एकस्मिन् गुप्तस्थाने स्थापितवन्तौ। तदा तयोः द्वयोरपि अतीव बुभुक्षा जाता। एकः खड्गं गृहीत्वा धनरक्षणार्थं तत्रैव स्थितवान्। अन्यः आहारम् आनेतुं नगरं गतवान्।

प्रथमः धनरक्षकः चोरः मनसि इदानीं मम मित्रम् आगत्य अस्य अपारधनस्य अर्धं वृथा अपहरति। यदि अहं तं हनिष्यामि तर्हि इदं सर्वं ममैव भविष्यति इति चिन्तयन् तदर्थं सिद्धः भूत्वा प्रतिपालयति स्म। द्वितीयः नगरं गच्छन् सः अन्तिमः मृतः चेत् समस्तस्य धनस्य अहमेव अधिकारी भविष्यामि। एतादृशात् अवकाशात् न अहं वञ्चनीयः इति चिन्तयित्वा स्वकीयम् आहारभागं पृथक् संरक्ष्य अवशिष्टे आहारे तीक्ष्णं विषं मिश्रितवान्।

यदा सः आहारां गृहीत्वा प्रत्यागतः तदा धनरक्षकः चोरः एकेनैव प्रहारेण तं हत्वा अत्यन्तसन्तोषेण नर्तनं कृत्वा निश्चिन्तभावेन एकत्र उपविश्य विषमिश्रितम् आहारं भक्षितवान्। द्वितीयक्षणे सः अपि मृतः। एवंक्रमेण ब्राह्मणस्य सर्वेषां चोराणां च मरणानन्तरं कोलाहलरहिते तस्मिन् निर्जने अरण्ये अचेतनं धनमपि एकत्र पतितम् आसीत्।

दिनद्वयानन्तरं शिष्यः बोधिसत्वः विमोचनार्थं चोरैः निर्दिष्टं धनं गृहीत्वा अरण्यं प्रत्यागतवान्। तत्र ब्राह्मणम् अदृष्ट्वा सर्वत्र अन्विष्टवान्। सर्वत्र अपरिचितानां शवाः! ब्राह्मणः कुत्रापि न दृष्टः। तदा बोधिसत्वः एषः ब्राह्मणः मम वचनं नैव लक्षितवान् इति प्रतिभाति। चापल्येन यत् चिन्तितं तदेव कृतवान्। परह्यः पूर्णिमायां धनयोगं त्यक्तुम् असमर्थः एषः निर्भाग्यः मन्त्रं पठित्वा सुवर्णवर्षणं प्राप्तवान् अस्ति। तस्य फलरूपाः एव एते शवाः इति चिन्तयन् भयभ्रान्तः भूत्वा पुनः ब्राह्मणम् अन्विष्यन् अग्रे प्रस्थितवान्।

अनन्तरं किञ्चिद्दूरे वृक्षस्य शाखायां लम्बमानं ब्राह्मणस्य शवं दृष्टवान्। हा हन्त! आचार्य! मम वचनं तृणीकृत्य भवान् ईदृशीं दुर्गतिं प्राप्तवान् किल इति विलपन् गुरोः शवं वृक्षतः अधः आनीय चितां निर्माय गुरोः दहनक्रियादिकं कृतवान्। अराण्यपुष्पाणि आनीय अर्पितवान्। तथा तर्पणपूर्वकं गुरवे अन्तिमनमस्कारं समर्पितवान्। तस्मात् स्थानात् प्रस्थितः बोधिसत्वः तथैव अग्रे अग्रे गतवान्। प्रथमं प्रथमसमूहस्य चोरानां शवाः दृष्टिपथं गताः। पुनः किञ्चिद्दूरे द्वितीयसमूहस्य चोरानां शवाः दृष्टाः। धनं पुनः केन अपहृतं स्यात् इति चिन्तयन् शवान् अगणयन् अग्रे गतवान्। अनन्तरं चतुर्णां पादानां चिह्नानि दृष्ट्वा तानि एव अनुसरन् घनारण्यं प्रविष्टवान्।

एकत्र गुल्मानां मध्ये धनराशिः दृष्टः। एकः शवः अपि तत्र आसीत्। तत्रैव पार्श्वे आहारपदार्थाः आसन्। अहो! एवं जातं वा इति बोधिसत्वस्य मुखतः उदाराः निःसृतः। अन्यस्मिन् पार्श्वे अन्यस्य शरीरखण्डाः पतिताः आसन्। एतत् सर्वं दृष्ट्वा तावत्पर्यन्तं यद्यत् जातं तत्सर्वं चित्रलिखितम् एव बोधिसत्वः ज्ञातवान्। तेन दुःखितः सः मूकवत् किञ्चित्कालपर्यन्तं तथैव स्थितवान्।

एतत् सर्वं आलोचयन् बोधिसत्वः एकं महातत्वं ज्ञातवान्। विवेकं विना महती विद्या विद्वत्ता च व्यर्था एव। स्पष्टयता उक्तम् अपि वचनं गुरुः तिरस्कृतवान्। यद्यपि मम गुरुः स्वीयमन्त्रशक्त्या प्रभूतं सम्पत्तिम् उत्पादितवान्। किन्तु तया सम्पत्त्या भूलोकस्य किमपि प्रयोजनं न अभवत्। प्रत्युत मानवसमूहस्य नाशः सञ्जातः। अतः यदि बुद्धिवक्रमार्गे गृह्णाति तर्हि सर्वेषां वस्तूनां नाशः एव सम्भवति। दोषः वस्तुनि नास्ति बुद्धौ एव अस्ति। वक्रबुद्धिः अग्निज्वालसदृशी भवति। अनेकान् नाशयित्वा एव तस्याः शमनं भवति। एवंरूपेण बोधिसत्वः उच्चैः उपदेशं कृतवान्। समस्ते अरण्ये तस्य वचनानां प्रतिध्वनिः जातः। स्वीयगुरोः उदाहरणं प्रदर्श्य स्ववचनानां स्पष्टीकरणं कृतवान्। बोधिसत्वस्य उपदेशं श्रुत्वा वनदेवताः जयध्वनिं घोषितवत्यः।

अनन्तरं बोधिसत्वः तं धनराशिं गृहीत्वा स्वकीयम् आश्रमं गतवान्। लोकस्य उपकाराय तस्य धनस्य विनियोगं कृतवान्। अन्ते स्वस्य अवतारं समापितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.