Sanskrit Learners Club

Where we Learn from Each Other

Suitable Education

Source - Sanskrit Chandamama |

| January |

| 1985

Vikrama is one of the very famous historic king who ruled the present Ujjain of Madhya Pradesh in India. These series of stories about his smartness in resolving complex problems according to Dharmic principles are worth reading. These stories are somewhat lengthier compared to other short stories. I suggest you to think the answer by yourself for the questions asked by the Ghost, before reading, how Vikrama the King resolves the knot.

योग्यशिक्षणम्

दृढव्रतः विक्रमः वृक्षस्य सस्मीपं प्रत्यागतवान्। शवं वृक्षतः अवतार्य स्कन्धस्य उपरि संस्थाप्य यथापूर्वं मौनं श्मशानाभिमुखं प्रस्थितः। तदा शवान्तर्गतः वेतालः उक्तवान् राजन् मध्यरात्रे श्मशाने भवान् किं साधयितुम् इच्छन् कठोरपरिश्रमम् आचरति इति अहां न जानामि। भवादृशाः परिश्रमशालिनः बहवः भवन्ति। किन्तु ते परिश्रमस्य अनुगुणं लाभं स्वीकर्तुम् अशक्ताः अपारं कष्टम् अनुभवन्ति। तादृशेषु भवान् अपि अन्यतमः वा इति मम संशयः। उदाहराणरूपेण अहम् एकां कथां कथयामि। श्रमपरिहारर्थं कथां श्रुणोतु तावत्।

एवम् उक्त्वा वेतालः कथाम् आरब्धवान्। गणपतिः नाम एकः सुसम्पन्नः कृषिकः। तस्य सुशान्तः नाम एकः पुत्रः। गणपतेः दारिद्र्यं तु न आसीत् एव। अतः सः चिन्तितवान् पुत्रस्य अध्ययनार्थं सर्वविधव्यवस्थाः करणीयाः इति। किन्तु यदा सुशान्तः पञ्चवर्षीयः आसीत् तदा गणपतिः व्याधिना पीडितः। दिने दिने दुर्बलः जातः च। बहुवर्षपर्यन्तं सः एवमेव अस्वस्थः आसीत्। अतः गणपतिः पुत्रं गृहे एव स्थापयित्वा गृहकार्याणि कृषिकार्याणि च सम्यक् शिक्षितवान्। पञ्चदशे वयसि सुशान्ताः सर्वाणि कार्याणि स्वयं निर्वोढुं समर्थः जातः।

सुशान्तः वहु अध्ययनं कर्तुम् इच्छति स्म। तदीये ग्रामे विद्यमानः अध्यापकाः तु अधिकं शिक्षितः न। साः अक्षराभ्यसम् आरम्भिकपाठं च कारयितुं समर्थः आसीत् तावदेव। सुशान्ताः तु बुद्धिमान्। सः एतस्य गुरोः समीपे अध्ययनं कुर्वन् सहपाठिनः अतिवर्त्त्य शिक्षणं प्राप्तवान्। तस्मिन् ग्रामे निवसतः कवेः शङ्करस्य सकाशात् काव्यशिक्षणं प्राप्तवान्। इतोऽप्यधिकं पठितुं सुशान्तस्य अवकाशः न आसीत्। सुशान्तः स्वभावेन जिज्ञासुः। प्रकृतिं सुसूक्ष्मं परिशीलयन् सः तदीयकारणानि अन्विष्यति स्म। स्वप्रतिभाद्वारा सः कृषिकार्ये नवीनां पद्धतिम् आविष्कृतवान्। ग्रामीणाः तस्य बुद्धिमत्तायाः प्रशंसां कुर्वन्ति स्म।

परस्मिन् कस्मिन् अपि गृहे या कापि समस्या उद्भवतु सुशान्तः तत्र गत्वा परिहारं सूचयति। तदीयां सूचनां सर्वे अङ्गीकुर्वन्ति स्म। सुशान्तः अपि एतादृशकार्येन सन्तोषम् अनुभवति स्म। सुशान्तः सदा पितुः रोगविषये चिन्तयति स्म। ग्रामवैद्येन मिलित्वा रोगस्य कारणं चिन्तयति स्म। औषधानि कथं रोगं निवारयन्ति इति च परीक्षते स्म। एतद्विषये एव चिन्तयन् सुशान्तः शरीरशास्रसम्बन्धे बहु अध्ययनं कृतवान्। एतेन पितुः रोगनिवारणं कथम् इति सामान्यकल्पना तेन प्राप्ता। अनन्तरं सः मातरं पितरं च अनिवेद्य एव विशेषप्रकारकं व्यञ्जनं निर्मितवान्। एतस्य सेवनेन मासत्रये एव गनपतिः सम्पूर्ण स्वास्थ्यं प्राप्तवान्। एतदनन्तरं सुशान्तः पितरं स्वकीयचिकित्साक्रमं निवेदितवान्। गणपतिः आश्चर्यचकितः। सः ग्रामवैद्यं सर्वं वृत्तान्तं निवेदितवान्।

वैद्यः आश्चर्यम् प्रकटयन् उक्तवान् राजधान्यां मम स्नेहितः एकः प्रसिद्धः वैद्यः अस्ति। सः वैद्यशास्त्रे पारङ्गतः। भवतः पुत्रस्य बुद्धिः तु असाधारणा। सुवर्णं निकषोपलघर्षणेन एव उज्वलतां याति। एवम् एव पुरुषस्य प्रतिभा तदा एव प्रकाशतां याति यदा युक्तः अवकाशः लभ्यते। अतः भवान् भवतः पुत्रं गुरुकुलं प्रेषयतु इति। पुत्रः पाठनीयः इति गणपतेः अपि तीव्रतरा इच्छा आसित्। अतः सः पुत्रेण सह राजधानीं प्रति प्रस्थितः। सः ज्ञातवान् यत् राजधान्यां दिलीपः नाम गुरुः सर्वशास्त्रेषु पारङ्गतः अस्ति इति।

मार्गे गणपतिः एकस्मिन् ग्रामे निवासं कृतवान्। तत्र तदीयः एकः बन्धुः आसीत्। सः बन्धुः सुशान्तं परिक्ष्य उक्तवान् भवतः पुत्रः कविः भविष्यति। मम पुत्रः चन्द्रभानुः दिलीपसमीपे काव्याभ्यासं कुर्वन् आस्ति। भवान् राजधान्यां तं पश्यतु। सः भवतः साहाय्यं करिष्यति। दिलीपः सर्वान् शिष्यत्वेन न स्वीकरोति। यदा शिष्याः परीक्ष्य अनुमतिं सूचयन्ति तदा एव दिलीपः स्वीकरोति इति। ततः प्रस्थितः गणपतिः परेद्युः अन्यग्रामे वसतिं कृतवान्। तत्र सः ग्रामप्रमुखस्य गृहे आसीत्। ग्रामप्रमुखः सुशान्तस्य स्वभावान् परीक्षमाणः बहुधा वार्तालापं कृतवान्।

सुशान्तस्य विनयेन आकृष्टः सः उक्तवान् भवान् सुशान्तं युद्धं शिक्षयतु। गुरोः मार्गदर्शनं विना अपि एषः व्यायामम् अभ्यस्तवान्। अस्य शरीरसौष्ठवम् अपि समीचीनम् अस्ति। युद्धविद्यायां प्रावीण्यां प्राप्तुम् एतस्य अधिकसमयः महान् परिश्रमः वा न अपेक्षितः। राजधान्यां मदीयः अनुजः दिलीपस्य समीपे युद्धविद्याम् अभ्यस्यन् अस्ति। भवान् तस्य साहाय्यं स्वीकर्तुम् अर्हति इति। गणपतिः तस्मात् ग्रामात् प्रस्थितः। राजधानीप्राप्तितः पूर्वं पुनरपि त्रिषुग्रामेषु वसतिं कृतवान्। तत्र सर्वे अपि सुशान्तस्य बुद्धिमत्तां विनयशीलतां च दृष्ट्वा आश्चर्यं प्रकटितवन्तः। केचन उक्तवन्तः सुशान्तः वैद्यविद्यां पठतु इति। अन्ये सूचितवन्तः सः सङ्गीतकलायाः अभ्यासं करोतु इति। केचन शिल्पशास्त्रस्य अध्ययनं कर्तुं सूचितवन्तः।

कस्य सूचना उत्तमा? का सूचना अङ्गीकरणिया इति गणपतेः समस्या। सः सर्वेषां वचनानि श्रुण्वन् शिरः कम्पितवान् मौनं स्थितवान् चा। अन्ते गाणपतिः पुत्रेण सह राजधानीं प्राप्य एकस्यां धर्मशालायां वसतिम् उपकल्पितावान्। गणपतिः दिलीपदर्शनतः पूर्वं चन्द्रभानुं द्रष्टुं निश्चयं कृतवान्। चन्द्रभानुः तत्र स्वबन्धुगृहे निवसति स्म। प्रतिदिनं दिलीपगृहं गत्वा आगच्छति स्म च। अतः सः रात्रौ विलम्बेन गृहं प्रत्यागच्छति स्म। एतेन उत्थाने विलम्बः भवति स्म। गणपतिः सुशान्तेन सह चन्द्रभानुगृहं गतवान्। तदा चन्द्रभानुः सुप्तः आसीत्। तद्गृहीया एका महिला तम् उत्थापितवती। चन्द्रभानु आलस्येन एव बहिः आगत्य तयोः आगमनकारणं पृष्टवान्। गनपतिः आगमनकारणं निवेदितवान्।

चन्द्रभानुः पृष्टावान् भवतः पुत्रः पूर्वं कस्यापि गुरोः सकाशे विद्याभ्यासं कृतवान् वा इति। गणपतिः उक्तवान् न। यैः पूर्वं विद्याभ्यासः कृतः तादृशान् एव पाठयति अस्माकं गुरुः। अन्यान् न पाठयति। यदि भवान् साक्षात् तं पश्यति तर्हि तत् अहङ्कारत्वेन चिन्त्यते। अस्मदीयः गुरुः अहङ्कारप्रदर्शनं सर्वथा न सहते इति उक्तवान् चन्द्रभानुः। अतः एव भवतः साहाय्यं सम्प्रार्थ्य वयम् अत्र आगतवन्तः। अहं मम पुत्रं भवतः सामीपे स्थापयामि। भवान् एव भवतः गुरोः समीपे एतं योजयतु। कृपया भवता एषः महदनुग्रहः करणियः। भवन्तं विना अस्माकम् अन्यथा शरणं नास्ति इति उक्तवान्। चन्द्रभानुः सुशान्तं कवितासम्बन्धे कांश्चन प्रश्नान् पृष्टवान्। सुशान्तः समीचीनानि उत्तराणि दातुं न शक्तवान्।

एतेन कुपितः चन्द्रभानुः तर्जितवान् रे भवान् सामान्यप्रश्नानाम् उत्तराणि अपि दातुं न शक्नोति। एवम् स्थिते किमर्थं वा दिलीपसदृशस्य गुरोः आवश्यकता? अदिका आशा न उचिता। भवान् गन्तुम् अर्हति इति। अनन्तरं गणपतिः सुशान्तेन सह रामभद्रस्य गृहं गतवान्। रामभद्रः तदानीम् एव गुरुकुलं प्रस्थितः आसीत्। आगमनकारणमपि अपृष्ट्वा अस्मदीयः गुरुः सर्वं सहेत। किन्तु विलम्बं तु न सहेत इति वदन् रामभद्रः ततः त्वरया निर्गतः। तद्दिने सायं गणपतिः सुशान्तः च पुनः रामभद्रस्य गृहं गतवन्तौ। रामभद्रः सुशान्तं परीक्षादृष्ट्या पश्यन् पृष्टवान् भवतः पुत्रः कुत्रापि युद्धविद्याम् अभ्यस्तवान् वा इति।

चन्द्रभानुसमीपे प्रवृत्तं वार्तालापं स्मरन् गणपतिः रामभद्रम् उक्तवान् अस्माकं ग्रामे एव कस्यचित् गुरोः समीपे किञ्चित् अभ्यासं कृतवान्। शिक्षणं नाम वाणिज्यं वा? यत्र अपेक्ष्यते तत्र कर्तुं न शक्यते तत्। शिक्षणार्थं व्यवस्थिता काचित् योजना करणीया भवति। एकस्य गुरोः समीपे श्रद्धया पठनीयम्। ये स्वसमीपे अभ्यासस्य आरम्भं करिष्यन्ति तान् एव पाठयति अस्मदीयः गुरुः। ये अन्यस्य गुरोः सामीपे किञ्चित् अधीत्य अत्र आगच्छन्ति तान् सर्वथा न पाठयति। तादृशान् दृष्ट्वा कुप्यति सः। अतः अहम् एतद्विषये किमपि कर्तुं न शक्नोमि इति उक्तवान् रामभद्रः।

तदा गणपतिः उक्तवान् मित्र मया असत्यम् उक्तम्। चन्द्रभानुः इत्येकः दिलीपस्य शिष्यः यत् उक्तवान् तदाधारेण मया तथा उक्तम्। वस्तुतः एषः कुत्रापि युद्धविद्यां न अभ्यस्तवान् इति। अनन्तरं चन्द्रभानुसमीपे प्रवृत्तं सर्वं सप्रपञ्चं निवेदितवान्। रामभद्रः एतत् श्रुत्वा सदर्पम् उक्तवान् कविताविषये तेन यत् उक्तं तत् सत्यं भवेत्। यतः ते अन्यान् आश्रित्य उदरम्भरणं कुर्वन्ति। आश्रयदातुः तोषणार्थम् एकम् एव विषयं ते विभिन्नशैल्या लिखन्ति। परिश्रमं विना एव ते जीवननिर्वहणं करिष्यन्ति। किन्तु युद्धविद्या तथा न। युद्धविद्यायां नैपुण्यां सम्पादयितुं कठिनपरिश्रमः निरन्तरसाधना च अपेक्षिता। योजनाबद्धम् अध्ययनं तु नितराम् अपेक्षितम्। एतेन एव कश्चित् विद्यां पूर्णतया प्राप्तुं शक्नोति। एकैकस्य ऐकैकं वैशिष्ट्यं भवति। युद्धविद्यां सम्पादयितुम् यः इच्छति तेन अन्याश्रयणं न करणीयम् इति।

गणपतिः अनुरोधपूर्वकम् उक्तवान् यत् प्रवृत्तं तत् गतम् एव। भवता एव मदीयः पुत्रः दिलीपस्य आश्रये योजनीयः इति। एतेन रामभद्रः शान्तः जातः। सः सुशान्तं कांश्चन प्रश्नान् पृष्टवान्। अनन्तरं गणपतिम् उक्तवान् भवतः पुत्रस्स्य कृषिः एव उचिता न तु युद्धविद्या। युद्धविद्यार्थम् एषः सर्वथा अनर्हः। एतादृशानां प्रवेशविषये अहं गुरोः समीपे किमपि वदामि चेत् सः मां गुरुकुलतः एव निष्कासयति। गुरोः कोपपात्रः भवितुम् अहं न इच्छामि। मां वृथा न पीडयन्तु इति।

गणपतिः निराशः ततः निर्गतः। प्रायः सर्वत्र तेन एतादृशः एव अनुभवः प्राप्तः। किं करणीयम् इत्यत्र कोऽपि विचारः न स्फुरति तस्य मनसि। गणपतेः सुशान्तस्य च गमनागमनं धर्मशालायाः यजमानः प्रतिदिनं पश्यन् आसीत्। एकदा सः गणपतिम् एतद्विषये पृष्टवान्। गणपतिः स्वकीयाम् समस्यां सविस्तरं निवेदितवान्। भवान् एतादृशलघुविषये किमर्थम् एतावत् कष्टम् अनुभवति? दिलीपस्य शिष्याः राजास्थानेषु निरायासम् उद्योगं प्राप्नुवन्ति। एतदतिरिच्य समग्रे देशे दिलीपशिष्याणां विषये आदरभावः अस्ति। अतः दिलीपः सर्वान् शिष्यत्वेन न अङ्गीकरोति। येन दशसहस्र दीनाराः दीयन्ते तम् एव सः शिष्यत्वेन अङ्गीकरोति।

भवदीयं पुत्रं दिलीपस्स्य गुरुकुले स्थापयितुम् इच्छति चेत् भवान् अपि दश्ससहस्रदीनारान् ददातु। तेन सुलभतया अवकाशः लभ्यते। अन्यथा सहस्रजनान् पश्यति चेदपि प्रयोजनं नास्ति इति धर्मशालायजमानः स्पष्टम् उक्तवान्। गणपतिः एतत् श्रुत्वा आश्चर्यचकितः। दिलीपः अपि एवम् विद्यायाः विक्रयणं करोति इति ज्ञात्वा सः बहु खिन्नः। यदि शिक्षणस्य अपि विक्रयणं प्रचलति युवकानां का गतिः इति चिन्तितवान् गणपतिः। सः किञ्चित्कालं चिन्तामग्नः आसीत्। अनन्तरं सः ततः प्रस्थितः। सुशान्तः तम् अनुसृतवान्। उभौ अपि राजधानीं त्यक्त्वा स्वग्रामम् आगतवन्तौ।

वेतालः एवं कथां समाप्य उक्तवान् राजन् एतेन ज्ञायते यत् गणपतिः कृपणः इति। यतः सः दशसहस्रदीनारान् दातुम् अनिच्छन् पुत्रशिक्षणयोजनाम् एव परित्यक्तवान्। किं सः अविवेकी? मम सन्देहानाम् उत्तरं जानन् अपि यदि न वदति तर्हि भवतः शिरः सहस्रधा छिन्नम् भविष्यति इति।

तदा त्रिविक्रमः उक्तवान् गणपतिः कृपणः न। पुत्रं सः यत् ग्रामम् प्रत्यानीतवान् तत्र कृपणत्वस्य अदूरदर्शितायाः वा अवकाशः एव नास्ति। दिलीपस्य शिष्याणां दर्शनेन तेन एतादृशः निर्णयः स्वीकृतः। यः शिक्षायाः अपेक्षया धनमेव अधिकं मन्यते सः उत्तमः गुरुः भवितुं न अर्हति। उत्तमः गुरुः सः एव यः धनापेक्षया ज्ञानम् अधिकम् इच्छति। दिलीपः समर्थः गुरुः स्यात् नाम। किन्तु तस्य शिष्याः उत्तमाः पण्डिताः न भवन्ति अपि तु धनसम्पादनपराः। अत्र प्रत्यक्षप्रमाणं तदीयाः सिष्याः एव। तदीयशिष्येषु विनयस्य लेशः अपि नास्ति। सर्वे अहङ्कारस्य मूर्तयः। भवान् एव पश्यतु। चन्द्रभानुः रामभद्रः इत्यादयः सर्वे अपि महापण्डिताः एव। किन्तु तेषु एकः वा विनयं प्रदर्शितवान् वा? सर्वे अदि दर्पं प्रदर्शितवन्तः न तु विनयम्।

सुशान्तेन उच्छतमा विद्या न प्राप्ता स्यात्। किन्तु सः पितुः समीपे वसन् गृहकार्येषु साहाय्यं करोति। तेनैव सह परिसरं परिशीलयन् स्वप्रतिभया एव विशेषज्ञानं प्राप्नोति। सर्वे ग्रामवासिनः सुशान्तस्य बुद्धिमत्तायाः विनयस्य च प्रशंसां कुर्वन्ति स्म। ततः स्वसमस्यायाः परिहारम् अपि प्राप्नुवन्ति स्म। दशसहस्रदीनारान् दत्त्वा दिलीपसमीपे सुशान्तस्य प्रेषणं नाम मूर्खता एव। बुद्धिपूर्वाकं कोऽपि आत्मनः हानिं न इच्छति किल? अतः एव गणपतिः पुत्रेण सह स्वग्रामं प्रत्यागतवान्।

यदि दिलीपस्य समीपे एव सुशान्तः स्थाप्यते तर्हि सुशान्तः तु महापण्डितः भवेत्। किन्तु दिलीपस्य इतरशिष्याः इव सः गर्वशीलः भविष्यति चेत् तेन किं प्रयोजनम्? अतः ग्रामे एव सुशान्तस्य जीवनम् उज्वलं भविष्यति इति गणपतिः चिन्तितवान्। एवं गणपतेः व्यवहारे अविवेकस्य लेशः अपि नास्ति इति।

एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः वेतालः शवसहितः अदृश्य भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.