Sanskrit Learners Club

Where we Learn from Each Other

Display of Talent

Source - Sanskrit Chandamama |

| January |

| 1985

In a kingdom, the king was very interested in literature works. He appointed five selected poets in his kingdom. Also, he made an order that whoever wants to display their talent in poetry they have to first display it to these five poets before presenting their works to the king. The minister knows the mistake in the king’s order and waited for suitable time to bring it his notice. What the king did then is the story.

प्रतिभाप्रदर्शनम्

पुरा ललितसेनराजः प्लवङ्गराज्यं पालयति स्म। सः महान् कविपोषकः इति ख्यातः आसीत्। तस्य आस्थाने पञ्चरत्नानि इति प्रसिद्धाः पञ्चकवयः शोभन्ते स्म। तेषां पञ्चरत्नानां विषये महाराजस्य अपरिमितविश्वासः अभिमानः गौरवम् च आसन्। अतः सः एकं विशेषनियमम् एव परिकल्पितवान्। यः कोऽपि वा नूतनकविः राजदर्शनतः पूर्वं पञ्चरत्नकवीनां दर्शनं प्राप्य तेषां मनांसि तर्पयित्वा तदनन्तरम् एव राज्ञः दर्शनार्थम् आगच्छेत् इति।

एकदा सायङ्काले ललितसेनः सचिवेन सह राजोद्याने विहरन् राजकार्यसम्बन्धिवार्तालापे मग्नः आसीत्। तदा पञ्चरत्ननां अनुमतिं प्राप्य द्वौ कवी राजदर्शनार्थां तत्र आगतवन्तौ। अनन्तरं महाराजस्य आज्ञानुसारेण तौ महाराजस्य तस्य शासनक्रमस्य च श्लाघनपराम् एकैकाम् आशुकवितां विरचय्य गीतवन्तौ। स्वरचितानि अन्यानि अपि पद्यानि महाराजस्य पुरतः पठित्वा प्रदर्शितवन्तौ।

ललितसेनः असहनां प्रकटयन् तत् कविद्वयं दृष्ट्वा एकैकस्मै पञ्चशत् दीनारान् दत्त्वा प्रेषयतु इति पार्श्वस्थितं सेवकम् आदिष्टवान्। तेषां गमनानन्तरं ललितसेनः सचिवम् एतस्य कविद्वयस्य कवितानां श्रवणानन्तरं कवित्वशक्तेः कीदृशः ह्रासः जातः अस्ति इति ज्ञातुं शक्यते। किन्तु वराकौ रिक्तहस्तौ न प्रेषणीयौ इति चिन्तितम् इति उक्तवान्। महाराजस्य वचनानि श्रुत्वा मन्त्री मुकुन्दवर्मा किमपि अनुक्त्वा तूष्णीं स्थितवान्।

किञ्चित्कालानन्तरं पुनः ललितसेनः किञ्चित् लेखनीग्रहणसामर्थ्यम् अस्ति चेत् तेनैव आत्मानं महाकविं मन्यमानाः एते यथेच्छं लेखितुम् आरभन्ते। अस्माकम् आस्थानम् अलङ्कर्तुं योग्यान् प्रतिभाशालिनः एव प्रेषयन्तु इति पञ्चकविरत्नानि अहं सूचितवान् आसम् इति खेदभावेन उक्तवान्। सत्यम् एतं विषयम् अस्माकं राज्ये सर्वे जानन्ति महाराज तथापि ते पञ्चकवयः एतादृशजनान् कुतः भवतः समीपं प्रेषयन्ति इति ते एव न जानीयुः इति मन्दस्वरेण मन्त्री उक्तवान्।

सचिवस्य वचने किमपि गूढरहस्यम् अस्ति इति ललितसेनः तर्कितवान्। तस्य एतदेव कारण्ं यत् एतादृशजनैः राजसम्माननं न लभ्यते तर्हि तस्य कारणीभूताः एते पञ्चकवयः एव इति अपवादः भवेत्। अतः ते एतान् प्रेषयन्ति इति मन्ये। यद्यपि एतत् अस्माकं पञ्चकविरत्नानां पक्षपातरहितगुणस्य निर्दशनं स्यात् तथापि मम तु एतेन महान् क्रोधः इति उक्तवन् ललितसेनः। मन्त्री मुकुन्दवर्मा मन्दं हसन् अस्माकं प्लवङ्गराज्ये प्रतिभावतां कवीनाम् अभावः नास्ति। किन्तु ते सर्वे भवतः दर्शनं प्राप्तुं नैव शक्नुवन्ति इति उक्तवान्।

ललितसेनः तीक्ष्णदृष्ट्या सचिवं पश्यन् पञ्चकविरत्नानां विषये भवतः अविश्वासाः अस्ति इति प्रतिभाति। महाकवीन् मम दर्शनतः ते बारयन्ति इति भवतः अभिप्रायः वा इति उक्तवान्। मुकुन्दवर्मा तूष्णीं स्थितवान्। कतिपयदिनानन्तरं विशाखः नाम कविः महाराजस्य दर्शनार्थम् आगतवान्। सः स्वीयकाव्यस्य कांश्चन अंशान् महाराजस्य पुरतः पठित्वा प्रदर्शितवान्।

ललितसेनराजः विशाखकवेः प्रतिभां दृष्ट्वा मुग्धः जातः। बहु समीचीनम् अस्ति। कविता नाम एषा एव। नूनं भवान् महाकवीनां पङ्क्तौ स्थातुम् अर्हः। किन्तु एतावत्दीर्घकालानन्तरं भवतः परिचयः जातः इति एतत् मम दौर्भाग्यम् एव इति उक्तवा पार्श्वस्थितं सचिवं पश्यतु भोः अस्माकं पञ्चकविरत्नानि कवीन् राजदर्शनतः निवारयन्ति इति भवतः संशयः आसीत् किल? यदि सः यथार्थः अस्ति तर्हि विशाकसदृशः महाकविः मम दर्शनार्थं कथम् आगच्छति स्म इति पृष्टावान्।

मन्त्री विशाखं दृष्टवान्। तदा विशाखः महाराजं दृष्ट्वा महाप्रभो अहं प्रतिभावान् कविः इति पञ्चकवयः न जानन्ति। अस्मिन् विषये साहाय्यं कृतवन्तं सचिवं प्रति अहं कृतज्ञः अस्मि। किन्तु अहं पञ्चकवीनाम् अनुमतिम् अप्राप्य भवतः नियमम् उल्लङ्घ्य भवतः दर्शनार्थम् आगतवान् इत्यपि न इति उक्तवान्।

ललितसेनराजाः आश्चर्येण सचिवस्य मुखं दृष्टवान्। तदा सचिवः विनयेन प्राभो कवीनां प्रतिभायाः परीक्षकः सम्मानकर्ता च भवान् एव। एवम् हि सति ततः पूर्वं पञ्चकवीनां पुरतः प्रज्ञाप्रदर्शनस्य का आवश्यकता? एषा शङ्का अस्माकं राज्ये कस्य अपि महाकवेः मनसि न उत्पन्ना इति प्रतिभाति। ते प्रथमं पञ्चकवीनां दर्शनं कुर्वन्ति। पञ्चकवयः तु स्वापेक्षया अपि उत्तमतमाः इति यदा मन्यन्ते तदा तान् राजदर्शतः वारयन्ति। एतां वस्तुस्थितिम् अहं जानामि। तथापि एतत् वक्तुं कालं निरीक्षमाणः आसम् इति उक्तवान्।

कथं कथम्! एवं भवति वा इति ललितसेनराजः आश्चर्येण पृष्टावान्। मन्त्री विशाखं निर्दिश्य एषः महाकविः इति भवान् परीक्षितवान् किल? अस्य विषयं वदामि। कृपया शृणोतु। एतस्य गुरुः विकीर्णनामकः पण्डितः। किञ्चित्कालपूर्वं सः एतं मम समीपम् आनीय एषः महाराजस्य आस्थानम् अलङ्कर्तुम् अर्हः महाकविः। पञ्चकविरत्नानां सम्पर्कं विना एतस्य राजदर्शनं कारयतु इति प्रार्थितवान्। किन्तु नियमम् उल्लङ्घयितुं न शक्यते इति अहम् उक्तवान्। एवम् तर्हि एषः विशाखः पञ्चकवीनां अनुमतिम् आप्राप्य एव अत्र आगतवान् खलु इति कुतूहलेन पृष्टवान् महाराजः।

तत्क्षणमेव विशाखः न हि प्रभो अहं पञ्चकवीनाम् अनुमतिं प्राप्य एव अत्र आगतवान्। किन्तु तेषां पुरतः मम कविताशक्तेः पूर्णतया प्रदर्शनं न कृतवान् तावदेव। अभ्याससमये मया रचितं साधारणं कविताद्वयं तेषां पुरतः पठितवान्। पूर्णतया प्रज्ञाप्रदर्शनं करोमि चित् भवतः दर्शनभाग्यं न लभ्यते इति अन्येषां कवीनाम् अनुभवं दृष्ट्वा अहं ज्ञातवान्। अतः एव अहं सामान्यकविः इव अभिनयं कृतवान्। तदा शीघ्रमेव भवतः दर्शनार्थम् अनुमतिं लब्धवान् इति विनयेन उक्तवान्।

महाराजः महता क्रोधेन अस्माकं पञ्चकविरत्नेषु प्रतिभा नास्ति इति न अहं वदामि। किन्तु तेषां हृदयेषु एतादृशं मात्सर्यं दृष्ट्वा महान्तं खेदम् अनुभवामि। अस्माकं राज्ये स्वापेक्षया उत्तमतमः कविः एव नास्ति इति मां वञ्चयितुं ते इच्छन्ति इति सिद्धम् अभवत्। कीदृशी क्षुद्रता इति उक्तवान्। सत्यं प्रभो! भवतः अभिप्रायः यथार्थः एव अस्ति। पूर्वम् एकवारम् सर्वथा कविताशक्तिहीनं कविद्वयं ते राजोद्यानं प्रेषितवन्तः आसन्। भवान् स्मरति वा इति पृष्टवान् मन्त्री मुकुन्दवर्मा।

ललितसेनः पञ्चकविरत्नानां यथार्थस्वरूपं ज्ञातवान्। सः विशाखम् आस्थानकविं कृतवान्। अनन्तरं पूर्वनियमं परित्यज्य सर्वे अपि स्वस्य दर्शनार्थम् आगन्तुम् अर्हन्ति इति उद्घोषणं कारिततवान्। कालान्तरे उत्तमकविपोषकत्वेन कीर्तिं प्राप्तवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.