Sanskrit Learners Club

Where we Learn from Each Other

Passion of Acting

Source - Sanskrit Chandamama |

| August |

| 1984

Govinda came to city from village to act in drama. He was passionate from childhood about acting and did not study well. Luckily he got an opportunity to act in a drama in a drama troop. As he was practicing the drama dialogue, an old neighbor took it to be real, advised him to go back to his village by giving some money and to look after his sick mother. But Govinda planned to make use of the innocence of the old wealthy person and to make money out of the situations. What happened next and how Govinda changed his mind is the story.

नाटकव्यसनम्

एकः ग्रामः। तत्र गोविन्दनामकः युवकः वसति स्म। बाल्यतः एव गोविन्दस्य नाटकव्यसनम्। सः शालां न गतवान् एव। अत्र तत्र नाटकं यक्षगानम् इत्यादिकं पश्यन् दिनानि यापयति स्म। यदा गोविन्दः युवकः अभवत् तदा सः ग्रामं त्यक्त्वा नगरम् आगतवान्। नगरे एकां नाटकमण्डलीं गत्वा तत्र अभिनयस्य अवकाशम् अपि प्राप्तवान्। तस्याः नाठकम्ण्डल्याः नाठकप्रदर्शानं दश दिनानन्तरं भविष्यति इति निश्चितम् आसीत्। तदर्थं पूर्वाभ्यासः प्रचलति स्म।

नाटकस्य कथा एवम् आसीत्। एकः युवकः स्वमात्रा सह कलहं कृत्वा गृहं परित्यज्य गच्छति। सा माता तम् एव स्मरन्ती व्याधिपीडिता भवति। तदा तस्याः सहोदरः तं युवकम् अन्विष्यन् आगच्छति। तम् गृहं आगन्तुं प्रार्थयते। परन्तु युवकः न अङ्गीकरोति। अन्ते सा माता एव पुत्रं द्रष्टुम् आगच्छति। तदा तस्याः प्रीतिं ज्ञात्वा पुत्रः तया सह गृहां गच्छति। एतस्मिन् नाटके पुत्रस्य पात्रं गोविन्देन करणीयम् आसीत्।

नाटकमण्डल्याः यजमानः राजरामः युवकस्य मातुलस्य पात्रम् अभिनयति स्म। सः गोविन्दस्य वसतिम् आगत्य तत्रैव अभ्यासं कारयति स्म। समयाभावात् सः बहु विलम्बेन अभ्यासार्थम् आगच्छति स्म। गोविन्दस्य गृहस्य पृष्ठतः किञ्चित् स्थलम् आसीत्। तदनन्तरं एकः बृहत् प्राकारः। प्राकारस्य अपरस्मिन् पार्श्वे कस्यचित् धनिकस्य भवनम्। स च प्राकारः बहु जीर्णः। तत्र मध्ये रन्ध्राणि च आसन्।

तस्मिन् दिने नाटकस्य पूर्वाभ्यासः आरब्धः। राजारामः स्वकीयपात्रस्य सम्भाषणम् आरब्धवान् – किं भोः! एवम् आग्रहः न करणीयः। भवतः माता भवतः चिन्तया एव व्याधिपीडिता अस्ति। आगच्छतु गृहं गच्छामः इति। न भोः! मातुल! अहं नैव आगच्छामि। माता माम् उक्तवती भवतः मुखं न प्रदर्शयतु इति। अहं तु तां न पश्यामि इति उक्तवान् गोविन्दः। तदा न वक्तव्यम् भोः! सा तदा भवन्तं तथा तर्जितवती स्यात्। परन्तु इदानीम् सा पश्चात्तापम् अनुभवन्ती अस्ति। भवान् न अगच्छति चेत् सा न जीवेत् इति पुनः राजारामः उक्तवान्।

एवंक्रमेण नाटकस्य सम्भाषणाभ्यासम् कारयित्वा राजारामः सम्भाषणं कण्ठस्थी करोतु इति उक्त्वा गतवान्। गोविन्दः तथैव किञ्चित्कालपर्यन्तम् अभ्यासं कृत्वा अनन्तरं गृहं प्रवेष्टुं सिद्धः। तदा प्राकारस्य रन्ध्रतः हस्ततालशब्दः श्रुतः। गोविन्दः भयेन तत्रैव पश्यन् स्थितवान्। भो! अत्र पश्यतु। भवन्तम् एव आहूवयामि। समीपम् आगच्छतु। कोऽपि पिशाचः आगतः इति चिन्तितवान् वा? अहं मनुष्यः एव इति कण्ठध्वनिः श्रुतः।

इदानीं गोविन्दस्य किञ्चित् धैर्यम् आगतम्। सः रन्ध्रस्य समीपं गत्वा दृष्टवान्। प्राकारस्य तस्मिन् पार्श्वे वृद्धस्य श्मश्रूपूर्णं मुखं दृष्टम्। तत् मुखं गम्भीरम् आसीत्। वृद्धः गम्भीरस्वरेण उक्तवान् भोः कीदृशः युवकः भवान्? भवतः माता मृत्युदशायाम् अस्ति इति मातुलः उक्तवान्। तथाऽपि भवान् किमर्थं न गच्छति? एवं न करणीयम्। सा भवतः जन्मदात्री किल? अतः प्रथमं गत्वा तां पश्यतु इति।

एषः वृद्धः नाटकस्य सम्भाषणं यथार्थम् इति चिन्तितवान् अस्ति इति गोविन्दः ज्ञातवान्। तथाऽपि सः उक्तवान् यत्किमपि भवतु अहं गृहं न गच्छामि। भोः तात! मम गृहस्य परिस्तितिं भवान् किं जानाति? यथाकथमपि अहं गृहं न गच्छामि। अहं न गच्छामि चेत् भवतः का हानिः इति।

वृद्धः किञ्चित्कालं चिन्तयित्वा उक्तवान् भोः! अहम् अपि बाल्ये एवम् एव कृतवान्। गृहं त्यक्त्वा दूरं गतावान्। मम माता मां सर्वदा स्मरति स्म। अन्ते यदा अहं गृहं प्राप्तवान् तदा सा मृता आसीत्। पश्स्यतु मम भवनं धनं सर्वम् आस्ति। तथाऽपि किं प्रयोजनम्? अहं मातुः प्रीत्या वञ्चितः किल इति।

एवं सम्भाषमाणः एषः वृद्धः महान् धनिकः एव। यथाकथञ्चित् एषः वञ्चनीयः। तद्द्वारा यथेष्ठं धनं सम्पादनीयम् इति गोविन्दः चिन्तितवान्। तदा तस्य मनसि एकः उपायः अपि स्फुरितः। अतीवचिन्तामग्नः इव सः उक्तवान् अहं किं करोमि? गृहे वयम् अतीव दरिद्राः। अतः धनार्जनं करणीयम् इत्येव अहं नगरम् आगतावान्। मम ग्रामः बहु दूरे अस्ति। गन्तुं महान् व्ययः अपि भवति। रिक्तहस्तेन गच्छामि चेत् मातुः कष्टम् अधिकम् एव भवति इति।

एवं वा? भवत्ः मातुलस्य समीपे धनम् अस्ति वा नास्ति वा इति अहं न जानामि। अतः किञ्चित् तिष्ठतु। मातुः येन सन्तोषः स्यात् तावत् धनम् आनीय ददामि इति उक्त्वा सः वृद्धः स्वगृहं गतवान्। पञ्चदशनिमेषाः अतीताः। गोविन्दः चिन्तयन् आसीत् यत् सः वृद्धः मनुष्यः वा पिशाचः वा इति। तदा वृद्धः पुनः तत्र आगतवान्। तस्य हस्ते एकः धनस्यूतः आसीत्। सः तं स्यूतं दत्वा उक्तवान् भोः! एतत् स्वीकरोतु। विलम्बं न करोतु। श्वः एव गच्छतु इति।

गोविन्दः तम् स्यूतां स्वीकृत्व गृहम् आगतवान्। स्यूतम् उद्घाट्य दीपस्य प्रकाशे पश्यति! तत्र दशसुवर्णनाण्यकानि सन्ति! सः अत्यानन्देन तानि पुनः स्यूते स्थापयित्वा स्यूतम् स्वपेटिकायां वस्त्राणाम् अधः स्थापितवान्। परेद्युः समीपस्थजनानां मुखतः गोविन्दः ज्ञातवान् यत् सः वृद्धः धनिकः उदारी परोपकारी च अस्ति। अन्येषां कष्टं सः द्रष्टुं न शक्नोति। अतः यथेष्टं दानधर्मादिकं करोति इति।

एतत् ज्ञात्वा गोविन्दस्य मनसि दुराशा उत्पन्ना। धनिकस्य हस्ततः इतोऽपि धनं प्राप्तव्यम् इति सः निश्चयं कृतवान्। तस्मिन् दिने अपि राजारामाः आगतवान्। द्वौ अपि गृहस्य पृष्टतः गत्वा अभ्यासस्य आरम्भं कृतवन्तौ। राजारामः नाटकस्य वाक्यम् उक्तवान् भोः! भवतः मातुः परिस्थितिः बहु गम्भीरा अस्ति। सा भवतः मार्गम् एव प्रतीक्षमाणा अस्ति। भवान् अद्य वा गृहम् आगच्छतु। शीघ्रं गच्छावः। भवतः दर्शनेन सा तत्क्षणे एव स्वस्था भविष्यति इति। मातुल! मया तु निश्चयः कृतः अस्ति गृहं न आगच्छामि इति। अहं तु एतद्विषये दृढः एव। भवान् व्यर्थं प्रयत्नं न करोतु गच्छतु इति गोविन्दः उक्तवान्।

तथा न करणीयम्। भवता आगन्तव्यम् एव। अद्य न शक्यते चेत् मास्तु। अहं दिनत्रयानन्तरम् आगमिष्यामि। सिद्धः भवतु। इदानीं तु भवान् अस्वस्थः अस्ति इति भवतः मातरं सूचयामि इति उक्त्वा राजारामः प्रस्थितवान्। अद्यतनसम्भाषणम् अपि धनिकः निश्चयेन श्रुतवान् स्यात् इति गोविन्दः चिन्तयित्वा तस्य प्रतीक्षायाम् एव स्थितवान्। तदा रन्ध्रस्य अन्यपार्श्वतः धनिकः पृष्टवान् भोः! गृहं गच्छतु इति मया धनं दत्तं किल? भवान् अद्यापि किमर्थं न गतवान्? वृथा किमर्थं सर्वान् पीडायति इति।

गोविन्दः सविनयम् उक्तवान् ह्यः अहम् एकं विषयं वक्तुं विस्मृतावान्। ग्रामे मया पूर्वं बहु ऋणं कृतम् अस्ति। इदानीं ग्रामं गच्छामि चेत् तत् सर्वं प्रत्यर्पणीयं भवति। कथं प्रत्यर्पयामि? मम समीपे तु तावत् धनं नास्ति इति। तत् तु सत्यम् एव। एषः विषयः ह्यः एव वक्तव्यः आसीत्। अस्तु किञ्चित् तिष्ठतु आगच्छामि इति उक्त्वा धनिकः गृहं गत्वा पुनः स्यूतम् एकम् आनीतवान्। स्यूतं दत्वा सः उक्तवान् एतत् स्वीकृत्य ग्रामं गच्छतु। ऋणं प्रत्यर्पयतु इति। गोविन्दः गृहं आगत्य पश्यति स्यूते विंशतिसुवर्णनाण्यकानि सन्ति। सः तानि अपि पेटिकायां स्थापितवान्।

आहत्य इदानीं त्रिंशत् नाण्यकानि लब्धानि। तानि दृष्ट्वा तस्य मनसि पुनः दुराशा उत्पन्ना। धनिकं वञ्चयित्वा इतोऽपि नाण्यकानि सम्पादयामि इति सः निश्चयं कृतवान्। सायंकाले तत्र आगतः राजारामः उक्तवान् भोः! गोविन्द! इदानीं नाटकं किञ्चित् परिवर्तितम् अस्ति। तत्र माता मृता भवति। पुत्रस्य पश्चात्तापः भवति। एवं परिवर्तनं कृतम् अस्ति। तदनुगुणं सम्भाषणं पाठयामि इति। अनन्तरं तौ गृहस्य पृष्ठभागम् आगतवन्तौ। किं वदामि भोः! सर्वम् अपि समाप्तम्! भवतः माता अतीव ज्वरपीडिता आसीत्। तथापि सा भवतः दर्शनार्थम् इति प्रस्थिता। मार्गमध्ये एव दिवङ्गता। तदा अपि सा भवन्तम् एव स्मरति स्म। येन भवता मातुः सेवार्थम् आगन्तव्यम् आसीत् तेन उत्तरक्रिया करणीया आपतिता इति।

अनन्तरम् गोविन्देन वाक्यानि वक्तव्यानि आसन्। परन्तु तत्पूर्वम् एव प्राकारस्य रन्ध्रस्य अपरपार्श्वतः गम्भीरकण्ठध्वनिः श्रुतः। भोः वराक! एवम् एव भवेत् इति मया चिन्तितम् आसीत्! तिष्ठतु आगच्छामि इति। अहो! कः एवं वदति? कोऽपि पिशाचः वा इति राजारामः भीत्या उक्तवान्। भयेन सम्भ्रमेण च कम्पमानः गोविन्दः गृहं प्रविष्टवान्। वृद्धः धनिकः अपि तम् अनुसृत्य अन्तः आगतवान्। तेन सह दण्डधारी मल्लद्वयम् अपि आगतम्।

धनिकः कोपेन गोविन्दम् उक्तवान् वराक! ग्रामं गत्वा आस्वस्थां मातरं पश्यतु इति मया त्रिंशत्सुवर्णनाण्यकानि दत्तानि। परन्तु भवान् न गतवान् एव। मातुः मरणे भवान् एव कारणम्। दुष्ट! भवतः मुखदर्शनम् अपि पापाय भवति। भवादृशाः अस्मिन् लोके न भवेयुः। अतः यत्र माता अस्ति तत्रैव गच्छतु भवान् अपि इति उक्त्वा धनिकः स्वसेवकौ संज्ञया किमपि सूचितवान्।

सेवकौ गोविन्दस्य सर्वाणि वस्तूनि बहिः निष्कास्य अन्विष्टवन्तौ। तस्य पेटिकायां त्रिंशत्नाण्यकैः पूर्णः स्यूतः अपि लब्धः। धनिकः गोविन्दं तर्जयन् रे मातृद्रोहिन्! दयया भवन्तम् एवम् एव त्यजामि इति उक्त्वा धनस्यूतं स्वीकृत्य ततः निर्गतः। सेवकौ अपि तम् अनुसृतवन्तौ। अत्र किं सम्वृत्तम् इति राजरामः इदनीं ज्ञातवान्। कुपितः सः उक्तवान् सः सरलहृदयी धनिकः भवतः नाटकसम्भाषणं श्रुत्वा सत्यम् इत्येव चिन्तितवान्। धनम् अपि दत्तवान् किल। परन्तु भवान् मां न उक्तवान् एव। कीदृशः स्वार्थी भवान्। दुराशस्य भवतः अस्माकं नाटके अभिनेतुम् अवकाशः नास्ति। भवान् इदानीम् एव इतः गच्छतु इति।

गोविन्दस्य अतीव पश्चात्तापः अभवत्। अहं मम मातरम् एतं दयालुधनिकं च वञ्चयित्वा महापराधं कृतवान्। मम वाणिज्यार्थम् धनस्य आवश्यकता भवति इति कृत्वा माता स्वकीयकङ्कणम् एव दत्तवती। अहं तु तत् स्वीकृत्य नगरम् आगत्य नाटकव्यसनेन कालं यापयन् अस्मि। अस्तु अहम् इदानीं गृहं गच्छामि। तेन मातुः आनन्दः भविष्यति। अनन्तरं तस्याः आदेशानुसारम् एव जीवननिर्वहणं करोमि इति निश्चितवान्। अनन्तरदिने एव गोविन्दः स्वग्रामं गतवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.