Sanskrit Learners Club

Where we Learn from Each Other

Shambunath’s Story

Source - Sanskrit Chandamama |

| November |

| 1984

Shambunath is an old man and fond of telling stories. He forcefully makes his grandson Shivarama, to listen to stories. But Shivarama is a young boy and is more interested in playing than listening stories. One day Shivarama brought his friend to his home and introduced to his grandfather. What happened next and how Shambunath stopped telling stories is the story.

शम्भुनाथस्य कथा

कथाकथने शम्भुनाथस्य महान् उत्साहः। आगच्छतु कथां शृणोतु इति सः पौत्रं सदा पीडयति स्म। पौत्रस्य शिवरामस्य तु क्रीडायाम् अभिरुचिः। अतः शम्भुनाथः शिवरामं तर्जयति स्म सर्वदा किम् एतत् क्रीडनम् इति। तथापि शिवरामः कथञ्चित् गृहात् निर्गत्य सायम् एव गृहं प्रत्यागच्छति स्म। कदाचित् शम्भुनाथः पौत्रम् अनुरोधपूर्वकं उपवेशयति स्म कथां कथयति स्म च। तथापि एषः यदा कथाकथनव्यग्रः भवति तदा एव शिवरामः उत्थाय पलायते स्म।

कथासु रुचिम् उत्पादयितुं शम्भुनाथः बहुधा प्रयत्नं करोति स्म। स्वसमीपे मिष्टाभक्ष्याणि लड्डुकानि इत्यादीनि स्थापयति स्म। तथापि कथानामश्रवणेन एव शिवरामः धावति स्म। शिवरामः किमर्थं कथाः श्रोतुं न इच्छति? अत्र किं कारणम् स्यात् इति शम्भुनाथः बहुधा चिन्तितवान्। अतः सः स्वपत्नीं पुत्रं स्नुषां च आहूय पृष्टवान् मम कथायाः श्रवणे भवन्तः नीरसताम् अनुभवन्तः सन्ति वा इति।

ज्येष्ठानां तु कथाश्रवणे न तथा आसक्तिः भवति किल! तथापि ते शम्भुनाथम् अप्रसन्नं कर्तुम् अनिच्छन्तः वदन्ति स्म भवतः कथाः बहु रोचकाः भवन्ति। कथां श्रोतुम् अस्माकम् अपि महती इच्छा। किन्तु दुष्टः शिवरामः किमर्थं कथाः श्रोतुं न इच्छति इति न जानीमः वयम्। तदा शम्भुनाथः अनुरोधपूर्वकम् उक्तवान् तर्हि भवन्तः एव कथां शृण्वन्तु। भवतां कार्येषु विघ्नः यथा न भवेत् तथा अहं कथां श्रावयामि इति। एतदनन्तरं सः वर्तिकानिर्माणसमये पत्नीं कथां श्रावयति। यदा स्नुषा पाककार्यं करोति तदा तत्र गत्वा सः कथां वदति। यदा पुत्रः वाटिकायां जलसेचनं करोति तदा तत्र गत्वा कथां वदति।

वस्तुतः ज्येष्ठाः अपि शम्भुनाथस्य कथां श्रोतुम् न इच्छन्ति स्म। अतः अस्याः आपदः मोक्षं प्राप्तुं ते शिवरामं कथञ्चित् आनीय शम्भुनाथस्य वशे स्थापयन्ति। तदा शम्भुनाथः शिवरामम् उद्दिश्य कथां कथयितुम् आरम्भं करोति। एवम् एव बहूनि दिनानि अतीतानि। अन्ते शिवरामः शम्भुनाथः च एकं सन्धिनियमम् अङ्गीकृतवन्तौ शिवरामेन प्रतिदिनं पितामहमुखतः एका कथा श्रोतव्या। अनन्तरं शम्भुनाथेन शिवरामस्य क्रीडनार्म् अवकाशः दातव्यः इति।

शम्भुनाथः यद्यपि एतं नियमम् अङ्गीकृतवान् तथापि सः स्वबुद्धिमत्तया शिवरामं वञ्चयति स्म। कदाचित् सः तादृशीं दीर्घकथां श्रावयति यस्याः अन्तः एव न भवति। तदा शिवरामस्य नेत्रयोः अश्रूणि आगच्छन्ति स्म। कदाचित् शम्भुनाथः पञ्चषाः कथाः मेलयित्वा दीर्घरूपेण कथां विरचयति। एवं शिवरामः क्रीडनार्थम् अवकाशम् एव न प्राप्नोति स्म। समाप्तिपर्यन्तं कथां शृणोमि इति पूर्वं तेन एव अङ्गीकृतम् आसीत् किल? तेषु एव दिनेषु तं ग्रामम् एकः बालकः इदम्प्रथमतया आगतवान्। तस्य बालकस्य शिवरामस्य च मध्ये मैत्री समुत्पन्ना।

एकादा नवीनः बालकः शिवरामं पृष्टवान् किमर्थं भवान् प्रतिदिनं विलम्बेन आगाच्छति? यदि पूर्वम् एव आगच्छति तर्हि अधिकं क्रीडितुं शक्यते किल इति। तदा शिवरामः पितामहस्य कथाकथनप्रसङ्गं समग्रं निवेदितवान्। बालकः उत्साहेन पृष्टवान् भवतः पितामहः कथां श्रावयति वा? मम तु कथाश्रवणे महती आसक्तिः इति। तर्हि भवान् मम पितामहस्य सकाशात् कथां शृणोतु। अहम् अन्येन केनचित् बालकेन सह क्रीडामि इति उक्तवान् शिवरामः।

युक्ता आलोचना एषा। मम गृहे कोऽपि मां कथां न श्रावयति। इदानीं कथां श्रोतुम् अवकाशः प्राप्तः इत्येतत् मम भाग्यम् इति उक्तवान् सः बालकः। अनन्तरदिने शिवरामः नवीनं बालकं पितामहसमीपं नीत्वा उक्तवान् तात! एषः मम स्नेहितः। कथाः श्रोतुम् एतस्य महान् उत्साहः। शम्भुनाथः बहु सन्तुष्टः। सः शिवरामाय क्रीडितुम् अनुमतिं दत्त्वा नवीनं बालकम् उपवेश्य कथां वक्तुम् आरब्धवान्।

तस्यां कथायां नायकः राजकुमारः। नायिका राजकुमारी। कश्चित् मान्त्रिकः राजकुमारीम् अपहरति। राजकुमारीम् आनेतुम् इच्छन् राजकुमारः बहुकालपर्यन्तं तपः आचरति। अद्भुतविद्यां सम्पादयति। अन्ते मान्त्रिकं मारयित्वा राजकुमारीं बन्धनात् मोचयति। तयोः विवाहः भवति। एतां कथां श्रुत्वा बालकः शम्भुनाथं पृष्टवान् एतदनन्तरं अन्यदेशेषु कश्चित् मान्त्रिकः राजकुमारीं न अपहृतवान् वा? अपहरतु नाम तेन अस्माकां का हानिः इति हसन् पृष्टवान् शम्भुनाथः। बालकः उक्तवान् अहम् एतदर्थं पृष्टवान् यत् अस्माकां राजकुमारः सज्जनः परोपकरी च। यदि अन्यः कष्टे अस्ति तर्हि एषः अवश्यं तत्र गत्वा साहाय्यं करिष्यति। एवं कुत्रापि सः गतवान् वा इति।

एतं प्रश्नं श्रुत्वा शम्भुनाथः सन्तुष्टः। भवान् योग्यं प्रश्नं पृष्टवान् इति वदन् सः अन्यां कथाम् आरब्धवान्। तेषु दिनेषु मिथिलाराज्ये एकः दुष्टाः मान्त्रिकः आसीत्। सः शतं राजकुमारान् एकोत्तरशतं राजकुमारीः च देव्यै बलिरूपेण दातुं निश्चितवान् इत्येवं कथायाः आरम्भं कृत्वा एतं मान्त्रिकम् अपि पूर्वोक्तः राजकुमाराः एव मारितवान्। बहुकालानन्तरं सः गृहं प्रत्यागतवान् इति कथां समापितवान्।

तदा सः बालकः पुनः पृष्टवान् तात! तावद्दिनपर्यन्तं राजकुमारी तूष्णीम् एव स्थितवती वा? प्रायः सा राज्यभारं मन्त्रिणां हस्ते दत्त्वा पत्युः अन्वेषणार्थं गतवती स्यात् किल इति। आम् आम् इति वदन् शम्भुनाथः पुनः कथां वक्तुम् आरब्धवान्। कथायाः अन्ते बालकस्य मनसि काऽपि समस्या उद्भवति एव। तत्समाधानार्थं वृद्धः पुनः कथां कथयति। एवं समाप्तिरेव न भवति! एवं कथाम् उक्त्वा उक्त्व्बा शम्भुनाथः श्रान्तः। अतः सः उक्तवान् अवशिष्टाः कथाः श्वः कथयिष्यामि इति।

तदा बालकः उक्तवान् श्वः पर्यन्तं मया प्रतीक्षा करणीया वा? तत् न शक्यते तात! इदानीम् एव कथयतु इति। शम्भुनाथः दीर्घं निश्वसन् उक्तवान् बालक! अन्तः गत्वा जलम् आनयतु। प्रथमम् अहं मम पिपासां निवारयामि। पुनः कथां कथयामि इति। बालकः जलम् आनेतुं गृहस्य अन्तः गतवान्। एषः एव युक्तः समयः इति चिन्तयन् वृद्धः गृहतः निर्गतवान् धावितुम् आरब्धवान् च। कश्चित् मार्गे धावनकारणं पृच्छति चेत् वृद्धः वदति स्म अहं मम पौत्रम् अन्विष्यन् अस्मि इति।

शिवरामः एतं विषयं ज्ञातवान्। पितामहः मिलितः चेत् कष्टम् इति चिन्तयन् शिवरामः अपि धावितवान्। अन्ते कश्चित् शिवरामं गृहीत्वा शम्भुनाथस्य वशे समर्पितवान्। दीर्घं निश्वसन् शम्भुनाथः उक्तवान् पुत्र शिवराम! भीतिः मास्तु। अहम् इदानीं भवन्तं कथां न श्रावयामि। अद्य भवान् यं बालकं गृहम् आनीतवान् सः इतःपरम् अस्माकं गृहं यथा न आगच्छेत् तथा करोतु। एवं चेत् पुनः कदापि कथां श्रावयितुं भवन्तं न आह्वयामि इति।

एतेन शिवरामः सन्तुष्टः। सः पितामहस्य वचनम् अङ्गीकृतवान्। एतदनन्तरं शम्भुनाथः कमपि उद्दिश्य कथां न उक्तवान्!

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.