कदाचित् बस्राराज्यस्य राजधान्यां महत् चौर्यं प्रवृत्तम्। अत्यमूल्यानि वज्रवैढूर्याणि चोरितानि। तेन एव सह महाराजस्य प्रियतरं रत्नाखचितं खड्गम् अपि चोरितम्। एषा वार्ता अल्पे एव काले समग्रे नगरे व्याप्ता। सर्वेषां मुखे अपि एषा एव वार्ता।
राजा तु एताद्विषये बहु कुपितः। सः कोपेन गर्जितवान् राजधान्यां चौर्यं प्रवृत्तम् इत्यस्य अर्थः अधिकारिणः अजागरूकाः राजा च अप्रयोजकः इति। चोरः राजधानीम् एव प्रविश्य विना कष्टं चौर्यं करोति चेत् राज्ये का वा परिस्थितिः स्यात्? सर्वान् रक्षकाधिकारिणः आहूय सः कठोरस्वरेण तर्जितवान् अद्य रात्रितः पूर्वं चोराः चोरितवस्तुभिः सह आनेतव्याः। नो चेत् भवतां सर्वेषां मरणदण्डनं भविष्यति। चोरम् अन्विष्यतु इति उक्ते भवन्तः किं कुर्वन्ति इति अहं जानामि। श्रमं सोढुम् असमर्थाः भवन्तः कञ्चित् भिक्षुकम् दरिद्रं वा गृहीत्वा आनयन्ति। भवता ताडनेन भीतः सः चौर्यम् अङ्गीकरोति। एतत् न भवेत्। अतः अहं वदन् अस्मि यत् चोरितवस्तुभिः सह चोरः अत्र आनेतव्यः इति। गच्छन्तु इदानीम्। यथाकथञ्चित् चोरम् अन्विष्य आनयन्तु इति।
महाराजस्य आज्ञां श्रुत्वा सर्वे अधिकारिणः भीताः। कस्य वा प्राणाः न प्रियतमाः? अतः सर्वे निश्चितवन्तः येन केनापि उपायेन चोरः ग्रहीतव्यः एव इति। रक्षणप्रमुखः सर्वान् सहाधिकारिणः आहूय विविधसूचनाः दत्त्वा प्रेषितवान्। सर्वे वेषान्तरं धृत्वा नगरस्य भिन्नभिन्नभागेषु अन्वेषणम् आरब्धवन्तः। सायङ्काले नगरस्य दक्षिणदिशायां प्रधानोद्यानस्य द्वारस्य समीपे सर्वैः मेलितव्यम् इति सूचना आसीत्।
रहमतनामकः कश्चित् अधिकारी भिक्षुकवेषं धृतवान्। नगरस्य उत्तरपार्श्वे मध्याह्नपर्यन्तं सञ्चारं कृतवान्। दीर्घसञ्चारेण सः अतीव श्रान्तः आसीत्। तीव्रतरा पिपासा तं बाधते स्म। तत्र एकम् उद्यानम् आसीत्। मध्ये लघुसरोवरः अपि आसीत्। रहमतः तत्र गत्वा जलं पातुम् आरब्धवान्। जलपानम् अर्धं यदा समाप्तम् तदा उद्यानपालकः आगत्य तस्य गलं गृहीतवान्। द्वित्रवारं मुष्टिप्रहारं कृत्वा सः उक्तवान् रे वराक! चोरः इव कथम् अत्र प्रविष्टः? कस्य अनुमतिः स्वीकृता? कुप्रसिद्धाः चोराः एषु दिनेषु भिक्षुकवेषं धृत्वा नगरे सञ्चरन्ति। भवान् अपि कश्चित् चोरः एव इति।
रहमतः यद्यपि उच्चः अधिकारी। किन्तु इदानीं सः वेषान्तरं धृत्वा आगतः अस्ति। यदि अधिकारदर्पः प्रदर्श्यते तर्हि रहस्यं प्रकटितं भविष्यति। अतः सः दैन्यं प्रकटयन् उद्यानपालकं प्रार्थितवान् अहं चोरः वा लुण्टाकः वा न। कश्चित् भिक्षुकः अस्मि अहम्। पिपासया मरणावस्थाम् आपन्नः अहम् अत्र आगत्य किञ्चित् जलं पीतवान्। महोदय! शान्तः भवतु। मां न ताडयतु इति। अहो! एवम् वा इति वदन् सः उद्यानरक्षकः पुनः अपि मुष्टिप्रहारान् अनुगृहितवान्। रक्षणाधिकारी प्रहारान् अपमानं च मौनं सोढवान्।
एतेन उत्साहितः उद्यानपालकः पुनः अपि अधिकं ताडितवान्। यदा ताडनं सोढुं न शक्तं तदा रहमतः किञ्चिदिव उच्चस्वरेण उक्तवान् मां किमर्थम् एवं ताडयति? मया कः अपराधः कृतः? जलपानम् अपि अपराधाय भवति वा? मां ताडयितुं भवतः कः अधिकारः? यदि मां चोरं चिन्तयति भवान् तर्हि रक्षकभटसमीपं नयतु। सत्यासत्यनिर्णयं कृत्वा ते एव उचितं दण्डयन्ति किल इति। एतेन वचनेन उद्यानपालकस्य कोपः अधिकः जातः। माम् एव न्यायनियमान् शिक्षयति वा इति वदन् सः ताडयन् एव रहमतम् उद्यानतः बहिः निष्कासितवान्।
अनन्तरं भिक्षुकवेषधारी सः रक्षणाधिकारी अन्यत्र अपि चोरस्य अन्वेषणं कृत्वा सायङ्काले पूर्वनिश्चितं स्थानं प्राप्तवान्। अन्ये अधिकारिणः अपि एकशः स्वस्थानं प्राप्तवन्तः। भिक्षुकवेषधारिणः परिस्थितिं दृष्ट्वा सर्वे अनुकम्पं प्रदर्शितवन्तः। रहमतः यदा समग्रं वृत्तान्तम् निवेदितवान् तदा सर्वे कोपाविष्टाः जाताः। ते सर्वे उद्यानपालकं दण्डयितुं निर्णयं कृतवन्तः। अतः झटिति उद्योगोचितं वेषं धृत्वा तत् उद्यानं प्रति प्रस्थितवन्तः।
उद्यानपालकः दसवर्षीयेण बालकेन सह किमपि रहस्यवार्तालापं कुर्वन् आसीत्। तदा एव तत्र आगताः सर्वे अधिकारिणः युगपत् एव तयोः उपरि आपतितवन्तः। अकस्मात् प्रवृत्तेन आक्रमणेन उद्यानपालकः चकितः भीतः च। किमर्थम् एवं क्रियते एतैः इति सः न ज्ञातवान्। दशवर्षीयः पुत्रः एतत् सर्वं पश्यन् आसीत्। स्वपितुः उपरि रक्षकाधिकारिणां युगपत् आक्रमणं दृष्ट्वा भीतः सः उच्चैः रुदन् उक्तवान् भोः भोः! मम पितरं न मारन्तु। तेन चौर्यं कृत्वा यानि वस्तूनि आनीय रहस्ये स्थापितानि तानि अहं प्रदर्शयामि इति।
बालकस्य एतत् वचनं श्रुत्वा अधिकारिणः आश्चर्यचकिताः। कुत्र सन्ति तानि वस्तूनि? शीघ्रं प्रदर्शयतु इति वदन् रक्षकाधिकारिणां प्रमुखः बालकम् अपि एकवारं ताडितवान्। रुदन् बालकः अधिकारिणः उद्यानस्य कोणे एकस्य गुल्मस्य समीपं नीतवान्। तत्र यदा खननं कृतं तदा सर्वाणि वस्तूनि लब्धानि। एतेन अधिकारिणः सर्वे सन्तुष्टाः।
रहमतः उद्यानरक्षकं तर्जयन् उक्तवान् यदि भवान् मध्याह्ने पिपासितं भिक्षुकं न मारयति तर्हि भवतः चौर्यम् अपि प्रकटितं न भवेत् एव। प्रायः केनापि पिशाचेन बाधितः भवान् राजधान्यां चौर्यं कृतवान्। सः एव पिशाचः भिक्षुकं ताडयितुं भवन्तं प्रेरितवान् इति। एतेन वचनेन उद्यानपालकः ज्ञातवान् मध्याह्ने एषः एव अधिकारी भिक्षुकरूपेण आगवान् आसीत् इति।
अधिकारिणः चोरितवस्तुभिः सह चोरं महाराजस्य पुरतः नीत्वा स्थापितवन्तः। महाराजः रहमतविषये सन्तुष्टः जातः। रहमतं उपायनादिभिः सत्कृत्य उच्चपदे नियोजितवान्।