कदाचित् कश्चित् भूस्वामी स्वसभासदान् उद्दिश्य एकं प्रश्नं पृष्टवान् सर्वेषाम् अनर्थानां मूलं किम् इति यः वदति तस्मै शतं रूप्यकाणि ददामि इति। कश्चित् अनर्थानां मूलं गर्वः इति उक्तवान्। अन्यः अनृतम् एव काराणम् इति उक्तवान्। अपरः अज्ञानम् एव कारनम् इति उक्तवान्। किन्तु केनापि उत्तरेण भूस्वामी तृप्तिं न प्राप्तवान्।
तदा रधुनाथनामकः एकः उत्थाय उक्तवान् अहम् उत्तरम् जानामि। किन्तु भवता उद्घोषितं पारितोषिकम् अल्पमूल्यकम्। अतः उत्तरकथने अहं सङ्कोचम् अनुभवामि। भूस्वामी अविलम्बेन उक्तवान् यदि उत्तरं समीचीनम् इति मम मनसि भाति तर्हि अहं द्विशतं रूप्यकाणि ददामि।
तदा रघुनाथः उक्तवान् प्रपञ्चे सर्वेषाम् अनर्थानां मूलं धनम् एव। धनकारणतः एव अन्यायः अत्याचारः मारणं युद्धम् इत्यादिकं सर्वं प्रचलति इति। अनन्तरं सः बहु कथाः उक्त्वा स्ववादं पुष्टीकृतवान्। भूस्वामी रघुनाथस्य समग्रं विवरणं श्रुत्वा उक्तवान् भवतः उत्तरेण अहं तृप्तः वा न वा इति तु अन्यः विषयः। किन्तु भवता स्ववादस्य पुष्ट्यर्थं याः कथाः उक्ताः ताभिः अहं सन्तुष्टः। भवान् तु समर्थः कथाकारः इति। अनन्तरं भूस्वामी तस्मै द्विशतं रूप्यकाणि पुरस्काररूपेण दत्तवान्।
तस्यां सभायां कुत्सितः नाम कश्चित् आसीत्। तस्य वास्तविकं नाम कोऽपि न जानाति। तदीयं व्यवहारं दृष्ट्वा सर्वे कुत्सितनाम्ना व्यवहरन्ति स्म। एषः कुत्सितः सभायाम् अकस्मात् उत्थाय उक्तवान् रघुनाथः सर्वान् वञ्चयन् अस्ति। सः सर्वेषाम् अनर्थानां मूलं धनम् एव इति वदन् किमर्थं वा पुरस्काररूपेण पुनः धनं स्वीकरोति? एतेन ज्ञायते यत् स्वस्य उत्तरे एव तस्य विश्वासः नास्ति इति। एषा तु वञ्चना एव। सभायाम् एतादृशी वञ्चना तु महते अपराधाय इति।
तदा भूस्वामी रघुनाथं पृष्टवान् भवान् एतद्विषये किं वदति इति। रघुनाथः उत्तरितवान् धनम् अनर्थस्य मूलम् इति जानन् मानवः धनार्थं प्रयत्नं करोति। एतेन धनस्य अनर्थकारित्वम् एव प्रतिपादितं भवति इति। एतत् उत्तरं श्रुत्वा कुत्सितं विना सर्वेऽपि करताडनं कृतवन्तः। कुत्सितः रघुनाथं पृष्टवान् धनम् अनर्थकारि इति ज्ञात्वा अपि यः तदेव इच्छति सः मूर्खः एव। अतः भवान् मूर्खः वा?
कुत्सितं तीक्ष्णदृष्ट्या पश्यन् रघुनाथः पृष्टवान् मित्र! स्वजीवनं शाश्वतं इति भवान् चिन्तयति वा? कदापि न कुत्सितः उक्तवान्। रघुनाथः पुनः पृष्टवान् भवतः मरणं कदा भविष्यति इति भवान् जानाति वा? नैव सर्वेषाम् अपि मरणं अज्ञातम् एव भविष्यति। मम अपि तथैव।
इदानीं वदतु भवान् इतोऽपि कानिचन दिनानि जीवितुम् इच्छति वा? उत इदानीम् एव मरणम् इच्छति वा? कुत्सितः प्रतिप्रश्नं कृतवान् भवान् किम् इच्छति वदतु।
अहं तु मूर्खः। अतः अहं जीवनम् एव इच्छामि। भवान् किम् इच्छति इति ज्ञातुम् इच्छामि। एतत् श्रुत्वा सर्वे सभासदाः हसितवन्तः। अपमानितः कुत्सितः लज्जया शिरः अवनमितवान्। भूस्वामी रघुनाथम् अधिकपुरस्कारेण सम्मानितवान्।