राजपुरे कृष्णशास्त्री इति एकः हस्तसामुद्रिकज्ञः आसीत्। तस्य नाम न केवलं स्वपुरे प्रसिद्धम् अपि तु चतुसृषु दिक्षु अपि प्रसिद्धम् आसीत्। तथापि सः दारिद्र्यकारणतः महता कष्टेन एव कुटुम्बपोषणं करोति स्म। अत्र मुख्यं कारणाम् आसीत् सः महापण्डितः सन् अपि धनं गौणम् भावयति स्म। धनिकान् अपि अनुरूपं प्रतिफलं न पृच्छति स्म। स्वेच्छया तैः यत् दत्तं तेन एव सः तृप्तः भवति स्म।
कृष्णशास्त्रिणः पत्न्यै राजलक्ष्म्यै एतत् न रोचते स्म। सा तदा तदा पतिं वदति भविष्यत्फलं ज्ञातुम् इच्छन्तः ये धनिकाः गृहम् आगच्छन्ति तेभ्यः यथेष्टं धनं प्रतिफलरूपेण प्राप्नोतु इति। तदा कृष्णशास्त्री वदति स्म हस्तसामुद्रिकम् एतत् महत्वपूर्णा विद्या। कोट्यधीशाः अपि मम गृहम् आगत्य हस्तरेखाफलं ज्ञास्यन्ति। श्रद्धां भक्तिं च प्रदर्शयन्ति। यदि अहं प्रतिफलरूपेण एतावत् धनं दातव्यम् इति वदामि तर्हि तत् वाणिज्यं भविष्यति। तदा जनाः पण्डितम् अपि मां वणिक्सदृशं मन्यन्ते। अहं मदीयं ज्ञानं वितरितुम् इच्छामि न तु विक्रेतुम्। ते सन्तोषेण यत् यच्छन्ति तदेव पर्याप्तम् अस्माकम् इति। तदा पत्नी असहनया वदति स्म एवं चेत् अस्माकं दारिद्र्यं अस्मिन् जन्मनि दूरं न गमिष्यति इति।
कृष्णशास्त्री श्रेष्ठः हस्तसामुद्रिकज्ञः इति वार्ता तद्देशीयेन महाराजेन अपि श्रुता। तस्य आस्थाने शास्त्रपारङ्गताः कलानिपुणाः पण्डिताः बहवः आसन्। किन्तु हस्तसामुद्रिके समर्थः कोऽपि न आसीत्। कृष्णशास्त्रिणम् आस्थानपण्डितरूपेण नियोजनीयः इति महाराजः चिन्तितवान्। किन्तु निर्णयस्वीकरणतः पूर्वं सः कृष्णशास्त्रिणः पाण्डित्यं परीक्षितुम् इच्छति स्म। अतः सः मन्त्रिणं स्वकीयं विचारम् उक्त्वा कृष्णशास्त्रिणम् आनेतुम् आज्ञापितवान्।
मन्त्री तद्दिने एव भटान् प्रेषितवान्। ते भटाः कृष्णशास्त्रिणः गृहं गत्वा राजास्थानम् आगच्छतु इति प्रार्थितवन्तः। भटानाम् आगामनं ज्ञात्वा ग्रामजनाः चिन्तितवन्तः कृष्णशास्त्रिणः अदृष्टं फलितम् इति। इतःपरं दारिद्र्यस्य कथा एव नास्ति इति चिन्तितवती राजलक्ष्मीः। किन्तु कृष्णशास्त्री भटानां प्रार्थनां श्रुत्वा किमपि चिन्तयन् उपविष्टवान्। एतेन ग्रामजनाः आश्चर्यचकिताः। राजलक्ष्मीः तु कोपेन चण्डी जाता। महाराजस्य प्रार्थनाम् अङ्गीकरोतु इति वक्तुं राजलक्ष्मीः यावत् चिन्तितवती तावति एव काले कृष्णशास्त्री भटान् उक्तवान् अहम् अद्यावधि अन्यस्य गृहं गत्वा हस्तसामुद्रिकं न उक्तावान्। महान्तः अपि मदीयं गृहम् एव आगत्य हस्तरेखाफलं पृच्छन्ति। धनिकः दरिद्रः सर्वेऽपि मम दृष्ट्या समानः। राजानम् एवम् एव निवेदयन्तु भवन्तः इति।
कृष्णशास्त्री राजाज्ञां तिरस्कृतवान्। एतस्य अपराधस्य उचितः दण्डः भविष्यति एव इति राजलक्ष्मीः ग्रामीणाः च चिन्तितवन्तः। कृष्णशास्त्रिणः उत्तरं श्रुत्वा राजा एकक्षणम् स्तब्धः। एकस्य हस्तसामुद्रिकस्य एतावान् स्वाभिमानः वा इति सः उद्गारं प्रकटितवान्। शीघ्रम् एव एतादृशः जनः द्रष्टव्यः इति तस्य मनसि इच्छा अपि जाता। एतद्विषये सः मन्त्रिणः अभिप्रायं पृष्टवान्। एकसप्ताहानन्तरं राजा स्वयं राजपुरग्रामम् आगतवान्। एतेन ग्रामीणाः सर्वे चकिताः। अकस्मात् आगतं महाराजं दृष्ट्वा चकिता भीता च राजलक्ष्मीः किङ्कर्तव्यतामूढा सञ्जाता। कथं स्वागतं वक्तव्यम्? कथं सत्कारः करणीयः इति सा न ज्ञातवती।
किन्तु कृष्णशास्त्री अविचलः। सः गौरवपूर्वकं स्वागतम् उक्त्वा यथायोग्यं सत्कारं कृतवान्। अनन्तरम् आगमनकारणं पृष्टवान्। महाराजस्य इच्छानुसारं तदीयहस्तस्य परीक्षणम् आराब्धवान्। जागरूकतया हस्तरेखाः परिशीलयन् सः किञ्चिदिव सम्भ्रान्तः। यतः तदीयहस्तरेखाणाम् अनुसारं सः कदापि राजा भवितुं न अर्हति। परसेवाम् एव हस्तरेखाः सूचयन्ति स्म।
पुनरपि किञ्चित् कालं परीक्ष्य अन्ते कृष्णशास्त्री उक्तवान् महाराज क्षाम्यतु भवान्। अहं चिन्तयामि मदीयं ज्ञानम् अपूर्णम् इति। भवदीयहस्तरेखाणां परिशीलयेन ज्ञायते यत् भवतः भाग्ये राजपदप्राप्तेः योगः एव नास्ति। किन्तु भवान् इदानीं महाराजः एव अस्ति। अतः अहं चिन्तयामि मदीयं ज्ञानं व्यर्थं जातम् इति। इदानीं मदीयः समग्रः आत्मविश्वासः नष्टः इति।
एवम् उक्त्वा सः पार्श्वे स्थितान् सामुद्रिकग्रन्थान् सर्वान् कोणे क्षिप्तवान्। झटिति अग्निम् आनेतुम् पत्नीम् आदिष्टवान्। पत्युः विचित्रव्यवहारेण राजलक्ष्मीः चकिता। तदा कृष्णशास्त्री कोपेन शीघ्रम् अग्निम् आनयतु इति पत्नीं पुनरपि आदिष्टवान्। तदा एतावत्पर्यन्तं द्वारि स्थितौ रक्षकभटौ समीपम् आगतवन्तौ।
तयोः एकः कृष्णशास्त्रिणं नमस्कृत्य उक्तवान् पण्डितोत्तम भवान् सामुद्रिकशास्त्रे अद्वितीयः इत्यत्र सन्देहः एव नास्ति। भवान् इदानीं यस्य हस्तपरीक्षां कृतवान् सः वस्तुतः राजा न अपि तु राजसेवकः। मया सह यः भटवेषेण स्थितः अस्ति एषः एव महाराजः। अहं तदीयः मन्त्री। एतत्सर्वं श्रुत्वा कृष्णशास्त्री राजलक्ष्मीः ग्रामीणाः च आनन्दिताः। अनया रीत्या या परीक्षा कृता तद्विषये राजा क्षमां प्रार्थितवान्।
एतदनन्तरम् एकसप्ताहाभ्यन्तरे एव महाराजः कृष्णशास्त्रिणं अभूतपूर्वं सत्कृतवान्।