SanskritLearners.Club

Where we Learn from Each Other

Death Will

Source - Sanskrit Chandamama |

| December |

| 1984

Ranganath is an old man. He was growing weak because of his age. He could not see well, as well as hear too. He asked his elder son to cure his vision problem. The son neglected in the beginning and subsequently got it cured. Similarly his younger son got the hearing problem cured. The old man wrote the dead will and informed that to his sons. What was written and why he wrote such a will is the story.

मरणशासम्

गङ्गानगरे रङ्गनाथनामकः एकः धनिकः आसीत्। वृद्धत्वकारणतः तस्य दृष्टिः मन्दा आसीत्। सः इदानीं बधिरः अपि। देहशक्तिः अपि कुण्ठिता जाता। एकदा रङ्गनाथः ज्येष्ठपुत्रं महेशम् आहूय उक्तवान् पुत्र भवान् मम नेत्रयोः चिकित्सां कारयतु। यावत् जीवामि तावत् अहं पराधीनः भवितुं न इच्छामि इति।

महेशः पितुः इच्छां मधुरवचनैः तिरस्कुर्वन् उक्तवान् दृष्टिशक्तिः क्षीणा चेत् कः दोषः इदानीम्? भवदीयसेवार्थं तु अहम् अस्मि। भवत्ः स्नुषा पौत्राः अपि सन्ति इति। रङ्गनाथः एतद्विषये पुत्रं महेशं पुनः पुनः प्रार्थितवान्। पितरं ग्रामीणस्य कस्यचित् वैद्यस्य समीपं नीतवान्। वैध्येन चिकित्सा आरब्धा। रङ्गनाथस्य भाग्येन वैद्यस्य हस्तकौशलेन वा अल्पे एव काले तदीया दृष्टिः पूर्ववत् एव जाता। सः इदानीं सम्यक् द्रष्टुं शक्नोति स्म।

रङ्गनाथः पुत्रम् उक्तवान् पुत्र भवान् श्रद्धया चिकित्सां कारितवान्। एतत्कारणतः एव अहम् इदानीं सम्यक् दृष्टुं शक्नोपि। रङ्गनाथस्य द्वितीयस्नुषा एतत्सर्वं दृष्टवती। सा पतिम् उक्तावती पश्यतु भवतः पिता सर्वदा ज्येष्ठपुत्रस्य प्रशंसां करोति। भवता अपि कथञ्चित् पितुः प्रशंसा प्राप्तव्या किल? रङ्गनाथस्य द्वितीयपुत्रः श्यामसुन्दरः पत्न्याः सूचनाम् अङ्गीकृतवान्। अनन्तरदिने एव सः नगरं गत्वा एकं प्रसिद्धं वैद्यं गृहम् आनीतवान्।

वैद्यः रङ्गनाथस्य गृहे एव निवासं कृतवान्। विशेषश्रद्धया औषधोपचारं कृतवान्। तेन अल्पे एव काले रङ्गनाथस्य वधिरता दूरं गता। इदानीं रङ्गनाथः सम्यक् श्रोतुं समर्थः। अतः सः द्वितीयपुत्रस्य अपि प्रशंसां कृतवान्। एवम् एव कानिचन दिनानि अतीतानि। एकदा रङ्गनाथः पुत्रद्वयम् अपि आहूय स्वकीयं मरणशासनं प्रदर्शितवान्। तत्र मरणानन्तरं तदियसम्पत्तेः भूमेः च का व्यवस्था भवेत् इति लिखितम् आसीत्।

मरणशासनपत्रं पठित्वा उभौ अपि पुत्रौ मूर्च्छितौ इव। यतः तत्र स्वकीया सम्पत्तिः ग्रामे स्थितायै धर्मशालायै समर्पणीया इति लिखितम् आसीत्। पितुः समीपे विवादेन कोऽपि लाभः नास्ति इति तौ सहोदरौ चिन्तितवन्तौ। अतः तौ ग्रामीणान् प्रमुखान् आहूय प्रार्थितवन्तौ भवन्तः सज्जनाः एव अत्र न्यायनिर्णयं कुर्वन्तु। पिता समग्रां सम्पत्तिं धर्मशालायै किमर्थं समर्पितवान्? किमर्थं वा पुत्रौ आवां वञ्चितवान् इति न ज्ञायते। भवन्तः एव पितरं न्यायम् उपदिश्य आवाम् उद्धरन्तु इति।

ते ग्रामप्रमुखाः रङ्गनाथसमीपं गतवन्तः। तेषु एकः रङ्गनाथम् उक्तवान् रङ्गनाथ भवतः एषः निर्णयः न उचितः। पञ्चेन्द्रियेषु समर्थेषु सत्सु यदि कश्चित् मरणं प्राप्नोति तर्हि तदीयं भाग्यं तत्। भवतः पुत्रौ तु पितृभक्तौ। एकः नेत्रयोः विषये चिकित्सां कारितवान्। अपरः च श्रवणशक्तिविषये। एवं स्थिते पुत्रयोः कृते किमपि अदत्त्वा सर्वस्वस्य अपि दानं करोति इत्यस्य कः अर्थः? किमेतत् उचितं वा? भवान् एव चिन्तयतु इति।

रङ्गनाथः हसन् उक्तवान् चिकित्सया पुत्रौ उपकृतवन्तौ इति तु सत्यम् एव। एतेन एव अहम् इदानीं गृहे यः कोलाहलः प्रचलति तं श्रोतुं शक्नोमि सर्वं द्रष्टुम् अपि शक्नोमि। एतेन मम निश्चयः दृढः जातः यत् पुत्रयोः दानापेक्षया धार्मिकसामाजिककार्यार्थं सम्पत्तेः दानम् एव श्रेयस्करम् इति। रङ्गनाथस्य एतानि वचनानि श्रुत्वा ग्रामप्रमुखाः चिन्तितवन्तः एषः वृद्धः पुत्रयोः विषये किञ्चित् असन्तुष्टाः अस्ति इति। अतः ते महेशं श्यामसुन्दरं च पृष्टवन्तः भवन्तौ पितुः वचनानि श्रुतवन्तौ किल इति।

महेशः श्यामसुन्दरः च किमपि उत्तरं न उक्तवन्तौ। तौ लज्जया शिरः अवनमय्य स्थितवन्तौ। तदा रङ्गनाथः पुत्रौ उद्दिश्य उक्तवान् खेदः मास्तु। सम्पत्तेः आशया पुत्राः स्वमातापित्रोः सेवां कुर्वन्ति इति तु सर्वैः ज्ञातः एव विषयः। सम्पत्तेः आशया या सेवा क्रियते तत्र वास्तविकी प्रीतिः न दृश्यते एव। एतां नीतिं पाठयितुम् एव अहम् एतादृशं मरणशासनं लिखितवान्। एतत् श्रुत्वा पुत्रौ सर्वे ग्रामप्रमुखाः च आश्चर्यचकितया दृष्ट्या रङ्गनाथं दृष्टवन्तः।

रङ्गनाथः पुत्रौ प्रीतियुक्तया दृष्ट्यापश्यन् पुनः उक्तवान् मम कथनतः पूर्वम् एव यदि चिकित्सायाः व्यवस्था कृता स्यात् तर्हि अहं बहु सन्तुष्टः अभविष्यम्। किन्तु एवं न कृतम्। मरणशासनतः युक्तः पाठः पठितः किल? अतः इदानीं तत् परिवर्तयामि। वस्तुतः मदीयाः पुत्रपौत्रादयः एव सम्पत्तिम् अनुभवन्ति चेत् या तृप्तिः सा अन्यया रीत्या न उपलभ्यते एव इति। रङ्गनाथस्य वचनानि श्रुत्वा सर्वे ग्रामप्रमुखाः स्वकीयां तृप्तिं सूचितवन्तः।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.