Sanskrit Learners Club

Where we Learn from Each Other

Fat and Dwarf

Source - Sanskrit Chandamama |

| April |

| 1984

Soma was son of Ramila and Jivamma. He was fed well and grown fat. As he reached his youthful age, many started making fun of his fat body. He tried different methods to become lean and failed, until he met a Dwarf. How the words of the Dwarf sparked changes in him and what he did further is the story of how his mind got opened up…

स्थूलः वामनः च

कश्चित् ग्रामः। तत्र रामिलः नाम कश्चित् श्रेष्ठी वसति स्म। तस्य पत्नी जीवम्मा इति। तयोः दम्पत्योः सोमः नाम एकः एव पुत्रः। मातापित्रोः परमप्रीतिपात्रं सोमः। सः यत् यत् इच्छति तत् सर्वं तस्य कृते दातुं रामिलस्य प्रयत्नः। जीवम्मा अपि अस्मिन् विषये पुत्रपक्षपातिनी एव आसीत्। अतः सोमस्य बुद्धेः अपेक्षया देहः सम्यक् वर्धितः। गच्छता कालेन सोमः तरुणः अभवत्। तस्य वयः पञ्चविंशतिवर्षीणि। तस्मिन् वयसि तस्य शरीरं बहुस्थूलम् अभवत्। प्रतिदिनं स्थूलता वर्धते स्म। दिने दिने तस्य शरीरं तथा वर्धितं यत् दृष्ट्वा तस्य अग्रे एव सर्वे हसन्ति स्म। आह! गजराजविराजितमन्दगतिः इति एकः तं दृष्ट्वा उपहसति। अन्यः अये कथं पर्वतः अपि इतस्ततः चलति इति परिहसति। यदा सोमः उपहासवचनानि शृणोति तदा बहु खिन्नः भवति। तानि एव निन्दावाक्यानि तस्य कर्णयोः पुनः पुनः निनदन्ति। कदाचित् सः बहुव्यग्रः अभवत्।

अनन्तरं सोमः वैद्यं दृष्ट्वा पृष्टवान् – मम शरीरं कथं कृशं भवेत्। उपायं कथयतु इति। क्रोशयुगं प्रतिदिनं धावतु। मध्ये कुत्रापि न तिष्ठतु। एकस्मिन् मासे एव भवान् कृशः भविष्यति इति वैद्यः उक्तवान्।

क्रोशयुगं धावनं नाम सार्वजनिकमार्गे एव करणीयम्। तथापि सोमः तस्मिन् मार्गे एव धावितुम् आरब्धवान्। मार्गे बहवः जनाः अभिमुखं मिलन्ति स्म। सोमस्य धावनं दृष्ट्वा केचित् जनाः हसितवन्तः। हसतां मध्ये एकः तु स्वकुतूहलं निरोद्धुम् अशक्तः सोमं पृष्ट्वान् एव किमर्थं धावति इति। अपि च सोमेन सह धावन् एव धावनकारणम् अपि ज्ञातवान्। मार्गे ह्यस्तन-अपेक्षया अद्य अधिकाः जनाः आसन्। मम धावनं द्रष्टुम् एव एते स्थितवन्तः इति सोमः भावितवान्।

अतः लज्जितः सोमः चिन्तितवान् – सूर्योदयतः पूर्वमेव धावनं कर्तव्यम् इति। अनन्तरं सोमः तथैव कृतवान्। तदा द्वित्राः जनाः मार्गे दृश्यन्ते स्म। हासं कुर्वतां सङ्ख्या तु न्यूना अभवत् किन्तु उषःकाले शय्यां त्यक्त्वा उत्थातुं सोमस्य बहुसङ्कटम् अभवत्। यतः उषःकाले सुमधुरां निद्रां त्यक्तुं तस्य मनः न इच्छति स्म।

अतः पुनः वैद्यस्य समीपं तग्वा सोमः प्रार्थितवान् – श्रीमन् अहं धावितुं न समर्थः। इतोऽपि सरलम् उपायं कृपया सूचयतु इति। वैद्यः उक्तवान् बहवः उपायाः सन्ति। एषः एकः सरलः उपायः – प्रतिदिनम् एकचषकं क्षीरं तथा एकचषकं फलरसं पिबतु। अपि च निम्बुकफलमितस्य तक्रान्नस्य भोजनं स्वीकरोतु। एवं परिमिताहारेण मासद्वये एव भवान् कृशः भविष्यति इति।

वैद्येन यथा उक्तं तथा सोमः दिनद्वयं कृतवान्। बहु आयासेन सः श्रान्तः अभवत्। खाद्यार्थं जिह्वा स्रवति स्म। यद्यपि शरीरं किञ्चिदिव कृशम् अभवत् तथापि जिह्वाचापल्यं निरोद्धुम् असमर्थः सोमः तृतीये दिने एव बहु भुक्तवान्। पुनः तस्य शरीरं पूर्ववत् स्थूलम् अभवत्।

पुनः वैद्यस्य समीपं गत्वा सोमः उक्तवान्। भवता यथा उक्तं तथैव दिनद्वयं मिताहारं सेवितवान्। शरीरमपि किञ्चित् कृशम् अभवत्। किन्तु तृतीये दिने बुभुक्षां सोढुम् असमर्थः बहु भुक्तवान्। पुनः शरीरं स्थूलम् अभवत्। एवं चेत् कथम् अहं सुखेन जीवामि। कृशः भवितुं तथा कृशीभूतं शरीरं रक्षितुं च कति दिनानि मिताहारः सेवनीयः। कृपया सूचयतु इति।

मिताहारः कति दिनानि! इति! अत्र शृणोतु यदा भवान् कृशः भवति अनन्तरम् अपि यावज्जीवं भवता मिताहारः एव सेवनीयः। यदा यथापूर्वं भोजनं करोति तदा भवतः शरीरं स्थूलं भवेत् एव। भवतः शरीरस्य एषः स्वभावः इति वैद्यः उक्तवान्।

यावज्जीवं मिताहारः चेत् अल्पकाले एव मम मरणं भवेत्। अतः मिताहारः दुःसाध्यः एव। अतः उपायान्तरं कृपया सूचयतु इति सोमः प्रार्थितवान्। मम समीपे औषधं तु अस्ति। तत् औषधं स्वीकरोतु। मिताहारस्य क्लेशः नास्ति इति उक्त्वा वैद्यः दश घुटिकाः दत्तवान्। प्रतिदिनम् एकैकां घुटिकां स्वीकरोतु इत्यपि सूचितवान्।

परस्मिन् दिने सोमः एकां घुटिकां सेवितवान्। कण्ठे तापः जिह्वायां ज्वलनं च उत्पन्नम्। तद् दिने सः किमपि खादितुं समर्थः न अभवत्। तथापि तस्य बुभुक्षा न जाता। यतः घुटिका आहारगुणयुक्ता आसीत्। अन्यपीडा तु न आसीत्। परदिने जिह्वातापः अपि न्यून इव अनुभूतः। किन्तु यदा घुटिका स्वीकृता तदा पुनरपि जिह्वा ज्वलितुम् आरब्धा। तद्दिने अपि किमपि न खादितवान्। असन्तृप्तेः एतत्कारणे सत्यपि सर्वाः घुटिकाः स्वीकरणीयाः इति निश्चितवान्। यतः बुभुक्षा पीडा तु न आसीत् किल?

तस्मिन् दिने रात्रौ सोमस्य गृहं कश्चित् वामनः पथिकः आगतवान्। यद्यपि वामनः ग्रमान्तरं प्रति प्रस्थितः तथापि महत्या वृष्ट्या गन्तुम् असमर्थः सोमस्य गृहम् आश्रितवान्। सोमः अपि तस्य सत्कारं कृत्वा भोजनं कारितवान्। किन्तु सः अतिथिना सह भोजनं न कृतवान्। श्रीमन् भवान् उदारः। एतादृशं सत्कारम् आतिथ्यं च कुत्रापि अहं न अनुभूतवान्। किन्तु भवान् किमर्थं मया सह भोजनं न कृतवान् इत्येव मम खेदः इति वामनः उक्तवान्।

एतत् श्रुत्वा सोमः स्वीयां सर्वां कथां सविस्तारम् उक्तवान्। तत् श्रुत्वा यद्यपि भवतः एषा अवस्था अस्ति तथापि औषधसेवनेन भवान् कृशः भवत्येव। किन्तु मम दुरवस्थां पश्यतु। माम् उन्नतशरीरिणं कर्तुं किमपि औषधं नास्ति एव। सर्वे अपि मम वामनशरीरं दृष्ट्वा हसन्ति। अतः एतदर्थं किं वा कर्तुं शक्यम् इति वामनः पृष्टवान्। सत्यं मम अपेक्षया भवतः स्थितिः अतीव शोचनीया इति सोमः अनुकम्पया उक्तवान्।

एतत् श्रुत्वा वामनः हसन् उक्तवान् मम स्थितिः न शोचनीया। किन्तु भवतः स्थितिः एव परमशोचनीया इति। एतत् कथं भोः इति अत्याश्चर्येण सोमः पृष्टवान्।

यद्यपि भवान् स्थूलः तथापि तेन का हानिः? किं दुःखम्? सर्वमपि कार्यं सुखेनैव भवान् करोति। किन्तु जनाः हसन्ति इति भवान् कृशः भवितुं परिश्रमं वहति। एवं च भवन्तं दृष्ट्वा हसतां कृते एव भवान् परिश्रमं वहति। एषा परमशोचनीया स्थितिः भवतः एव न मम इति वामनः उक्तवान्। एवं तर्हि भवन्तं दृष्ट्वा कश्चित् हसति चेत् भवान् किं सङ्कटं न अनुभवति इति पुनः सोमः पृषटवान्।

श्रीमन् अहम् एकं प्रश्नं पृच्छामि। निर्दाक्षिण्यं कथयतु। मम आकृतिं दृष्ट्वा यथा अन्ये हसन्ति तथैव भवान् अपि हसति किल? मम पुरतः न हसति इति तु अन्यत् इति उक्त्वा वामनः तस्य उत्तरं निरीक्षितवान्।

सोमः तु तस्य वचनं सत्यम् एव इति अङ्गीकृतवान्। वामनः पृष्टवान् भवन्तं दृष्ट्वा हसतां मध्ये अहमपि एकः इत्यपि सत्यं किल?

तदपि सत्यमेव। भवतः आकृतिं दृष्ट्वा अहं हसामि। मम आकृतिं दृष्ट्वा भवान् हसति। एषः मनुष्यस्य स्वभावः इति सोमः उक्तवान्।

अत्रैव यथार्थः विषयः अस्ति। अत्र मम वचनं शृणोतु। द्वयोरपि समस्या एका एव। यः कोऽपि भवन्तं दृष्ट्वा यदि हसति तदा भवन्तं माम् इति भावयतु। मां दृष्ट्वा कश्चित् हसति चेत् भवानेव इति अहं भावयामि। तदा का व्यथा इति वामनः सूचनां दत्तवान्।

वामनस्य वचने निश्चयेन सत्यांशः प्रतीयते एव। मम आरोग्यं समीचीनम् एव अस्ति। यः कोऽपि हसति इति मम शरीरं किमर्थं वा क्लेशयामि? आहारस्य पानीयस्य च इच्छा बलात्कारेण किमर्थं निरोधनीया इति सोमः चिन्तितवान्।

अनन्तरं वामनं नमस्कृत्य उक्तवान् श्रीमन्, भवतः आतिथ्यं कृत्वा अहं धन्यः। भवान् महाज्ञानी इव मम कृते उपदेशं कृतवान्। इतः परं मम समस्या एव नास्ति इति।

अनन्तरं यद्यपि सोमस्य स्थूलता क्षीणतां न गता तथापि तं दृष्ट्वा हसतां सङ्ख्या क्षीणतां गता। उपहासपात्रस्यैव यदि मनसि खेदः न भवति तर्हि हसताम् अपि हसितुम् इच्छा न भवति। यदि कश्चित् हसति चेत् तस्यैव मनः खिन्नं भवति।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.