एकस्मिन् ग्रामे परमेशः इति कृषिकः। तस्य अल्पा भूमिः। वृष्टिः अपि काले काले न भवति। सः परिश्रमेण कृषिं करोति स्म। तस्य पत्नी गौरी इति। सा अपि कष्टसहिष्णुः। सा सर्वदा सर्वेषु कार्येषु पत्युः साहाय्यं कर्तुम् इच्छति स्म। तयोः चत्वारः पुत्राः सञ्जाताः। परमेशः पत्नीं पुत्रपालने नियुज्य एकाकी कृषिकार्यं करोति स्म। पुत्राणां नामानि जयेशः नरेशः उमेशः रमेशः च। परमेशः मितव्ययेन स्वकीयान् चतुरः पुत्रान् पोषितवान्। इदानीं पुत्राः प्रौढाः। परमेशः किञ्चित् धनसञ्चयम् अपि कृत्वा तद्धनेन पुरातनगृहं निष्कास्य एकं नवीनं गृहम् अपि निर्मितवान्। ग्रामे नगरे च तस्य नाम अपि प्रसिद्धम् आसीत्।
परमेशः पित्रार्जितां भूमिम् अतिरिच्य अन्यां भूमिं क्षेत्रं वा स्वयं कर्तुं न शक्तवान्। यतः सः एकाकी कुटुम्बपोषणं करोति स्म। परमेशस्य गौर्योः च सद्गुणान् दृष्ट्वा कन्यापितरः यदि अस्माकं कन्या एतत् गृहं प्रविशति तर्हि सुखं जीवति इति चिन्तयन्तः स्वयमेव आगत्य परमेशस्य पुत्राणां विवाहार्थं प्रार्थितवन्तः। प्राप्तवयस्कानां पुत्राणां विवाहः करणीयः एव इति कृत्वा परमेशः गौर्या सह समालोच्य विवाहम् अङ्गीकृतवान्। प्रथमं जयेशस्य विवाहः अभवत्। तस्य भार्या धनलक्ष्मीः। सा तस्य ग्रामस्य कृषिकस्य राजप्पः इत्यस्य पुत्री। सा केवलं नाम्ना धनलक्ष्मीः। तस्याः पिता अपि परमेशवत् साधारणः कृषिकः एव। इदानीं परमेशस्य गृहे एका अधिका जाता। व्ययः अपि किञ्चिदिव अधिकः अभवत्। एतन्मध्ये चतुर्णां पुत्राणाम् अपि विवाहः जातः। वध्वः गृहम् आगताः। इतः परं कथं कुटुम्बपोषणम् इति परमेशस्य चिन्ता। पुत्राः स्वस्वजीवनव्यवस्थां स्वयं पश्येयुः इति तस्य विश्वासः। किन्तु तथा किमपि न अभवत्।
एकदा सः ज्येष्ठपुत्रम् उक्तवान् पुत्र! अस्माकं कृषिभूमिः विशाला नास्ति किल? कुटुम्बस्य व्ययः तु दिने दिने वर्धते। आयव्ययं सन्तोलयितुं काचित् व्यवस्था चिन्तिता वा इति।
तदा ज्येष्ठपुत्रः उक्तवान् यदि इदानीं विद्यमानं क्षेत्रं पर्याप्तं न भवति तर्हि अन्यस्य भूमिं कृष्यर्थं स्वीकुर्मः इति। पुत्रस्य एतादृशम् उत्तरं श्रुत्वा खिन्नः परमेशः उक्तवान् – एतावत्पर्यन्तं वयं भूस्वामिनः इति जनाः अस्मान् गौरवेण पश्यन्ति स्म। यदि अस्मिन् एव ग्रामे वयम् इदानीम् अन्यस्य भूम्यां कृषिं कुर्मः तर्हि अस्माकं गौरवं न्यूनं भवति। पूर्वं ये मानयन्ति स्म ते एव इदानीम् अधिकारं प्रदर्शयन्ति इति।
तदा ज्येष्ठपुत्रः किमपि न उक्तवान्। परमेशः अन्यान् पुत्रान् अपि पृष्टवान्। ते अपि ज्येष्ठपुत्रवत् एव वदन्ति स्म। वृक्षतः पतितानि बीजानि चतुर्दिक्षु विकीर्णानि चेत् एव वृक्षाः पुष्टाः भवन्ति। वृक्षस्य पार्श्वे एव पतन्ति चेत् कथं वा पर्याप्ता वृद्धिः। अनया नीत्या पुत्राः बोधनीयाः। तत् कथम् इति परमेशः चिन्तितवान्। अन्ते एकः उपायः स्फुरितः। परमेशः नगरं गतवान्। प्रत्यागमनसमये दिनद्वयं विलम्बः स्यात् इति उक्तवान् गृहे।
अपरस्मिन् दिने एकः किरातः परमेशस्य गृहम् आगतवान्। तदा गृहे ज्येष्ठपुत्रः आसीत्। किरातः ज्येष्ठपुत्रम् उक्तवान् – श्रीमन्! मदीयम् एकं वेणुवनम् अस्ति। तत्र अहं गृहं निर्मातुम् इच्छामि। यः कोऽपि वेणून् कर्तयित्वा स्थलं स्वच्छीकरोति चेत् वरम् आसीत्। वेणुः तु निश्शुल्कं दीयते इति।
ज्येष्ठपुत्रस्य आशा उत्पन्ना। वेणुविक्रयणेन इदानीं लाभः एव। व्ययः तु केवलम् आनयनस्य इति सः चिन्तितवान्। अनन्तरं ज्येष्ठपुत्रः किरातेन सह गत्वा वेणून् आनीय नगरं प्रापितवान्। तत्र यदा एषः विक्रेतुं प्रवृत्तः तदा परमेशस्य द्वितीयः पुत्रः तत्र आगतवान्।
अग्रज! वेणुविक्रयणम् इदानीं मास्तु। विदारिताः वेणुशलाकाः क्रेतुम् एकः वणिक् सिद्धः अस्ति इति उक्तवान्। अनन्तरं ते वेणून् विदारितवन्तः। तान् नेतुं वणिक् अपि एकः आगतवान्। तदा तृतीयः पुत्रः ग्रामात् आगतः उत्साहपूर्वकम् उक्तवान् श्रमेण सम्पादिताः शलाकाः न्यूनमूल्येन किमर्थं विक्रीणीमः? शलाकाभिः कण्डोलान् अन्यवस्तूनि च सज्जीकर्तुम् एकः सिद्धः अस्ति। तद्द्वारा तथा कारयामः। अनन्तरं सः एव स्वयं विक्रीय ददाति इति।
वेणुभिः कण्डोलाः अन्यवस्तूनि च सिद्धानि। तानि वस्तूनि नेतुम् एकः वणिक् अपि आगतवान्। तावति काले परमेशस्य चतुर्थः पुत्रः तत्र आगत्य उक्तवान् एतेषां विक्रयणं वयम् एव कुर्मः चेत् समग्रः लाभः अस्माकम् एव भवति। अहम् एव एतत् कार्यं करोमि इति।
अन्ते चत्वारः अपि मिलित्वा युक्तेन मूल्येन सर्ववस्तूनां विक्रयणं कृतवन्तः। एतेन अनुभवेन तैः ज्ञातम् – वाणिज्यं न तथा कष्टं यथा वयं चिन्तयामः इति। अतः वाणिज्यम् आरब्धवन्तः। केषुचित् एव मासेषु वेणुवाणिज्ये लाभं कीर्तिं च संपादितवन्तः। अन्ते एकदा लाभविभजनं प्रवृत्तम्। तदा परमेशः आगत्य उक्तवान् लाभविभजनतः पूर्वं वेणोः मूल्यं पृथक् स्थापयन्तु इति।
पुत्राः आश्चर्येण – वेणोः मूल्यं किम्? तत्तु निश्शुल्कं प्राप्तम् इति उक्तवन्तः। तदा परमेशः हसन् उक्तवान् – किरातः निश्शुल्कं दत्तवान् सत्यम्। किन्तु पुनरपि वेणुः निश्शुल्कं न लभ्यते। तदा धनं दातव्यम् एव किल इति।
चत्वारः अपि एतं विचारम् अङ्गीकृतवन्तः। परमेशः तेषां पुरतः एकं रहस्यं न उक्तवान् एव। आरम्भे ज्येष्ठपुत्रस्य कृते यः वेणून् दत्तवान् तस्य किरातस्य कृते परमेशः धनं दत्तवान् आसीत्। एवमेव वणिग्रूपेण आगताः सर्वेऽपि परमेशस्य मित्राणि एव आसन्।