Sanskrit Learners Club

Where we Learn from Each Other

Clarity

Source - Sanskrit Chandamama |

| September |

| 1984

Chaitanya and Bhanumati were newly married couple and they were wealthy too. Chaitanya went to market and bought a pearl necklace to his wife, as her birthday gift. On the way back home one of the relative of his driver asked for a lift. Unfortunately on the way they met with an accident. When Chaitanya came back home, he found the necklace missing and doubted that his driver’s relative only might have stolen it. What happened next and how he got back the necklace is the story.

भ्रमनिवृत्तिः

पुङ्गवपुरे बहवः धनिकाः आसन्। तेषु चैतन्यः अन्यतमः। युवकस्य तस्य विवाहः जातः। तस्य पत्नी भानुमती अपि धनिकपुत्री एव। विवाहानन्तरां भानुमत्याः जन्मदिनोत्सवः सम्प्राप्तः। भानुमत्याः कृते एकम् उपायनम् आनेतुं चैतन्यः नगरं गतवान्। तत्र दशशस्रदीनारान् दत्वा सः एकां मुक्तावलीं क्रीतवान्। अनन्तरं सः स्वकीये अश्वशकटे उपविश्य ग्रामं प्रत्यागच्छति स्म। सन्ध्यासमयः आसीत्। सः शकटचालकं हालकं प्रति हालक! शीघ्रं शीघ्रं शकटं चालयतु इति उक्तवान्। तथा एव अस्तु आर्य इति उक्त्वा हालकः अश्वं किञ्चित् ताडयित्वा है है इति प्रेरितवान्। अश्वः उत्साहेन धावति स्म। चैतन्यः किञ्चित् तन्द्रामग्नः जातः।

एकत्र शकटः स्थगितः। चैतन्यः जागृतिं प्राप्य किमर्थं शकटः स्थगितः इति पृष्टवान्। हालकः मार्गस्य पार्श्वे स्थितम् एकं दर्शयित्वा आर्य एषः कालेयः मम पत्न्याः पितृव्यस्य पुत्रः। अस्य पितामहः मरणशय्यायाम् अस्ति। सः अस्माकं ग्रामस्य समीपे एव वसति। एषः शीघ्रं गत्वा पितामहस्य अन्तिमदर्शनं प्राप्तुम् इच्छति इति उक्तवान्। एवं तर्हि सः अस्माकं शकटे स्थानम् इच्छति किल? अस्तु इति चैतन्यः उक्तवान्। यद्यपि चैतन्यः स्वीयशकटे अन्यस्य प्रवेशं न इच्छति तथापि इदानीं करुणया तूष्णीं स्थितवान्। कालेयः चैतन्यं नमस्कृत्य शकटे उपविष्टवान्।

पुनः शकटः अग्रे प्रस्थितः। सः मार्गः अतीव निम्नोन्नतः आसीत्। अतः एकत्र गर्ते चक्रस्य स्खलनम् अभवत्। उत्तरक्षणे एव शकटः पतितः। हालकः तु यथाकथञ्चित् शकटतः कूर्दितवान्। चैतन्यः कालेयः च अधः पतितवन्तौ। तयोः उपरि चैतन्येन क्रीताः फलानां कण्डोलाः अन्यानि वस्तूनि च पतितानि।

प्रथमतः कालेयः उत्थितवान्। अनन्तरं हालकः कालेयः च मिलित्वा चैतन्यम् उत्थापितवन्तौ। चैतन्यस्य दक्षिणपादे वेदना आसीत्। ततः कालेयः हालकः च गर्ततः चक्रम् उन्नीय शकटं सुस्थितं कृतवन्तौ। मार्गे पतितानि सर्वाणि वस्तूनि पुनः शकटे स्थापितवन्तौ। पुनः शकटः प्रस्थाय अल्पकाले एव ग्रामं प्राप्तः। तत्र कालेयः शकटतः अवतीर्य गम्यस्थानं प्रति प्रस्थितवान्।

चैतन्यः स्वगृहस्य पुरतः शकटतः अवतीर्णवान्। अनन्तरं पादवेदनाकारणात् शनैः शनैः गृहं प्रविष्टवान्। तदा तस्य पत्नी तं दृष्ट्वा किमर्थं भवान् मन्दां चलति? मम जन्मदिनस्य उपायनं तावत् गुरुभूतम् अस्ति वा इति पृष्टवती। तस्याः प्रश्नं श्रुत्वा चैतन्यः किञ्चित् विचलितः। सा प्रायः स्वीयां पादवेदनां न लक्षितवती इति मत्वा हन्त! मार्गे शकटः पार्श्वभागे पतितः। यथाकथञ्चित् प्राणाः रक्षिताः। देवानुग्रहात् महती विपत्तिः परिहृता इति उक्तवान्।

अहो! एवम् अभवत् वा? प्रथमम् अमृताञ्जनं लेपयामि इति उक्त्वा भानुमती तस्य हस्तं गृहीतवती। लेपनम् अनन्तरं भवतु। प्रथमं मया आनीतम् उपायनं पश्यतु इति स्यूतं तस्याः हस्ते चैतन्यः दत्तवान्। चैतन्येन दत्तं स्यूतं भानुमती औत्सुक्येन गृहीत्वा तास्मिन् स्थितां मनोहरां लघुमञ्जूषाम् उद्घाटितवती।

इदानीम् एव मम एका सखी आगतवती। तया अपि मत्कृते एकम् उपायनम् आनीतम् अस्ति। भवताम् उपायनं दृष्ट्वा अनन्तरं स्वकीयं दर्शयामि इति सा वदति। अतः इदं तस्याः कृते दर्शयामि इति वदन्ती एव किञ्चित् सम्भ्रान्ता सा किमिदं भोः! किम् आनीतं भवता इति पृष्टवती। चैतन्यः अपि दृष्टवान्। मञ्जूषा रिक्ता आसीत्!

भानुमती चौतन्यं सक्रोधं पश्यन्ती भवतः उपायनं बहु मनोहरम् अस्ति इति उक्तवती। चैतन्यस्य आश्चर्यं क्रोधः सम्भ्रमः च युगपत् एव जाताः। भवतु भवतः उपायनं श्वः एव सर्वेषां पुरतः दास्यामि इति मम सखीं प्रति वदामि इति उक्त्वा रिक्तां मञ्जूषां तत्रैव स्थापयित्वा सा अन्तः गतवती। चैतन्यः क्रोधेन कम्पमानः कर्कशस्वरेण हालकम् आकारयन् बहिः आगतवान्। कालेयः एव चोरः इति सः चिन्तितवान्। तत्र हालकः अश्वम् एकत्र बद्ध्वा तृणानि खादयन् आसीत्।

चैतन्यः तत्रैव गत्वा भवतः पत्न्याः पितृव्यस्य पुत्रः इति उक्त्वा भवान् अस्माकं शकटे चोरस्य अवकाशं दत्तवान् किल? यदा शकटः मार्गे पतितः तदा सः दशसहस्रमूल्यां मुक्तावलीं अपहृत्य रिक्तां मञ्जूषां मम स्यूते स्थापितवान् अस्ति। इदानीमेव गत्वा तस्य हस्तात् मुक्तावलीम् आनयतु। न आनयति चेत् भवतः मम गृहे प्रवेशः एव नास्ति इति क्रोधेन गर्जितवान्।

चैतन्यस्य वचनं श्रुत्वा हालकस्य वज्राघातः इव अभवत्। सः नतमस्तकः भूत्वा मूकः इव तूष्णीं स्थितवान्। चैतन्यः पुनः तं भर्त्सयित्वा इतः निर्गच्छतु इति गर्हन् प्रतिनिवृत्तः। अनन्तरं हालकः धावन् गृहं गतवान्। तत्र तस्य कुटीरस्य पुरतः आगत्य पादाघातेन भूमिं कम्पयन् भवत्याः मातृगृहीयाः सर्वे चोराग्रेसराः इति प्रतिभाति। सः कालेयः पितामहस्य अन्तिमदर्शनार्थं साहाय्यं याचितवान् इति शकटे तस्य स्थानं दत्तम्। सः तु अस्माकम् आर्यस्य बहुमूल्यां मुक्तावलीम् एव अपहृतवान्। भवती सद्यः गत्वा आभरणम् आनयतु। अन्यथा मम उद्योगाः अपि नास्ति। अपकीर्तिः अपि जायते इति उक्तवान्।

यदा पितामहस्य वार्ता श्रुतवती तदा हालकस्य पत्नी मुक्तावलीविषयमेव विस्मृत्य हा हन्त! मम पितामहस्य परिस्थितिः एवम् अस्ति वा इति प्रलापं कुर्वती पितामहस्य गृहं प्रति धावितवती। चैतन्यः पादवेदनया मन्दं मन्दं यदा पुनः स्वगृहस्य समीपम् आगतवान् तदा भानुमत्याः सखी गृहात् बहिः आगतवती। तस्याः हस्ते एका लघुमञ्जूषा आसीत्। अनन्तरं भानुमती बहिः आगत्य चैतन्यस्य पार्श्वे स्थित्वा गच्छन्तीं सखीं दर्शयित्वा एषा एव मम सखी। सा अपि स्वीयम् उपायनं श्वः एव दर्शयिष्यामि इति उक्तवति। भवान् रिक्तां मञ्जूषाम् आनीतवान् इति वक्तुं शक्यते वा? भवतु तत्सर्वम् अनन्तरं चिन्तयामः। इदानीं भवतः पादे तैललेपनां करोमि। किमर्थं क्रोधेन यं कञ्चित् निन्दितवान् इति उक्तवती।

पत्न्याः मधुरवचनं श्रुत्वा चैतन्यस्य वेदना चिन्ता क्रोधः च न्यूना अभवन्। तया सह अन्तः गत्वा मार्गे जातं सर्वं वृत्तान्तं कथितवान्। परेद्युः प्रातः हालकः मुक्तावलीम् आनेष्यति इति तं निरीक्षमाणः चैतन्यः गृहस्य पुरतः उपविष्टः आसीत्। तदा पूर्वेद्युः नगरे यस्य आपणे चैतन्यः मुक्तावलीं क्रीतवान् सः आपणिकः तत्र आगत्य भोः महाशय! क्षमा अस्तु। ह्यः अस्माकम् आपणस्य भृत्यः अजागरूकतया रिक्तां मञ्जूषां भवतः हस्ते दत्तावान्। एषः दोषः रात्रौ ज्ञातः इति उक्त्वा मुक्तावलीमञ्जूषां चैतन्यस्य हस्ते दत्तवान्।

आपणिकस्य प्रामाणिकतां दृष्ट्वा चैतन्यः अतीव सन्तुष्टः। सः आपणिकं भोजनं कृत्वा गच्छतु इति प्रार्थितवान्। किन्तु आपाणिकः कार्यान्तरम् अस्ति इति उक्त्वा तथैव प्रतिनिवृत्य गतवान्। इदानीं चैतन्यः हालकं पुनः पुनः स्मरन् सन्तोषेण पत्नीम् आकारितवान्। तदा एव भयेन विवर्णः हालकः तत्र आगतवान्। चैतन्यः तं दृष्ट्वा भयम् मास्तु हालक! शीघ्रम् आगच्छतु। किमर्थम् एव विलम्बं कृतवान् इति पृष्टवान्।

तदा आश्चर्यचकितं तं प्रति पुनः “सा मुक्तावली कालेयस्य हस्ते नास्ति भोः”। वृथा अहं तद्विषये सन्देहं प्रकठितवान्। सा मुक्तावली आपणे एव आसीत्। इदानीम् एव आपणिकः आगत्य तां मुक्तावलीं दत्तावान्। भवान् निश्चिन्तः भूत्वा पूर्ववत् स्वकीयं कार्यं करोतु इति उक्तवान्। तदा हालकः अञ्जलिपूर्वकं चैतन्यं नमास्कृत्य आर्य कालेयः हारं चोरितवान् इति भवतः वचनेन अस्माकम् अपि शुभम् एव जातम् इति उक्तवान्।

कथम्? कीदृशं शुभम् इति चैतन्यः आश्चर्येण पृष्टवान्। अहं कुटीरं गत्वा मम पत्नीं तस्याः पितामहस्य गृहं प्रति प्रेषितवान्। मरणसमये पितामहः स्वीयां सम्पत्तिं दद्यात् इति आशया एव कालेयः तत्र गतवान् आसीत्। तथा किमपि नास्ति इति यदा वृद्धः उक्तवान् तदा तम् निन्दन् कालेयः प्रतिनिवृत्तः। मम पत्नी तु तत्रैव स्थित्वा प्रातःपर्यन्तं पितामहस्य सेवां कृतवती। तदा वृद्धस्य सम्भाषणशाक्तिः अपि अतीव क्षीणा आसीत्। यथाकथञ्चित् स्वीयधनस्य गुप्तस्थानम् उक्तवान्। स्वस्य मरणानन्तरम् उत्तरक्रियादिसंस्कारः मया एव कर्तव्यः इति सूचितवान् अस्ति इति हालकः उक्तवान्।

तदा चैतन्यः मनसि अहं कालेयस्य विषये सन्देहं प्रकटितवान्। तेन हालकस्य लाभः एव जातः इति चिन्तयन् भोः हालक! भवान् भाग्यवान् अस्ति। तस्य वृद्धस्य महती सम्पत्तिः स्यात् किल इति पृष्टवान्। अस्ति आर्य! तेन धनेन स्वतन्त्ररूपेण वाणिज्यम् अपि कर्तुं शक्यते इति हालकः उक्तवान्।

एतादृशं हालकं गतदिने अहं वृथा निन्दितवान् इति चैतन्यः दुःखितः अभवत्। सः हालकं प्रीत्या पश्यन् यथाकथञ्चित् मुक्ताहारेण भवतः मम च कल्याणमेव अभवत्। भवतः सम्पत्तिलाभेन मम महान् सन्तोषः जातः। भवतः वाणिज्ये यत् किमपि साहाय्यम् अपेक्षितं भवति चेत् विना सङ्कोचं मां पृच्छतु इति उक्तवान्।

Identify different words like noun, pronoun, case-endings, adjectives, adverbs, indeclinable, verbs, tenses and mood as I discussed in different lectures in my Beginners, Competency and Fluency courses. Also, identify the sentence constructions for active voice, passive voice, causal verb forms to improve your Sanskrit language knowledge. All these stories are not debatable for the contents. With open mind, from every story we can learn Social and Dharmic values useful for our life, is my personal opinion. The Chandama Sanskrit stories are retyped for readability and searchability with education purpose only and in no way to infringe the copyrights. Please bring to my notice if you found any typing errors.